संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ श्रमक्रिया

धनुर्वेदसंहिता - अथ श्रमक्रिया

धनुर्वेदसंहिता


क्रियाकलापान् वक्ष्यामि श्रमसाध्यांञ्छुचिष्मताम्
येषां विज्ञानमात्रेण सिद्धिर्भवति नान्यथा ॥११७॥
प्रथमं चापमारोय्य चूलिकां बन्धयेत्ततः
स्थानकं तु ततः कृत्वा बाणोपरि करं न्यसेत् ॥११८॥
तोलनं धनुषश्चैव कर्त्तव्यं वामपाणिना
आदानञ्च ततः कृत्वा सन्धानञ्च ततः परम् ॥११९॥
सकृदाकृष्टचापेन भूमिवेधं न कारयेत्
नमस्कुर्य्याच्च मां विघ्नराजं गुरुं धनुः शरान् ॥१२०॥
याचितव्या गुरोराज्ञा बाणस्याकर्षणं प्रति
प्राणवायुं प्रयत्नेन प्राणेन सह पूरयेत् ॥१२१॥
कुम्भकेन स्थिरं कृत्वा हुङ्कारेण विसर्जयेत्
इत्यभ्यासक्रिया कार्य्या धन्विता सिद्धिमिच्छता ॥१२२॥
षण्मासात् सिध्यते मुष्टिः शराः सम्वत्सरेण तु
नाराचास्तस्य सिध्यन्ति यस्य तुष्टो महेश्वरः ॥१२३॥
पुष्पवद्धारयेद्बाणं सर्पवत् पीडयेद्धनुः
धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत् सिद्धिमात्मनः ॥१२४॥
क्रियामिच्छन्ति चाचार्य्या दूरमिच्छन्ति भार्गवाः
राजानो दृढमिच्छन्ति लक्ष्यमिच्छन्ति चेतरे ॥१२५॥
जनानां रञ्जनं येन लक्ष्यपातात् प्रजायते
हीनेनापीषुणा तस्मात्प्रशस्तं लक्ष्यवेधनम् ॥१२६॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP