द्वादशकाण्डः - ६ ते १०
पैप्पलादसंहिता
६
असपत्न: सपत्नहेन्द्र इवारिष्टो अक्षितः ।
अध: सपत्नास्ते पदो: सर्वे सन्त्वभिष्ठिताः ॥१॥
म्लायन्तु ते खातमूलाः सपत्ना अग्निमेषां निर्ह्वयामि शरीरात् ।
हविषैषामपि दधामि प्राणांस्तथैभ्यो अमुचिः कृताः ॥२॥
अभिवर्धमभिभवं सपत्नक्षयणं हविः ।
राष्ट्राय तुभ्यं कृण्मः सपत्नेभ्यः पराभवन् ॥३॥
यो न: स्वो यो अरणो ऽरातीयति पूरुषः ।
इध्मस्येव प्रक्षायकस्तस्य मोच्छेषि किं चन ॥४॥
असपत्नं पुरस्तात् पश्चान्नो ऽभयं कृतम् ।
सविता मा दक्षिणत उत्तरान्मा शचीपतिः ॥५॥
दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः।
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।
तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वत: सन्तु वर्म ॥६॥
७
त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।
त्वया जघान कश्यपस्त्वया कृण्वो अगस्त्य: ॥१॥
त्वया वयमप्सरसो गन्धर्वांश्चातयामसि ।
अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥
नदीं यन्त्वप्सरसो अपान्तारमिव श्वसन् । .
गुल्गुलू पीला नलद्यौक्षगन्धिः प्रमन्दिनी ॥३॥
यत्रामर्त्या अप्स्वन्तः समुद्रे तरुर्नीली तुर्वशी पुण्डरिका।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥४॥
यत्र प्रेङ्खो गन्धर्वाणां दिवि बद्धो हिरण्ययः ।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥५॥
गन्धर्वाणामप्सरसामानर्तमिति संगमम्।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥६॥
यत्राश्वत्था न्यग्रोधा महारुक्मा: शिखण्डिन: ।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥७॥
यत्र वो ऽक्षा हरिता अर्जुना आघाटाः कर्कयः संवदन्ति ।
तत् परेता अप्सरसः प्रतिबुद्धा अभूतन ॥८॥
इयं वीरुच्छिखण्डिनो गन्धर्वस्याप्सरापतेः ।
भिनत्तु मुष्कावपि यातु शेफः ॥९॥
एयमगन्नोषधिर्वीरुधां वीर्यावती ।
अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥१०॥
८
अपेतेतो अप्सरसो गन्धर्वा यत्र वो गृहाः ।
तीक्ष्णशृङ्ग्यराटक्यजशृङ्गी व्यृषतु ॥१॥
जाया वेद वो अप्सरसो गन्धर्वाः पतयो यूयम् ।
अप क्रामत् पुरुषादमर्त्या मर्त्यं मा सचध्वम् ॥२॥
भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मै ।
ताभिर्गन्धर्वानभैद्यानवकादान् व्यृषतु ॥३॥
अवकादाङ् अभिशाचो भित्सु द्योतयमामकान् ।
गन्धर्वान् सर्वानोषधे प्र णुदस्व परा णय ॥४॥
उन्माद्यन्तीरभिशोचयन्तीर्मुनिं नग्नं कृण्वतीर्मोघहासिनम्
अप्सरसो रघटो याश्चरन्ति गन्धर्वपत्नीरजशृङ्ग्याशये ॥५॥
श्वेतीकृण्वानः पुरुषं विश्वा रूपाणि बोभुवत् ।
श्वेवैकं कपिरिवैकं कुमार: सर्वकेशकः ।
प्रिय दृशे भूत्वा गन्धर्वः सचते स्त्रियं तमितो नाशयामसि ॥६॥
९
यो वै वशां देवयते पचते वाहुताममा ।
मृत्योः स बध्यते पाशे देवानां च यमस्य च ॥१॥
दक्षिणां सूर्यामदितिं वदन्ति वशां वाचं कल्पयन्तः समानीम् ।
सप्तऋषयो नि दधुर्वाचमेतां सरस्वती मृडया कल्पयन्त: ॥२॥
इमां वशां वाचमाहुर्वशेति तिस्रो वशा अतिहिताः सधस्थे ।
तासामग्नौ मनसैकां जुहोमि तां नः स्वाद्वीं भूतपतिः कृणोतु ॥३॥
स्वाद्वीं न एतां सविता कृणोतु स्वाद्वीं न एतां जनिता पशूनाम् ।
जुहुध्यग्ने वयुनानि विद्वांस्तां न: स्वाद्वीं भूतपतिः कृणोतु ॥४॥
इदं तृतीयं वशिनी वशाशि महिम्ने त्वा गर्भो अभ्या विवेश ।
उशती त्वमुशतो गच्छ देवान् सत्याः सन्तु यजमानस्य कामाः ॥५॥
इयमम्भसा वाजसुतस्तभे गौर्यस्यामिन्द्रो वरुणस्तित्विषाते ।
नृम्णमनृम्णं सचत इयमागन् धीरः पशुर्वीर्यमा विवेश ॥६॥
वशा ससूव स्थविरं विपश्चितं वशा ससूव वष्कयं दिविस्पृशन् ।
वशा ससूव तरुणं विभाजने वशा ससूव संजितं धनानाम् ॥७॥
यत् प्रोक्षणमपतद्बर्हिषस्परि दक्षिणतो वेद्या इन्द्रियावत् ।
वशा संभूत्याधि गौरमीमेतस्या: पीवो अभवद्वर्मवाससम् ॥८॥
रमि नमो महिम्न उत चक्षुषे वां वशर्षभो मनसा तत् कृणोमि ।
देवाङ् अपीतं पथिभिः शिवेभिर्मा नो हिंसिष्टं हरसा देव्येन ॥९॥
वशामस्कन्ददृषभस्तिष्ठन्तीमधि तन्तुषु ।
गर्भं तमद्य को वेद यतिधा सो अकल्पयत् ॥१०॥
१०
रूपमेक: पर्यभवद्राजा नामैक उच्यते ।
पतीरूपस्यैको रूपं रूपमेक: सुकृत्वनाम् ॥१॥
प्रजापति: परमेष्ठी मृत्युर्विश्वानर: स्वः ।
सरस्वानस्या यज्ञस्य वशाया अधि जज्ञिरे ॥२॥
यस्य गृह आदायेत वशा देवकृतं हविः ।
निधानमस्या एष्यं दुहित्रे पत्यामिव ॥३॥
नास्याः सकृदभि तिष्ठेन्नास्य श्लोणा गृहे स्यात् ।
वशा कन्येव दुर्मङ्कापचित्याविजानता ॥४॥
नैनां रक्षेत् ब्राह्मणेभ्यो नामा वि ग्लापयाति च ।
यतीं न पत्या वर्तयेद् यस्य गोषु वशा स्यात् ॥५॥
नास्या वशमा रुन्धेद् देवा मनुष्या उत ।
वशं यदन्वैद् ब्रह्मणा तस्मादेषाभवद्वशा ॥६॥
वशं कृण्वाना वशिनीयमागन् पदं कल्याण्यवपश्यमाना ।
अग्निष्ट्येष्टिमभि जायमाना यज्ञस्य मात्रामभिकल्पमाना ॥७॥
इन्द्रवन्तस्ते मरुतस्तुरीयं भेजिरे वशे।
तुरीयमादित्या रुद्रास्तुरीयं वसवो वशे ॥८॥
तुरीयभाज आदित्यान् वशायाः कवयो विदुः ।
अथास्याः पथ्यैका तनुश्चतस्रश्चक्लृपे दिशः ॥९॥
वशा पन्थामन्वपश्यन्नाकपृष्ठं स्वर्विदाम् ।
आदित्या एनामन्वायन्नृषयश्च तपस्विनः ॥१o॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP