वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।
आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत् ॥१॥
युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।
परस्परविरोधं च प्रणुद्याशेषवाक्यगम् ॥२॥
अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः ।
बहुयुक्तिविरोधानां भानात्तत्सहितश्रुतेः ॥३॥
विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् ।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥४॥
देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥५॥
निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥६॥
सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥७॥
कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।
अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥८॥
सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।
यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ।
इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ॥९॥
येनैव बन्धमोक्षः स्यात्स च जिज्ञासया गतः ।
सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा ॥१०॥
मोक्षादिदत्वमीशस्य कथमेवावगम्यते ।
इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः ॥११॥
प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ।
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ॥१२॥
यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ।
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ॥१३॥
अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि ।
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ॥१४॥
तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ।
शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ॥१५॥
मोक्षदो हि स्वतन्त्रः स्यात्परतन्त्रः स्वयं सृतौ ।
वर्तमानः कथं शक्तः परमोक्षाय केवलम् ॥१६॥
अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ।
तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः ।
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः ॥१७॥
यमेवैष इति श्रुत्या तमेवेति च सादरम् ।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥१८॥
य एनं विदुरमृता इत्युक्तस्तु समुद्रगः ।
तदेव ब्रह्म परममिति श्रुत्यावधारितः ॥१९॥
यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः ।
शास्त्रयोनिर्नचान्योऽस्ति मुख्यतस्त्विति गम्यते ॥२०॥
शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।
समिति ह्युपसर्गेण परमुख्याथर्तोच्यते ॥२१॥
एवं परममुख्यार्थो नारायण इति श्रुतेः ।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥२२॥
कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ॥२३॥
अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः ।
उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥२४॥
इति शङ्कापनोदार्थं स आह करुणाकरः ।
अशक्योत्तरणत्वेऽपि ह्यागमापारवारिधेः ।
निर्णीयते मयैवायं रोमकूपलयोदिना ॥२५॥
यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ॥२६॥
इति प्रकाशयन् विश्वपतिराह प्रमेयताम् ।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ॥२७॥
को नाम गतिसामान्यमनन्तागमसम्पदः ।
ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम् ॥२८॥
अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ।
जानन्नानुमितत्वेन ब्रूयात्तस्य प्रसादतः ॥२९॥
इति मुख्यतयाशेषगतिसामान्यवित्प्रभुः ।
प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ॥३०॥
अतो निखिलवेदानां सिद्ध एवं समन्वयः ।
इति सुज्ञापितार्थोऽपि पृथक्चाह समन्वयम् ॥३१॥
तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ॥३२॥
इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ।
महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ॥३३॥
ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ॥३४॥
अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ।
प्रवृत्तः प्रथमं देवस्तत्रानन्दादयो गुणाः ।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥३५॥
देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।
विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥३६॥
अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।
विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥३७॥
इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः ।
ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥३८॥
तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥३९॥
आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥४०॥
शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥४१॥
शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥४२॥
यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागताः ।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥४३॥
अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।
मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥४४॥
इत्याहैवञ्च शब्दानां नारायणसमन्वये ।
सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥४५॥
विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् ।
इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥४६॥
परस्यावरताहेतुर्यः स्वयं पर एव सन् ।
सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥४७॥
अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे ।
द्वितीयो जीव एवास्ति स्वातन्त्रान्नच दूषणम् ॥४८॥
हरेरेवमशेषेण सर्वशब्दसमन्वये ।
उक्ते विरोधहीनस्य स्यात्समन्वयता यतः ।
अतोऽशेषविरोधानां कृतेशेन निराकृतिः ॥४९॥
समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ।
किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ॥५०॥
तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ।
उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये ।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥५१॥
सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥५२॥
तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः ।
आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम् ॥५३॥
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥५४॥
विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाविशेषिता ।
अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥५५॥
विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥५६॥
पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः ॥५७॥
अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥५८॥
युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥५९॥
फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥६०॥
कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥६१॥
संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥६२॥
सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥६३॥
अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा ॥६४॥
यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत् ।
तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि ॥६५॥
तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते ।
तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥६६॥
महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥६७॥
किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः ।
यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः ॥६८॥
इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात् ॥६९॥
वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥७०॥
अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं तथाप्या वस्तुनिर्णयात् ।
श्रवणं मननं चैव कर्तव्यं सर्वथैव हि ॥७१॥
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ॥७२॥
श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ।
विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये ॥७३॥
यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् ।
तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ॥७४॥
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ।
अत्यशक्ये तु निद्रादौ पुनरेव समारभेत् ॥७५॥
अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ।
शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ॥७६॥
महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ।
छिन्द्यात्स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ॥७७॥
अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः ।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥७८॥
स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।
अदोषत्वस्य सिद्धयर्थं यदभेदे तदन्वयः ॥७९॥
तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये ।
मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ।
गच्छद्दृष्टं क्वचित्तस्याप्यभावोऽनुभवोपगः ॥८०॥
पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ।
नारायणेन मुक्तानामपि सम्यगिति स्थितिः ॥८१॥
भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ।
निर्दोषत्वं रमायाश्च तदनन्तरता तथा ॥८२॥
ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः ।
शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ॥८३॥
सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ।
एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम् ॥८४॥
अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ।
इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् ॥८५॥
मूलरामायणं चैव भारतं स्मृतयोऽखिलाः ।
वैष्णवानि पुराणानि साङ्खययोगौ परावपि ॥८६॥
ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ।
अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः ॥८७॥
प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ।
मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ॥८८॥
अन्यावकाशरहितं प्रकाशयति सादरम् ।
एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ॥८९॥
सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ।
असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ॥९०॥
सम्यग्विषमविज्ञानतारतम्यानुसारतः ।
फलं भवेत्तारतम्यात्सुखदुःखात्मकं नृणाम् ॥९१॥
सम्यक्चाधिकविज्ञानात्सुखाधिक्यं भवेन्नृणाम् ।
अतो यथात्मशक्तयैव श्रवणं मननं तथा ॥९२॥
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षात्परं न प्रतिपाद्यते ॥९३॥
इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।
सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥९४॥
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।
सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते ॥९५॥
सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।
ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ।
स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते ॥९६॥
अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।
तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता ॥९७॥
स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।
ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ॥९८॥
कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ।
न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत् ॥९९॥
समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ॥१००॥
तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।
रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ॥१०१॥
किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।
दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ॥१०२॥
इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतम् ।
उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ॥१०३॥
द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् ।
रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥१०४॥
हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥१०५॥
इत्यादिश्रुतिसन्दर्भाद्द्वेषिणस्तम ईयते ।
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विधिक्षुरत्यगात्सूनो प्रह्लादस्यानुभावतः ॥१०६॥
यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥१०७॥
निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्यघः सुकृताच्च्युतः ॥१०८॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥१०९॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥११०॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥१११॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥११२॥
यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित् ॥११३॥
यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु ॥११४॥
नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।
भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् ॥११५॥
इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना ।
न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ॥११६॥
घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ।
नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते ॥११७॥
साधयन् सर्वसामान्यं कथमेव विशेषवान् ।
दृश्यन्ते पुरुषा लोके परावरविदोऽपिच ॥११८॥
अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ।
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ॥११९॥
ज्ञानविज्ञानपारज्ञा निषिद्धयन्ते कथं नृभिः ।
दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ॥१२०॥
यदि तेऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते ।
यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ॥१२१॥
वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ।
अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते ॥१२२॥
न हि प्रयोजनं किञ्चित्परलोकनिवारणात् ।
वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ।
स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥१२३॥
प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि ।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः ॥१२४॥
यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।
अतीतानागतं सर्वं लोकानुभवमापयन् ।
अतः प्रत्यक्षगम्यत्वाद्वेदमात्वस्य च स्फुटम् ॥१२५॥
यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ।
यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।
लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्धयति ॥१२६॥
अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च ।
प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥१२७॥
तद्वाक्याद्धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।
धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥१२८॥
इति जैनाः कथं तत्स्यात्प्रमाणमनुमानतः ।
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।
प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता ॥१२९॥
आ समन्ताद्गमयति धर्माधर्मौ परं पदम् ।
यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ॥१३०॥
एतेन कारेणेनैव तत्तन्मानत्वमिष्यते ।
स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः ॥१३१॥
अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ।
स्वरूपं पुद्गलस्योक्ता दोषा आनन्दमेव च ।
न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥१३२॥
मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।
सुखस्याभावता केन न च स्यात्किं विपर्ययः ॥१३३॥
यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः ।
यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावता ॥१३४॥
अभावाभावता यत्स्यात्किं नश्छिन्नं तदा भवेत् ।
भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥१३५॥
निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् ।
प्रथमप्रतिपत्तिस्तु भावभावनियामिका ॥१३६॥
न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ।
अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥१३७॥
न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते ।
यदि पुद्गलविज्ञानाददुःखी स्यात्कथञ्चन ।
देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ॥१३८॥
ईशकॢप्त्यनुसारेण स्यात्कालादीशवादिनः ।
कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित् ॥१३९॥
अशेषदुःखविलये नेदानीं कारणं यथा ।
तथोत्तरं च नैव स्याद्दृष्टिपूर्वानुमा यतः ॥१४०॥
शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।
तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ॥१४१॥
स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ।
अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।
हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम् ॥१४२॥
धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।
हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥१४३॥
न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।
मोक्षः कथञ्चन भवेद्यदीदानीं कथं न सः ॥१४४॥
परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते ।
पुमिच्छाधीनता नो चेद्विळम्बः किङ्कृतो भवेत् ॥१४५॥
अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः ।
अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते ।
कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ॥१४६॥
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ।
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ॥१४७॥
अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ।
भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ॥१४८॥
प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ।
इति शङ्कया न चैतस्मिन्मानमीशाप्रसादतः ॥१४९॥
श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः ।
वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ॥१५०॥
कणादयोगाक्षपादा अपीशस्य प्रसादतः ।
मुक्तिं ब्रुवाणा अप्याहुर्भोगादेव च कर्मणाम् ।
क्षयं प्राहुः कुतश्चैतत्प्रसन्ने जगदीश्वरे ॥१५१॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥१५२॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।
इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ॥१५३॥
न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ।
नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ॥१५४॥
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः ।
एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ॥१५५॥
न तस्येशे कश्चन तस्य नाम महद्यशः ।
इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ॥१५६॥
विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।
इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः ।
समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥१५७॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥१५८॥
मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।
अमृतेशानवचनात्सर्वस्येशानतोदिता ॥१५९॥
यदि सर्वत्वमुदितमुतेश इति तद्वृथा ।
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥१६०॥
पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ।
एतावानस्य महिमेति महिम्नो वचो हि तत् ॥१६१॥
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥१६२॥
उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ।
अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः ।
तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ॥१६३॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥१६४॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥१६५॥
नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।
मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ।
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥१६६॥
विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।
नान्यः पन्था इति ह्येव निवारयति सादरम् ॥१६७॥
अन्यथोपासनमपि तमेवमितिवादिनी ।
निवारयत्यादरेण न प्रतीक इति प्रभुः ॥१६८॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ॥१६९॥
न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ।
इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः ।
उपासीत हरिं नित्यं गुणैरेव स्वयोगतः ॥१७०॥
ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥१७१॥
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥१७२॥
न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।
आभासत्वात्परेषां तदवराणां च सर्वशः ॥१७३॥
यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।
अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ॥१७४॥
न च संसारिदेवानां कालेयत्तापरे इमे ।
सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ॥१७५॥
अनारब्धकार्ये भोगेन त्वितरे इति चोदितः ।
पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ॥१७६॥
उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।
प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः ॥१७७॥
सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥१७८॥
सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।
पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥१७९॥
धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता ।
मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥१८०॥
भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।
वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥१८१॥
कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।
निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥१८२॥
वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ।
तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ॥१८३॥
तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।
पजर्न्यमित्रान्तराळे तदन्ये तु ततोऽवराः ॥१८४॥
एतेभ्योऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः ।
तत्समो नास्ति परमो हरिरेव नचापरः ॥१८५॥
संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।
तदेतदखिलं प्राण आहङ्कारिक एव च ।
इन्द्रादनन्तरो दृष्टिरपि योग्यानुसारतः ॥१८६॥
सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥१८७॥
गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित् ।
विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता ॥१८८॥
समे विकल्प एव स्यात्पूर्वानुज्ञा च सर्वथा ।
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥१८९॥
गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती ।
देवता भगवान् विष्णुः सर्वेषामविशेषतः ॥१९०॥
तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः ।
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ॥१९१॥
साधनेभ्योऽधिका भक्तिर्नैवान्यत्तादृशं क्वचित् ।
भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् ॥१९२॥
स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ।
अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।
तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥१९३॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP