द्वितीयोध्यायः - तृतीयः पादः
ब्रह्मसूत्रम् अनुभाष्यम्
अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।
करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥१॥
स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥२॥
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।
एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥३॥
दृष्टयुक्तयनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारे बहुवाक्यानुवतिर्ता ॥४॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥५॥
उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचितृयं युक्तयः पूर्वपक्षगाः ॥६॥
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥७॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्यासिद्धिसुव्यक्ती शास्त्रसिद्धिविर्पर्ययः ।
विशेषकारणं चेति सिद्धान्तस्यैव साधकाः ॥८॥
प्रकृतिः पुरुषः कालो देवास्तदभिमानिनः ।
महदाद्याश्च जायन्ते पराधीनविशेषिता ।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥९॥
अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥१०॥
मूतर्सम्पूर्णता चैव यद्यनाकाशता भवेत् ।
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥११॥
अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः ।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ॥१२॥
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ।
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ॥१३॥
तथापि पूर्वसम्बन्धपरतन्त्रविशेषयुक् ।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥१४॥
प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ॥१५॥
कालप्रवाह एवैको नित्यो नतु विशेषवान् ।
पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ॥१६॥
सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ।
प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ॥१७॥
पुमांसो देहसम्बन्धात्सृष्टिमन्त इतीरिताः ।
एवं प्रळयकालेऽपि प्रतिभातपरावरः ॥१८॥
मुख्यावायुर्नित्यसमः शरीरोत्पत्तिकारणात् ।
पराधीनविशेषेण जनिमानेव शब्दितः ॥१९॥
नैव किञ्चित्ततो जन्मवर्जितं परमादृते ।
पराधीनविशेषत्वे जन्मनः स्थूलताभवः ॥२०॥
पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ।
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ॥२१॥
प्रधनस्य च वेदस्य वेदस्यापीश्वरेच्छया ।
व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ॥२२॥
उत्पत्तिरत्र कथिता स्वतन्त्रत्वात्परात्मनः ।
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम् ॥२३॥
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ।
कृत्वा भोगान् प्रदायैव चैक्यमापादयेत्पुनः ॥२४॥
अत ईशवशं सर्वं चेतनाचेतनं जगत् ।
अविभागं विभागाय यदा नयति केशवः ।
किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥२५॥
एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ।
तद्योऽहमितिपूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥२६॥
न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।
प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते ।
एतमानन्दमित्यन्या परमं साम्यमित्यपि ॥२७॥
इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च ॥२८॥
उपसम्पद्य तज्ज्योतिः स्वरूपेणाभिपद्यते ।
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी ॥२९॥
आचक्ष्व मे मोक्षं धीरा यं प्रवदन्ति तम् ।
इत्यक्त आह वाग्देवी परं मोक्षं प्रजापतेः ॥३०॥
शाखां शाखां महानद्यः संयान्ति परितःस्रवाः ।
धानापूपा मांसकामाः सदा पायसकर्दमाः ॥३१॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ॥३२॥
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥३३॥
भेददृष्टयाभिमानेन निःसङ्गेनापि कमर्णा ।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥३४॥
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिता ।
जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥३५॥
ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ।
यत्कामस्तत्सृजत्यद्धैषात्मना तत्सृजत्यपि ॥३६॥
सहैव ब्रह्मणा कामान् भुङ्कते निस्तीर्णतद्गुणः ।
दुःखादींश्च परित्यज्य जगद्वयापारवर्जितः ॥३७॥
भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ।
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ॥३८॥
जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ।
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।
इति चेत्साध्यधर्मोऽयं सन्नसन् वा नवोभयम् ॥३९॥
यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।
नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥४०॥
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।
अनुमानेन चेत्सैव ह्यनवस्था भविष्यति ॥४१॥
नचागमस्तदर्थोऽस्ति नासदासीन्न तद्वदेत् ।
परिशेषादनिर्वाच्यं यदि सिद्धयेत्परात्मनः ॥४२॥
अनिर्वाच्यत्वमेव स्यात्परिशिष्टो ह्यसौ तदा ।
नचान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥४३॥
न च प्रत्यक्षमात्रास्ति नचार्थापत्तिरिष्यते ।
बाधायोगात्सत इति बाधाभावत एव हि ॥४४॥
विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ।
न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ॥४५॥
बाधायोगः सत इति व्याप्तिरेषा क्व दृश्यते ।
कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेत् ।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥४६॥
नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।
यदि बाधस्तदासत्त्वं तेनैवाङ्गीकृतं पुनः ॥४७॥
प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥४८॥
न चोपमा भवेदत्र प्रत्यक्षात्सत्त्वमेव च ।
शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥४९॥
अनुभूतिविरोधेन कथमेकत्वमुच्यते ।
किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते ॥५०॥
सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥५१॥
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥५२॥
स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ।
यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥५३॥
एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।
न चेदेकममानं तद्द्वयमप्यत्र नो भवेत् ॥५४॥
धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।
नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ॥५५॥
न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।
येन मानेन चापेयं भेदस्तेनावगम्यते ॥५६॥
सर्वज्ञानमयैवेशो यद्युपेयः कथञ्चन ।
सर्वज्ञथ्वगुणेनैव तया भेदोऽवगम्यते ॥५७॥
न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।
न हि बाधः क्वचिद्दृष्टो दुःखाद्यनुभवस्य तु ॥५८॥
यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥५९॥
श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥६०॥
न च बाधविशेषोऽस्ति यदबाधितमेव तत् ।
बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥६१॥
कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ।
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥६२॥
भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ।
स चेत्साक्षी क्वचिद्दुष्यः कथं निर्णय ईयते ॥६३॥
विशेषा सर्व एवैते साक्षिप्रत्ययगोचराः ।
ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।
साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥६४॥
तस्मात्सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।
साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव नः ॥६५॥
शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।
उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ।
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ॥६६॥
तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।
सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ॥६७॥
अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥६८॥
सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपिचाभिदाम् ।
आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ॥६९॥
स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्टते ।
सादृश्यं च विशेषेण जडानां द्वयमेव तु ।
भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना ॥७०॥
ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥७१॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति ।
इति श्रुतेर्नोभयं च भेदाभेदाख्यमिष्यते ॥७२॥
एकमेवाद्वितीयं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥७३॥
इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ।
इवोभये च सादृश्य इति वाक्शब्दनिर्णये ॥७४॥
भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः ।
चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥७५॥
न केनचिदभेदोऽस्ति भेदाभेदोऽपिवा क्वचित् ।
समुदायमृते विष्णोः स्वगुणादीन् विनापि वा ॥७६॥
इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ।
अभेदश्रुतयोऽ ंशत्वात्सादृश्यं चांशतास्य तु ॥७७॥
अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च ।
विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् ॥७८॥
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ।
स एव चेत्स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥७९॥
सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।
सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥८०॥
कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।
धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ।
नानावताररूपेण स्थितः पूर्णगुणः सदा ॥८१॥
विण्मूत्राक्ष्यादिमानिन्यो यथापभ्रष्टदेवताः ।
सूर्यादिभ्यस्तथैवायं संसारी परमात्पृथक् ॥८२॥
देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ।
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ॥८३॥
एवमेव पराद्विष्णोः पृथक्संसारिणो मताः ।
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ॥८४॥
न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ।
गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्नच ॥८५॥
अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥८६॥
न तु पुम्पादवत्पादा जीवा एते परात्मनः ।
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।
एवं जगाद परमश्रुतिर्नारायणं परम् ॥८७॥
अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥८८॥
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्ययम् ।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ।
उत्पत्तिमादिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ॥८९॥
ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ।
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ॥९०॥
ततो रूपं महान्नाम ब्रह्मणोऽहङ्कृतिः शिवः ।
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोऽभिधः ।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥९१॥
तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः ।
तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥९२॥
जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ।
मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥९३॥
मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।
इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥९४॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः॥
N/A
References : N/A
Last Updated : July 03, 2021
TOP