द्वितीयः भागः - अरोचकाधिकारः
भावप्रकाशसंहिता
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः
अरोचकाः स्युः परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन ॥१॥
कट्वम्लमुष्णं विरसञ्च पूति पित्तेन विद्याल्लवणञ्च वक्त्रम्
माधुर्यपैच्छिल्यगुरुत्वशैत्यस्निग्धत्वदौर्गन्ध्ययुतं कफेन ॥२॥
अरोचकं शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात्
स्वाभाविकञ्चास्यमथारुचिश्च त्रिदोषजे नैकरसं भवेच्च ॥३॥
हृच्छूलपीडनयुतं पवनेन पित्तात्तृड्दाहचोषबहुलं सकफप्रसेकम्
श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्याद् वैगुण्यमोहजडताभिरथापरञ्च ॥४॥
प्रक्षिप्तन्तु मुखे चान्नं यत्र नास्वाद्यते नरः
अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु ॥५॥
चिन्तयित्वा तु मनसा दृष्ट्वा स्पृष्ट्वा तु भोजनम्
द्वेषमायाति यो जन्तुर्भक्तद्वेषः स उच्यते ॥६॥
कुपितस्य भयार्त्तस्य तथा भक्तविरोधिनः
यत्र नान्नेभवेच्छ्रद्धा सोऽभक्तच्छन्द उच्यते ॥७॥
भोजनाग्रे सदा पथ्यं लवणार्द्र कभक्षणम्
रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनम् ॥८॥
शृङ्गबेररसंवाऽपि मधुना सह योजयेत्
अरुचिश्वासकासघ्नं प्रतिश्यायकफापहम् ॥९॥
पक्वाम्लीका सिता शीतवारिणा वस्त्रगालिता
एलालवङ्गकर्पूरमरिचैरवधूलिता ॥१०॥
पानकस्यास्य गण्डूषं धारयित्वा मुखे मुहुः
अरुचिं नाशयत्येव पित्तं प्रशमयेत्तथा ॥११॥
राजिकाजीरकौ भृष्टौ भृष्टं हिङ्गु सनागरम्
सैन्धवं दधि गोः सर्वं वस्त्रपूतं प्रकल्पयेत् ॥१२॥
तावन्मात्रं क्षिपेत्तत्र यथा स्याद्रुचिरुत्तमा
तक्रमेतद्भवेत्सद्यो रोचनं वह्निवर्द्धनम् ॥१३॥
सम्यगावर्त्तितं दुग्धं निबद्धं दधि माहिषम्
एकीकृत्य पटे घृष्टं शुभ्रशर्करया समम् ॥१४॥
एलालवङ्गकर्पूरमरिचैश्च समन्वितम्
नाम्ना शिखरिणी कुर्याद्रुचिं सकलवल्लभाम् ॥१५॥
द्वे पले दाडिमाम्लस्य खण्डं दद्यात्पलत्रयम्
त्रिसुगन्धि पलं चैकं चूर्णमेकत्र कारयेत् ॥१६॥
तच्चूर्णं मात्रया भुक्तमरोचकहरं परम्
दीपनं पाचनं च स्यात् पीनसज्वरकासजित् ॥१७॥
लवङ्गकङ्कोलमुशीरचन्दनं नतं सनीलोत्पलकृष्णजीरकम्
जलं सकृष्णागुरुभृङ्गकेशरं कणा च विश्वा नलदं सहेलया ॥१८॥
तुषारजातीफलवंशरोचनाः सिताऽद्धभागाः सकलं विचूर्णितम्
सुरोचनं तर्पणमग्निदीपनं बलप्रदं वश्यतमं त्रिदोषजित् ॥१९॥
उरोविबन्धं तमकं गलग्रहं सकासहिक्काऽरुचियक्ष्मपीनसम्
ग्रहण्यतीसारमुरःक्षतं नृणां तथा प्रमेहान्निखिलान्निहन्ति च ॥२०॥
यवानी दाडिमं शुण्ठी तिन्तिडीकाम्लवेतसैः
बदराम्लञ्च कुर्वीत चतुःशाणमितानि च
सार्द्धद्विशाणं मरिचं पिप्पली दशशाणिका ॥२१॥
त्वक्सौवर्चलधान्याकजीरकं द्विद्विशाणिकम्
चतुःषष्टिमितैः शाणैः शर्करामत्र योजयेत् ॥२२॥
चूर्णितं सर्वमेकत्र यवानीखाण्डवाभिधम्
चूर्णं जयेत्पाण्डुरोगं हृद्रो गं ग्रहणीज्वरम् ॥२३॥
छर्दिशोषातिसारांश्च प्लीहानाहविबद्धताम्
अरुचिं शूलमन्दाग्निमर्शोजिह्वागलामयान् ॥२४॥
इति षोडशोऽरोचकाधिकारः समाप्तः ॥१६॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP