शिवधनुर्वेदः - अथ धनुर्वेदः
शिवधनुर्वेदः
ईश्वरोक्ताद्धनुर्वेदाद्व्यासस्यापि सुभाषितात्
पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया ॥१॥
विना शार्ङ्गधरं नान्यो धनुर्वेदार्थतत्त्ववित्
यतः स्वप्ने निशि प्राप्ता धनुर्वेदार्थतत्त्ववित्
यतः स्वप्ने निशि प्राप्ता शिवात्तत्त्वविचारणा ॥२॥
अतः संदेहदोलायां रोपणीयं न मानसम्
ग्रन्थेस्मिंश्चापचतुरैर्वीरचिन्तामणौ क्वचित् ॥३॥
यस्याभ्यासप्रसादेन निष्पद्यन्ते धनुर्धराः
जेतारः परसैन्यानां तस्याभ्यासो विधीयताम् ॥४॥
एकोऽपि यत्र नगरे प्रसिद्धः स्याद्धनुर्धरः
ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ॥५॥
==
अथ धनुर्धारणविधिः
आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते
लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ॥६॥
ब्राह्मणाय धनुर्देयं खड्गं वै क्षत्रियाय च
वैश्याय दापयेत्कुन्तं गदां शूद्रस्य दापयेत् ॥७॥
धनुश्चक्रं च कुन्तं च खड्गं च च्छुरिका गदा
सप्तमं बाहुयुद्धं स्यादेवं युद्धानि सप्तधा ॥८॥
आचार्यः सप्तयुद्धः स्याच्चतुर्युद्धस्तु भार्गवः
द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ॥९॥
हस्तः पुनर्वसुः पुष्यो रोहिणी चोत्तरात्रयम्
अनुराधाश्विनी चैव रेवती दशमी तथा ॥१०॥
जन्मस्थे च तृतीये च षष्ठे वै सप्तमे तथा
दशमैकादशे चन्द्रेसर्वकर्माणि कारयेत् ॥११॥
तृतीया पञ्चमी चैव सप्तमी दशमी तथा
त्रयोदशी द्वादशी च तिथयस्तु शुभा मताः ॥१२॥
सूर्यवारः शुक्रवारो गुरुवारस्तथैव च
एतद्वारत्रयं धन्यं प्रारम्भे शस्त्रकर्मणाम् ॥१३॥
एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत्
संतर्प्य दानहोमाभ्यां सुरान्वेदविधानतः ॥१४॥
ब्राह्मणान्भोजयेत्तत्र कुमारीश्चाप्यनेकशः
तापसानर्चयेद्भक्त्या ये चान्ये शिवयोगिनः ॥१५॥
अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः
गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ॥१६॥
कृतोपवासः शिष्यस्तु मृगाजिनपरिग्रहः
बद्धाञ्जलिपुटस्तत्रयाचयेद्गुरुतो धनुः ॥१७॥
अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता
आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥१८॥
शिखास्थाने न्यसेदीशं बाहुयुग्मे च केशवम्
ब्रह्माणं नाभिकूपे तु जङ्घयोश्च गणाधिपम् ॥१९॥
ॐ हॐ शिखास्थाने शंकराय नमः
ॐ हॐ बाह्वोः केशवाय नमः
ॐ हॐ नाभिमध्ये ब्रह्मणे नमः
ॐ हॐ जङ्घयोर्गणपतये नमः
ईदृशं कारयेन्न्यासं येन श्रेयो भविष्यति
अन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥२०॥
शिष्याय मानुषं चापं धनुर्मन्त्राभिमन्त्रितम्
काण्डात्काण्डाभिमन्त्रेण दद्याद्वेदविधानतः ॥२१॥
प्रथमं पुष्पवेधं च फलहीनेन पत्रिणा
ततः फलयुतेनैव मत्स्यवेधं च कारयेत् ॥२२॥
मांसवेधं ततः कुर्यादेवं वेधो भवेत्रिधा
एतैर्वेधैः कृतैः पुंसां शराः स्युः सर्वसाधकाः ॥२३॥
वेधने चैव मांसस्य शरपातो यदा भवेत्
पूर्वदिग्भागमाश्रित्य तदा स्याद्विजयी सुखी ॥२४॥
दक्षिणे कलहो घोरो विदेशगमनं पुनः
पश्चिमे धनधान्यं च सर्वं चैवोत्तरे शुभम् ॥२५॥
ऐशान्यां पतनं दुष्टं विदिशोऽन्याश्च शोभनाः
हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ॥२६॥
एवं वेधत्रयं कुर्याच्छङ्खदुन्दुभिनिः स्वनैः
ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् ॥२७॥
==
अथ चापप्रमाणम्
प्रथमं यौगिकं चापं युद्धचापं द्वितीयकम्
निजबाहुबलान्मानात्किंचिदूनं शुभं धनुः ॥२८॥
वरं प्राणाधिको धन्वी न तु प्राणाधिकं धनुः
धनुषा पीड्यमानस्तु धन्वी लक्ष्यं न पश्यति ॥२९॥
अतो निवबलोन्मानं चापं स्याच्छुभकारकम्
देवानामुत्तमं चापं ततो न्यूनं च मानवम् ॥३०॥
अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम्
तद्विज्ञेयं धनुर्दिव्यं शंकरेण धृतं पुरा ॥३१॥
तस्मात्परशुरामेण ततो द्रोणेन धारितम्
द्रोणाद्गृहीतं पार्थेन ततः सात्यकिना धृतम् ॥३२॥
कृते युगे महादेवस्त्रेतायां चापि राघवः
द्वापरे द्रोणविप्रश्च दैवं चापमधारयत् ॥३३॥
चतुर्विशाङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम्
तद्भवेन्मानवं चापं सर्वलक्षणसंयुतम् ॥३४॥
त्रिपर्व पञ्चपर्व च सप्तपर्व प्रकीर्तितम्
नवपर्व च कोदण्डं चतुर्धा शुभकारकम् ॥३५॥
चतुःपर्व च षट्पर्व अष्टपर्व विवर्जयेत्
केषांचिच्च भवेच्चापं वितस्तिनवसंमितम् ॥३६॥
अतिजीर्णमपक्वं च ज्ञातिधृष्टं तथैव च
दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तरहस्तकम् ॥३७॥
गुणहीनं गुणाक्रान्तं काण्डदोषसमन्वितम्
गलग्रन्थि न कर्तव्यं तलमध्ये तथैव च ॥३८॥
अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशम्
जातिधृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥३९॥
दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशनम्
बाह्यो लक्ष्यं न लभ्येत तथैवाभ्यन्तरेपि वा ॥४०॥
हीने तु संधिते बाणे संग्रामे भङ्गकारकम्
आक्रान्ते तु पुनः क्वापि न लक्ष्यं प्रप्यते दृढम् ॥४१॥
गलग्रन्थि तलग्रन्थि घनहानिकरं धनुः
एभिर्दोषैर्विनिर्मुक्तं सर्वकार्यकरं स्मृतम् ॥४२॥
शार्ङ्ग पुनर्धनुर्दिव्यं विष्णोः परममायुधम्
वितस्तिसप्तसंमानं निर्मितं विश्वकर्मणा ॥४३॥
न च स्वर्गे न पाताले न भूमौ कस्यचित्करे
तद्धनुर्वशमायाति मुक्त्वैकं पुरुषोत्तमम् ॥४४॥
पौरुषेयं तु यच्छार्ङ्ग बहुवत्सरशोषितम्
वितस्तिभिः सार्धषड्भिर्मितं सर्वार्थसाधनम् ॥४५॥
प्रयो योगयं धनुः शार्ङ्ग गजारोहाश्वसादिनाम्
रथिनां च पदातीनां वांशं चापं प्रकीर्तितम् ॥४६॥
N/A
References : N/A
Last Updated : May 23, 2021
TOP