पञ्चदशकाण्ड: - ११ ते १५
पैप्पलादसंहिता
११
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥१॥
सुपर्णं वस्ते मृगो अस्या द्न्तो गोभिः संनद्धा पतति प्रसूता।
यत्रा नरः सं च वि च द्रवन्ति तदस्मभ्यमिषवः शर्म यच्छान् ॥२॥
सुपर्णो वासो यदु सर्पिरासामनो हिरण्यमिषवः पतत्री ।
मास्माड् अरन्नमुत आपतन्तीरितः प्रहिताः सवितर्जयन्तु ॥३॥
अहिरिव भोगैः पर्येति बाहुँ ज्याया हेतिमपबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु मृत्योः ॥४॥
आ जङ्घन्ति सान्वेषां जघनां उप जिघ्नते ।
अश्वाजनि प्र चोदयाश्वान् समत्सु पादय ॥५॥
दिवस्पृथिव्याः पर्योज आाभृतं वनस्पतिभ्य: परि संभृतं सह: ।
अपामोज्मानं परि गोभिराभृतमिन्द्रस्य वज्रं हविषा रथं यज ॥६॥
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥७॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीर: ।
गोभि: संनद्धो रथ वीडयस्वास्थाता ते जयतु जेत्वानि ॥८॥
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद् दवीयो अप सेध शत्रून् ॥९॥
आा क्रन्दय बलमोजो न आ धा अभि ष्टन दुरितां बाधमानः।
अप सेध दुन्दुभे दुच्छुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥१०॥
१२
प्रामूञ्जयाभीमे जयन्तु केतुमद् दुन्दुभिर्वावदीतु ।
समश्वपर्णा: पतयन्तु नो नरो ऽस्माकमिन्द्र रथिनो जयन्तु ॥१॥
इन्द्रो रथाय प्रपदं कृणोतु यमध्यष्ठान् मघवा जयन्तम् ।
इर्य इव पशुभिर्युयोतु गोपा अरिष्टो जातः प्रथमः सिषासन् ॥२॥
पर्यन्यस्येव स्तनयित्नुरासोरिन्द्राग्न्योरिव चेखिद्यते घोषो अस्य ।
साहस्रो वीर: शतं ससन्वानयुतं ससन्वान् रथ मृडेह ॥३॥
श्येनस्य पक्षौ हरिणस्य बाहू इन्द्रस्य मुष्टिर्मरुतामनीकम् ।
गोभि: सनद्धो असि वीडयस्व ॥४॥
उद्यंयमीति सवितेव बाहू उभे सिचौ यजते भीम ऋञ्जन् ।
उच्छुक्रमत्कमजते शचीभिर्नवा मातृभ्यो वसना जहाति ॥५॥
उग्रौ ते नेमि पवी त उग्रा उग्राः शङ्कवो बृहतो रथस्य ।
ईषात्र वेणवो नमतिस्त उग्राग्निश्चक्षुः प्रवयणं रथस्य ।
तेनामित्रान् प्रमृणन् याहि शत्रून् ॥६॥
अरा नाभयो बलमित्ते अक्ष उग्रौ ते कोषौ सहनिस्यदाभ्याम्। वल
आण्योर्वधानुत कोषघोरा स्थानं बन्ध उत बन्धुरं ते ॥७॥
गोष्ठे बलं मृग एकमङ्गं परा क्रमध्वं मह आ सुवन्त॥
अभीशवो हतानेन वृत्रमयं क्षत्रेण प्रजयास्तूग्र: ॥८॥
आ तिष्ठ जिष्णुस्तरसा सपत्नान् साहस्रो वीरः प्रमृणन् याहि शत्रून्।
पृष्टियुगे कृणुतं वीर्याणि तदेतामेतं रथमस्य शग्मे ॥९॥
अष्टौ चक्षूंषि कवय: सं नमन्त्वश्वा प्राकाशा ऋजु धावयन्तः॥
अनु त्वा स्कम्भो ददतां पितेव चक्रमाणमैनं धत्स्वोपस्थे प्र तिरात्यायुः ॥१०॥
कविभि: स्युतः स रथे विबद्धः स धन्वधिर्धनुचित्ते जजान॥
अनुप्रास्येमानि पृथुमध्यमान्यश्वेभ्य: शंत्वाय कविभि: कृतानि तेभिष्टे शर्म यच्छन्तु देवा ॥११॥
१३
अग्निं ब्रूमो वनस्पतीनोषधीरुत वीरुध: ।
इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥
ब्रूमो देवं सवितारं धातारमुत पूषणम् ।
त्वष्टारमग्र्यं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥
ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।
अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥
गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।
अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥
वातं ब्रूम: पर्जन्यमन्तरिक्षमथो दिश: ।
आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥
अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसा उभा ।
आदित्यान् सर्वान् ब्रूमस्ते नो मुञ्चन्त्वंहस: ॥६॥
मुञ्चन्तु मा सपथ्यादहोरात्रे अथो उषाः ।
सोमो मा दिव्यो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥
पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि बूमसि ।
भङ्गो दर्भो यवः सहस्ते नो मुञ्चन्त्वंहस: ॥८॥
ये ग्राम्या: सप्त पशव आरण्या उत ये मृगाः ।
शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहस: ॥९॥
भवाञ्शर्वाविदं ब्रूम उग्रः पशुपतिश्च य: ।
इषूर्या एषां विद्मस्ते नो मुञ्चन्त्वंहसः ॥१०॥
१४
यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।
यजूंषि होत्रान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१॥
ऋतून् ब्रूम ऋतुपतीनार्तवाङ् उत हायनान् ।
समा: संवत्सरान् मासस्ते नो मुञ्चन्त्वंहसः ॥२॥
दिवं बूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥३॥
सप्त ऋषीन्वा इदं ब्रूमो ऽपो देवी: प्रजापतिम् ।
पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥४॥
विश्वान् देवानिदं ब्रूम: सत्यसन्धानृतावृधः ।
विश्वाभि: पत्नीभिः साकं ते नो मुञ्चन्त्वंहसः ॥५॥
आदित्या रुद्रा वसवो देवा दैवा अथर्वाण: ।
अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥६॥
ये देवा दिविषदो ऽन्तरिक्षसदश्च ये ।
पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥७॥
एत देवा दक्षिणतः पश्चात् प्राञ्च उतेदन ।
पुरस्ताच्छक्रा उत्तराद्विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥८॥
अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनानुत ।
मृत्यूनेकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥९॥
या देवीः पञ्च प्रदिशो ये देवा द्वादशार्त्तव: !
संवत्सरस्य ये दंष्ट्रास्ते न: सन्तु सदा शिवा:॥१०॥
भूतं ब्रूमो भूतपतिं भूतानामुत यस्पतिः ।
भूतानि सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥११॥
(इति अष्टादशर्चोनाम पञ्चदशकाण्डे तृतीयो अनुवाक:)
१५
यावद् द्यौर्यावत् पृथिवी यावत् पर्येति सूर्य: ।
तावत् त्वमुग्र ओषधे परि पाह्यरुन्धति ॥१॥
अरिष्टस्त्वा खनत्यरिष्टाय खनामि त्वा ।
द्विपाच्चतुष्पादस्माकं सर्वमस्त्वनातुरम् ॥२॥
देवानामसि स्वसा मरुतामसि सङ्चरी ।
यं जीवमश्नुषे त्वं न स रिष्याति पूरुष: ॥३॥
असन्धती नामासि तृतीयस्यामितो दिवि ।
तत्रामृतस्य रोहणं तेन त्वाच्छावदामसि ॥४॥
शं त आपो हृद्या: शं ते कुलिज्या उत।
शं वातः शं बृहस्पति: सं ते तपतु सूर्य: ॥५॥
शं त इन्द्राग्नी भवतां शं रात्री प्रति धीयताम् ।
शं ते पृथिव्यां वीरुध: शमु ते सन्त्वोषधी: ॥६॥
बह्वीषु हि त्वामविदमोषधीं वीर्यावतीम् ।
अरुन्धति त्वामाहार्षमितो मा पारयानिति ॥७॥
अभिप्रेप्सेव जीवन्तमभि दस्येदसन्धती ।
एषादविद्व्यभेषजी देवी वातीकृतस्य च ॥८॥
अनु षिञ्च नस्तत् कुर्वगदो वै भविष्यति ।
वातीकृतस्य भेषज्यागन् देव्यरुन्धती ! ॥९॥
मा बिभेर्न मरिष्यस्यगदो वै भविष्यसि ।
वातीकृतस्य भेषज्यागन् देव्यरुन्धती ॥१०॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP