स्थितिप्रकरणम् - सर्गः ३६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
यथेदृशं स्थितं विश्वं विश्वातीते चिदात्मनि ।
तन्मे कथय हे ब्रह्मन् पुनर्बोधविवृद्धये ॥१॥
श्रीवसिष्ठ उवाच ।
यथोर्मयोऽनभिव्यक्ता भाविनः पयसि स्थिताः ।
न स्थिताश्चात्मनोऽन्यत्वाच्चित्तत्वे सृष्टयस्तथा ॥२॥
यथा सर्वगतः सौक्ष्म्यादाकाशो नोपलक्ष्यते ।
तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते ॥३॥
सुस्थितेवास्थितेवान्तः प्रतिभास्ति मणौ यथा ।
न सत्यभूता नासत्या तथेयं सृष्टिरात्मनि ॥४॥
स्वाधारैरम्बुदैः स्वस्थैर्न स्पृष्टं गगनं यथा ।
चित्स्थैः सर्गैश्चिदाधारैर्न स्पृष्टा चित्परा तथा ॥५॥
जलधिष्ठिततत्तेजो यथाङ्ग प्रतिबिम्बति ।
तथा पुर्यष्टकेष्वेव चिद्धि देहेषु लक्ष्यते ॥६॥
सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता ।
सैषा चिदविनाशात्मा तच्चेत्यादिकृताभिधा ॥७॥
आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी ।
सकलाकलसंसारस्वरूपैकात्म्यदर्शिनी ॥८॥
तरङ्गादिमयी स्फारा नानाता सलिलार्णवे ।
तस्मान्न व्यतिरेकेण यथा भावविकारिणी ॥९॥
त्वत्तामत्तामयी स्फारा नानातेयं चिदर्णवे ।
चिन्मात्रव्यतिरेकेण तथा नैव प्रकाशते ॥१०॥
चिच्चिनोति चितं चेत्यं तेनेदं स्थितमात्मनि ।
अज्ञेऽज्ञे त्वन्यदायातमन्यदस्तीति कल्पना ॥११॥
अज्ञेष्वसत्स्वभावोग्रसंसारगणगर्भिणी ।
ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती ॥१२॥
अनुभूतिवशान्नित्यमर्कादीनां प्रकाशिनी ।
स्वादिनी सर्वभूतानां भाविनी भवभोगिनाम् ॥१३॥
नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति ।
न चायाति न वा याति न चेह नच नेह चित् ॥१४॥
सैषा चिदमलाकारा स्वयमात्मनि संस्थिता ।
राघवेत्थं प्रपञ्चेन जगन्नाम्ना विजृम्भते ॥१५॥
तेजःपुञ्जैर्यथा तेजः पयःपूरैर्यथा पयः ।
परिस्फुरति संस्पन्दैस्तथा चित्सर्गविभ्रमैः ॥१६॥
तत्स्वभावेन चिन्नाम्ना सर्वगेनोदितात्मना ।
प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा ॥१७॥
स्वयं स्वकलनाभोगादनन्तं पदमुज्झता ।
अहमस्मीति भावेन गच्छता ज्ञपदं शनैः ॥१८॥
नानातायां प्ररूढायामस्यां संसृतिपूर्वकम् ।
भावाभावग्रहोत्सर्गपदे स्थितिमुपागते ॥१९॥
पुर्यष्टकस्पन्दशतैःकरोति न करोति च ।
उत्सेधमेति भूकोशकोटरस्थोऽङ्कुरोत्करः ॥२०॥
व्योम सौषिर्यमादत्ते सर्वमूर्त्यविरोधि यत् ।
स्पन्दैकधर्मवान्वातो रसरूपतया जलम् ॥२१॥
दृढोर्वी प्रकटं तेजः स्थितिमन्ति जगन्ति च ।
प्रतिबन्धाभ्यनुज्ञासु कालः कलनया स्थितः ॥२२॥
पुष्पेषु गन्धतां याति शनैः संचितकेसरम् ।
मृत्कोटररसोल्लासः स्थाणुतामेति भूतले ॥२३॥
मूलस्थाः फलमायान्ति पेलवा रसलेशकाः ।
संनिवेशं व्रजन्त्येता रेखाः पल्लवपालिषु ॥२४॥
नवतामनुगृह्नाति शक्रबाणासनेन च ।
यो यो भवत्यविरतं संस्थानेन वनेन च ॥२५॥
वसन्तमुपतिष्ठन्ति पुष्पपल्लवराशयः ।
निदाघविधिमायान्ति दैवदाहविभूतयः ॥२६॥
प्रावृट्समयमीहन्ते नीला जलदराशयः ।
शरदं चानुधावन्ति समग्राः फलराशयः ॥२७॥
हेमन्ते हिमहासिन्यो भवन्ति ककुभो दश ।
नयन्त्युपलतामम्बु शिशिरे शीतलानिलाः ॥२८॥
न जहाति स्वमर्यादां कालो युगमयीमिमाम् ।
तरङ्गिणीतरङ्गौघलीलया यान्ति सृष्टयः ॥२९॥
नियतिः स्थितिमायाति स्थैर्यचातुर्यकारिणी ।
तिष्ठत्याप्रलयं धीरा धराधरणधर्मिणी ॥३०॥
चतुर्दशविधानीह भूतानि भुवनान्तरे ।
नानाचारविहाराणि नानाविरचनानि च ॥३१॥
पुनःपुनर्विलीयन्ते जायन्ते च पुनःपुनः ।
धारापरम्परा याति विना वारीव बुद्बुदाः ॥३२॥
आयाति याति परितिष्ठति लीलयाऽति-
स्वार्थानुपार्जयति धावति जन्मनाशैः ।
उन्मत्तवद्विहितभावनमाहितेहा
मुग्धा कृतान्तविवशा जनता वराकी ॥३३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषु स्थितिप्रकरणे चिदादित्यस्वरूपवर्णनं नाम षद्त्रिशः सर्गः ॥३६॥
N/A
References : N/A
Last Updated : September 18, 2021
TOP