संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - छर्द्यधिकारः

भावप्रकाशसंहिता


अथ सप्तदशश्छर्द्यधिकारः ॥१७
अतिद्र वैरतिस्निग्धै रहृद्यैर्लवणैरपि
अकाले चातिमात्रैश्च तथासात्म्यैश्च भोजनैः ॥१॥
आमाद्भयात्तथोद्वेगाद जीर्णात्क्रिमिदोषतः
नार्याश्चापन्नसत्त्वाया स्तथाऽतिद्रुतमश्नतः
बीभत्सैर्हेतुभिश्चान्यैर्भुक्तमुत्क्लिश्यते बलात् ॥२॥
दुष्टदोषैः पृथक्सर्वैर्विभत्सालोकनादिभिः
छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥३॥
हृल्लासोद्गारसंरोधौ प्रसेको लवणास्यता
द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ॥४॥
छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ॥५॥
हृत्पार्श्वपीडामुखशोष शीर्षनाभ्यर्त्तिकासस्वरभेदतोदः
उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् ॥६॥
कृच्छ्रेण चाल्पं महता च वेगेनार्त्तोऽनिलाच्छर्दयतीव दुःखम् ॥७॥
मूर्च्छापिपासामुखशोष मूर्द्धताल्वक्षिसन्तापतमोभ्रमार्त्तः
पीतं भृशोष्णं हरितञ्च तिक्तं धूम्रञ्च पित्तेन वमेत्सदाहम् ॥८॥
तन्द्रा ऽस्यमाधुर्यकफप्रसेक सन्तोषनिद्रा ऽरुचिगौरवार्त्तः
स्निग्धं घनं स्वादु कफाद्धि शुक्लं सलोमहर्षोऽल्परुजं वमेत्तु ॥९॥
असात्म्यजा च कम्जाऽमजा च बीभत्सजा दौर्हृदजा च या हि
सा पञ्चमी ताञ्च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ॥११॥
शूलहृल्लासबहुला कृमिजा च विशेषतः
कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता ॥१२॥
कासः श्वासो ज्वरस्तृष्णाहिक्कावैचित्त्यमेव च
हृद्रो गस्तमकश्चैव ज्ञेयाश्छर्देरुपद्र वाः ॥१३॥
क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्र वा शोणितपूययुक्ता
सचन्द्रि कां तां प्रवदन्त्यसाध्यां साध्यां चिकित्सेन्निरुपद्र वां च ॥१४॥
आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात्
विधीयते मारुतजां विना तु संशोधनं वा कफपित्तहारि ॥१५॥
हन्यात्क्षीरोदकं पीतं छर्दिं पवनसम्भवाम्
मुद्गामलकयूषो वा ससर्पिष्कः स सैन्धवः ॥१६॥
गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम्
पिबेन्मधुयुतं तेन छर्दिर्नश्यति पित्तजा ॥१७॥
हरीतकीनां चूर्णन्तुलिह्यान्माक्षिकसंयुतम्
अधोमार्गीकृते दोषे छर्दिः शीघ्रं निवर्त्तते ॥१८॥
विडङ्गत्रिफलाविश्वा चूर्णं मधुयुतं जयेत्
विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥१९॥
पिष्ट्वा धात्रीफलं लाजाञ्छर्कराञ्च पलोन्मिताम्
दत्वा मधुपलञ्चापि कुडवं सलिलस्य च
वाससा गालितं पीतं हन्ति च्छर्दिं त्रिदोषजाम् ॥२०॥
गुडूच्या रचितं हन्ति हिमं मधु समन्वितम्
दुर्निवारामपि च्छर्दिं त्रिदोषजनितां बलात् ॥२१॥
एलालवङ्गगजकेशरकोलमज्जालाजाप्रियङ्गुघनचन्दनपिप्पलीनाम्
चूर्णानि माक्षिकसितासहितानि लीढ्वा छर्दिं
निहन्ति कफमारुतपित्तजाताम् ॥२२॥
अश्वत्थवल्कलं शुष्कं दग्धं निर्वापितं जले
तज्जलं पानमात्रेण छर्दिं जयति दुर्जयाम् ॥२३॥
पथ्यात्रिकटुधान्याक जीरकाणां रजो लिहन्
मधुना नाशयेच्छर्दिमरुचिञ्च त्रिदोषजाम् ॥२४॥
बिल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रे ण संयुतः
छर्दिं त्रिदोषजां हन्ति पर्पटः पित्तजां तथा ॥२५॥
आम्रास्थिबिल्वनिर्यूहः पीतः समधुशर्करः
निहन्याच्छर्द्यतीसारं वैश्वानर इवाहुतिम् ॥२६॥
जम्ब्वाम्रपल्लवशृतं लाजरजः संयुतं शीतम्
शमयति मधुना युक्तं वमिमतिसारं तृषामुग्राम् ॥२७॥
बीभत्सजां हृद्यतमैरिष्टैर्दौर्हृदजां फलैः
लङ्घनैरामजां छर्दिं जयेत्सात्म्यैरसात्म्यजाम् ॥२८॥
कृमिहृद्रो गवद्धन्याच्छर्दिं कृमिसमुद्भवाम्
तत्र तत्र यथादोषं क्रियां कुर्याच्चिकित्सकः ॥२९
सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः
समधुकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ॥२९॥
सौवर्चलमजाजी च शर्करा मरिचानि च
क्षौद्रे ण सहितं लीढं सद्यश्छर्दिनिवारणम् ॥३१॥
इति सप्तदशश्छर्द्यधिकारः सम्पूर्णः ॥१७॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP