पञ्चदशकाण्ड: - १ ते ५
पैप्पलादसंहिता
१
सम्यन्दिग्भ्यः पवते सं स्वर्विन्मधोरतो माधवः पात्वस्मान् ।
अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रं रक्षतु पात्वस्मान् ॥१॥
रथन्तरं सामभि: पात्वस्मान् गायत्रेण च्छन्दसा विश्वरूपम् ।
द्वादशा इष्टय स्तोमो अह्नां समुद्रो वाच इदमोज: पिपर्तु ॥२॥
उग्रा दिशामभिभूतिर्वयधा: शुचिः शुक्रे अहन्योजस्ये ।
इन्द्राधिपतिः पिपृतादतो नो मयि क्षत्रं विश्वतो धारयेदम् ॥३॥
बृहद्राष्ट्रं क्षत्रभृद्वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरम् ।
इन्द्र स्तोमैः पञ्चदशेन वर्च इदं वातेन सगरेण रक्षतु ॥४॥
प्राची दिशां सहयशा यशस्वती विश्वे देवा: प्रावृषाह्नां स्वर्वती ।
इदं क्षत्रं दुष्टरमस्त्वोजो अनाधृष्टं सहस्वं सहस्वत् ॥५॥
वैरूपे सामन्यह तच्छकेयं जगत्यैनद्विक्ष्वा वेशयामि ।
विश्वे देवाः सप्तदशेन वद्यमिदं क्षत्रं सलिलावतमुग्रम् ॥६॥
धर्त्री दिशां क्षत्रमिदं दाधर्तूपस्थाशानां मित्रवदस्त्वोजः ।
मित्रावरुणा शरदाह्ना चिकित्नू अस्मै क्षत्राय महि शर्म यच्छतम् ॥७॥
वैराजे सामन्यधि मे मनीषानुष्टुभा संभृतं वीर्यं सह ।
इदं क्षत्रं मित्रवदार्द्रदान्वोजा मित्रावरुणा रक्षतमाधिपत्ये ॥८॥
सम्राड् दिशां सहसाम्नी सहस्वत्यृतुर्हेमन्तो विष्टया न: पिपर्तुं ।
ओषजातां बृहती तु शक्वरीमं यज्ञमवतां नो घृताची ॥९॥
स्वर्वती सुदुघा न: पयस्वती दिशां देव्यवतु नो घृताची ।
त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्धि वाचम् ॥१०॥
२
स्तोमैकविंशे भुवनस्य पत्नि विवस्वग्वाते अभि नो गृणीहि ।
घृतवती सवितराधिपत्ये पयस्वती रन्तिराशा नो अस्तु ॥१॥
ऊर्ध्वा दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्ना ।
रेवत्साम्नां पङ्क्तिश्छन्दसामजातशत्रुः स्योना नो अस्तु ॥२॥
विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी ।
विश्वव्यचा इषयन्ती सुहुतिः स्योना नो अस्त्वदितेरुपस्थे ॥३॥
ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो या मनोता ।
बृहस्पतिर्मातरिश्वोत वायुः सन्धाना वाता अभि नो गृणन्तु ॥४॥
यो नः पिता जनिता यो विधर्ता यो न: सतो अभ्या सज्जजान ।
स आशिषा द्रविणमिच्छमान: प्रथमच्छदो वर आ विवेश ॥५॥
अभ्या वर्तस्व पृथिवी यज्ञेन पयसा सह ।
अपान्तो अग्निरिषितो ऽव रोहतु ॥६॥
यदग्ने चन्द्रं यत् पूतं यच्छुक्रं यच्च यज्ञयिम् ।
तद् देवेभ्यो भरामसि ॥७॥
इषमूर्जमहमत आदि यज्ञस्य योनौ महिषस्य धामन् ।
आा नो गोषु विशस्त्वा प्रजायां जहामि सेदिमनिराममीवाम् ॥८॥
१३
आयुषो ऽसि प्रतरणं विप्रं भेषजमुच्यसे ।
तदाञ्जन त्वं शन्तातेसि मायोभवं कृतम् ॥१॥
यो हरिमा जायान्यो अङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
कृणोत्वत्प्रमायकं रथजूतिमनागसम् ॥३॥
प्राण प्राणं त्रायस्वासो असवे मृड़॥
निर्ऋते निर्ऋत्या नः पाशेभ्यो मुञ्च ॥४॥
सिन्धोगर्भो ऽसि विद्युतां पुष्पम् ।
वात: प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥
देवाञ्जनं त्रैककुदं परि मा पाहि विश्वतः ।
न त्वा तरन्त्योषधयो बाह्या: पर्वतीया उत ॥६॥
वीदं मध्यमवासृजद्रक्षोहामीवचातनः ।
अमीवा: सर्वाश्चातयन्नाशयदभिभा इति ॥७॥
बह्विदं राजन् वरुणानृतमाह पुरुषः ।
तस्मात् सहस्रवीर्य मुञ्च न: पर्यंहसः ॥८॥
यदापो अघ्न्या इति वरुणेति यदूचिम ।
तस्मात् सहस्रवीर्य मुञ्च न: पर्यंहसः ॥९॥
मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।
तौ त्वानुगत्य दूरं भोगाय पुनरोहतु ॥१०॥
४
ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्द: पृष्टीरपि शृणाञ्जन ॥१॥
यदस्मासु दुष्वप्न्यं यद् गोषु यच्च नो गृहे ।
अमामगत्यस्त दुर्हार्दः प्रिय प्रति मुञ्चताम् ॥२॥
अपामूर्ज अतसो वावृधानमग्नेर्जातमधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु।
ध्रुवस्तिष्ठाधि सवितेव वार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥
आङ्क्ष्वैक मणिमेकं कृणुष्व स्नाह्येकेन पिबैकमेषाम् ।
चतुर्वीरं नैर्ऋतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥
अग्निर्माघ्न्येनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
इन्द्रो मेन्द्र्येणावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
सोमो मा सोम्येनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
मरुतो मा गणैरवन्तु प्राणायापानायायुषे वर्चस ओजसे तेजसे स्वस्तये सुभूतये स्वाहा ॥१०॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे प्रथमोऽनुवाक:)
५
आयुर्दा देव जरसं पृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमम् ॥१॥
आयुरस्मै धेहि जातवेद: प्रजां त्वष्टरधि नि धेह्योनः ।
रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥
इममग्न आयुषे वर्चसे धाः प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥३॥
अग्निष्ट आयुः प्रतरं कृणोतु सोमस्ते पुष्टिं प्रतरं दधातु ।
इन्द्रो मरुत्वानधि ते ब्रवीत्वादित्यैस्ते अदितिः शर्म यच्छतु ॥४॥
रेवतीस्त्वा व्यक्षणं कृत्तिकाश्चकृतस्त्वा ।
अपसस्त्वामतन्वत धियोऽवयन्नवाग्नायीरपृञ्चन् ॥५॥
सहस्रमन्तां अभितोऽददन्ताशीतिर्मध्यमभयं वि नारीः।
देवीर्देवाय परिधे सवित्रे महत्तदासामघवन्महित्वम् ॥६॥
इममश्मानमा तिष्ठाश्मेव त्वं स्थिरो भव।
प्र मृणीहि दुरस्यतः सहस्व पृतनायतः ॥७॥
येन देवं सवितारं परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥८॥
परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।
यथैतं जरसे नयां ज्योक् क्षत्रे अधि जागरत् ॥९॥
परीमं सोममायुषे महे श्रोत्राय धत्तन ।
यथैनं जरसे नयां ज्योक् श्रोत्रे अधि जागरत् ॥१०॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP