द्वादशकाण्डः - १६ ते २२
पैप्पलादसंहिता
१६
शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
शमिन्द्रासोमा सविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
शं नो भगः शमु नः शंसो अस्तु शं नः पुरुन्धिः शमु सन्तु राय॥
शं नः सत्यस्य सूयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
शं नो अग्निर्ज्योतिरनीको अस्तु शं मित्रावरुणावश्विना शम्।
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसः पतिरस्तु जिष्णुः ॥५॥
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु राज्ञाः ।
शं न: स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदि ॥७॥
शं न: सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।
शं न: पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्का:।
शं नो विष्णुः शमु पूषा नो अस्तु शं नप भवित्रं शम्वस्तु वायुः ॥९॥
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः।
श न: पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥१०॥पर्ज
१७
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः }
शं न ऋभवः सुकृत: सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥१॥
शं नो देवा विश्वेदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । सं
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
शं नो अज एकपाद् देवो अस्तु शमहिर्बुध्न्यः शं समुद्र: ।
शं नो अपां नपात् पेरुरस्तु शं नः पृश्निर्भवतु देवगोपाः ॥३॥
आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।
शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
तदस्तु मित्रावरुणा तदग्ने शंयोरश्मभ्यमिदमस्तु शस्तम् ।
अशीमहि गातुमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥
१८
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एष: ।
तस्मै जुहोमि हविषा घृतेन मा देवानां यूयवद्भागधेयम् ॥१॥
युक्तो वह जातवेदः पुरस्तादग्ने विद्धि क्रियमाणं यथेदम् ।
त्वं भिषग् भेषजस्थापि कर्ता त्वया गामश्वं पुरुषं सनेम ॥२॥
तथा त्वमग्ने कृणु जातवेदोऽनेन विद्वान् हविषा यविष्ठ ।
पिशाचो अस्य यतमो जघास यथा सो अस्य परिधिष्पताति ॥३॥
योऽस्य दिदेव यतमो जघास यथा स अस्य परिधिष्पताति ।
तथा त्वमग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः ॥४॥भिदे
अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्धि प्र दतः शृणीहि ।
पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति तं शृणीहि ॥५॥
यदस्य हृतं विहृतं यत् पराभृतमात्मनो जग्धमुत यत् पिशाचैः ।
तदग्ने विद्वान् पुनरा भर त्वं शरीरे प्राणमसुमेरयास्य ॥६॥
अपां त्वा पाने यतमो ददम्भौदने मन्थे यदि वोत लेहे ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥
क्षीरे त्वा मांसे यतमो ददम्भाकृष्टपच्ये अशने धान्ये य: ।
तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥
आमे सुपक्वे शवले विपक्वे य इमं पिशाचो अशने ददम्भ।
तमिन्द्रो वाजी वज्रेण हन्तु भिनत्तु सोमः शिरो अस्य धृष्णुः ॥९॥
दिवा त्वा नक्तं यतमो ददम्भ क्रव्याद् यातुः शयने पिशाच:॥
तदग्ने विद्वान् प्र दह क्षिणीह्यप्येनं धेहि निर्ऋतेरुपस्थे ॥१०॥
१९
सोमस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितु: सवेन ।
अग्नेर्होत्रेण प्र णुदे पिशाचान् यविष्ठस्य ब्रह्मणा जातवेदसः ॥१॥
क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः सहोभिः।
श्रद्धेमं ब्रह्म जुषतां दक्षिणायुर्यथा जीवात्यगदो भवति ॥२॥
पुनस्त्वा प्राणः पुनरैत्वायुः पुनश्चक्षुः पुनरैतु श्रोत्रम् ।
अपघ्ना नो दुरितानि विश्वा शतं हिमा: सर्ववीरा मदेम ॥३ ॥सतं
पुनरस्मै मनो धेहि पुनरायुः पुनर्बलम्।
अपानमस्य प्राणं चाग्ने वर्धय जीवसे ॥४॥
चक्षुः सूर्य पुनर्देहि वात प्राणं समीरय ।
शरीरमस्य मांसान्यग्ने सं भारया त्वम् ॥५॥
समा भर जातवेदो यज्जग्धं यत् पराभृतम् ।
गात्राण्यस्य कल्पय पुनरा प्यायतामयम् ॥६॥
सोमस्येव जातवेदो अंशुरा प्यायतामयम् ।
अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवसे ॥७॥रप्सि
सं मा सिञ्चन्तु मरुत: सं पूषा सं बृहस्पतिः ।
सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ॥८॥
वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम्।
सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्नि: ॥९॥
ये पुमांसो यातुधाना या स्त्रियो यातुधान्य: ।
बलवदिन्द्रस्य वज्रेणावाचीनानव हन्मि तान् ॥१०॥
२०
यं शपामो य उ नः शपाति यं दिष्मो य उ द्वेषत् पिशाचः।
क्रव्यादमग्ने महता वधेन तमत्रापि प्र दह जातवेद: ॥१॥
य आरेभे यस्य वा घास्यप्सरा यः कृण्वेन संविदो यातुमावान् ।
उलूकयातुं भृमलो यस्य यातुस्तमत्रापि प्र दह जातवेदः ॥२॥
य आददे यस्य वाघासि पित्र्यास्तेन श्वयातुरुत संभिधेहिभिः।
यः पताद्रोधनस्याधिदेवनं क्रव्यात् पिशाचः क्रविषस्तितृप्सन्।
उलूकयातुं भूमलो यस्य यातुस्तमत्रापि प्र दह जातवेदः ॥३॥
यः पुरुषेणेयते रथेन क्रव्याद् यातुः पिशुनः पिशाचः ।
वैश्वानरेण सयुजा सूर्येण तमत्रापि प्र दह जातवेदः ॥४॥
यो नो वलिं मृगयां यश्च नः कृषिं परितिष्ठाद् यतुभिर्यश्च न: शपात्।
अस्ता रुद्रः श्रथत्वायुरस्य तमत्रापि प्र दह जातवेद:॥५॥यात
मा यातुमान् विदत मूडितारमलोका अस्मै प्रदिशो भवन्तु ।
समेनं तपतां रोदसी उभे तमत्रापि प्र दह जातवेद: ॥६॥यात
ज्योतिष्मतीस्तपना याध रोचना प्रत्योषन्तीस्तन्वो यास्ते अग्ने।
ताभिर्मे मर्माण्यभितो ददस्व मा त्वा दभन् यातुधाना नृचक्षः ॥७॥
अपो देवी: पिशाचानामप नह्यन्त्वास्यम् ।
यथेमं ममात्मानमनाधृष्य पुन: पतान् ॥८॥
सदं पुष्पे सदं फले सदमिन्द्राभिरक्षिते।
सदा पिशाचा म्रियन्तां मैषामुच्छेषि कधन ॥९॥
ये पतन्तो यातुधाना दिवानक्तमुपाचरान् ।
रात्री मा तेभ्यो रक्षत्वह्न आत्मानं परि ददे ॥१o॥
२१
इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।
दर्भं सपत्नजम्भनं द्विषतस्तपन हृद: ॥१॥
द्विषतस्तापयन् हृद: शत्रूणां तापयन् मनः ।
दुर्हार्दः सर्वास्त्वं दर्भ घर्म इवाभीत् सुतापयन् ॥२॥
घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।
हद सपत्नानां भिन्धीन्द्र इव विरुजं बलम् ॥३॥
भिन्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।
उद्यं त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥
भिन्धि दर्भ सपत्नान् मे भिन्धि मे पृतनायत: ।
भिन्धि मे सर्वान् दुर्हार्दो भिन्धि मे द्विषतो मणे ॥५॥
छिन्धि दर्भ सपत्नान् मे छिन्धि मे पृतनायतः ।
छिन्धि मे सर्वान् दुर्हार्दो छिन्धि मे द्विषतो मणे ॥६॥
वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायत: ।
वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥
कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायत: ।
कृन्त मे सर्वान् दुहृदः कृन्त मे द्विषतो मणे ॥८॥
पिंश दर्भ सपत्नान् मे पिंश मे पृतनायत: ।
पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥
विध्य दर्भ सपत्नान् मे विध्य मे पृतनायत: ।
विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥
२२
निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायत: ।
निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥
तृन्धि दर्भ सपत्नान् मे तृन्धि मे पृतनायत: ।
तृन्धि मे सर्वान् दुर्हार्दो तृन्धि मे द्विषतो मणे ॥२॥
भङ्धि दर्भ सपत्नान् मे भङ्धि मे पृतनायत: ।
भङ्धि मे सर्वान् दुर्हार्दो भङ्धि मे द्विषतो मणे ॥३॥
मृण दर्भ सपत्नान् मे मृण मे पृतनायत: ।
मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥
मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायत: ।
मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥
कृन्त दर्भ सपत्नान् में कृन्त मे पृतनायत: ।
पिण्ढि दर्भ सपत्नान् मे पिण्ढि मे पृतनायत: ।
पिण्ढि मे सर्वान् दुर्हार्दो पिण्ढि मे द्विषतो मणे ॥६॥
ओष दर्भ सपत्नान् मे ओष मे पृतनायत: ।
ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥
दह दर्भ सपत्नान् मे दह मे पृतनायत: ।
दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥
जहि दर्भ सपत्नान् मे जहि मे पृतनायत: ।
जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥
यत्ते दर्भ जरामृत्यू स ते मर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा सपत्नान् जहि वीर्यैः ॥१०॥
शतं ते दर्भ वर्माणि सहस्त्रं वीर्याणि ते ।
तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥११॥
त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥१२॥
सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥१३॥
यत् समुद्रो अभ्यक्रन्दत् पर्जन्यो विद्युतां सह । पर्य
ततो हिरण्ययो बिन्दुस्ततो दर्भे अजायत ॥१४॥
(इति पञ्चदशर्चोनाम द्वादशकाण्डे द्वितीयो ऽनुवाकः)
इत्यथर्ववेद पैप्पलादसंहितायां पञ्चदशर्चोनाम द्वादशाकाण्ड: समाप्तः
N/A
References : N/A
Last Updated : May 12, 2021
TOP