संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
वेदिकालक्षणपटलः

अंशुमत्काश्यपागमः - वेदिकालक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण वेदिका लक्षणं परम् ।
अधिष्ठानोपरिष्ठात्तु स्तंभमूले तु कल्पयेत् ॥१॥

प्रस्तरस्योपरिष्टाच्च कर्तव्या वेदिका द्विज ! ।
अध्यर्धदण्डमानं तु कन्यसा वेदिकामधम् ॥२॥

द्विदण्डेन तु मध्यं स्यात् श्रेष्ठतुंगं त्रिदण्डकम् ।
अथवान्य प्रकारेण वेदिकोत्सेधमुच्यते ॥३॥

चरणोदय षट्सप्तवसुभाग विभाजिते ।
एकांशं वेदिकामानं क्रमाच्छ्रेष्ठान्तराधमम् ॥४॥

एवं हि चरणायां तु मूले तु वेदिकोदयम् ।
ऊर्ध्वे भूम्यंघ्रि तुंगं तु सप्तभागं विभाजिते ॥५॥

एकांशं कण्ठहर्म्याणां वेदिकोदयमिष्यते ।
त्रिचतुःपंचभागं तु गलोत्सेधं विभाजिते ॥६॥

गलमूले तु वेद्युच्चं अंशं श्रेष्ठान्तराधमम् ।
आपेतोत्सेधांशमानं वा गलमूले तु वेदिका ॥७॥

षडंशे वेदिकोत्सेधं गुणांशं गलमानकम् ।
गलोर्ध्वे कंपमेकांशं एकेनाब्जं प्रकल्पयेत् ॥८॥

तदूर्ध्वकंपमेकेन कर्तव्यं द्विजसत्तम ! ।
सप्तांष्टांशे तु वेद्युच्चे वेदभूतं क्रमाद्गलम् ॥९॥

कम्पपद्मं च कम्पं च प्रागिवैव प्रकल्पयेत् ।
कर्णमानेन तन्मूले कंपमेकेन कल्पयेत् ॥१०॥

शेषं कर्णोदयं प्रोक्तं तत्कंपरहितं तु वा ।
अध्यर्धांशं तु वा पद्मं तुंगं द्व्यंशमथापि वा ॥११॥

पद्मशैवलपत्राभा चित्रांगा वेदिका मता ।
सर्वासां वेदिकानां तु गलमंघ्रिविभूषितम् ॥१२॥

कुड्यस्तंभसमं व्यासं नीव्रं च वेदिकांघ्रिणा ।
प्रस्तरोपरिवेदीनां वेशनं शृणु सुव्रत ! ॥१३॥

गर्भभित्तित्रिभागैकं अंघ्रिवेद्यंघ्रिवेशनम् ।
चतुर्भागैकवेशं वा * * * * * * * * ॥१४॥

कुड्यस्तंभस्य बाह्यां तु वेद्यांघ्री बाह्यवेशनम् ।
एवं वान्यप्रकारेण वेदिका विस्तृतं शृणु ॥१५॥

कुड्यपाद्बाह्यमानं तु उभयोः पार्श्वयोरपि ।
षट्सप्ताष्टनवांशं वा दशभागं तु वा भजेत् ॥१६॥

एकांशरहितं शेषं वेदिकायास्तु विस्तरम् ।
युगाश्रवेदिकाकारा नागरे प्रस्तरोपरि ॥१७॥

द्राविडे वेसरे हर्म्ये वस्वश्रं वेदिकाकृतिः ।
अथवा वेसरे हर्म्ये वेदिका वृत्तमेव वा ॥१८॥

अनेकाश्रायताश्रे च गलाश्रा वेदिकाश्रकाः ।
वेदिकालक्षणं प्रोक्तं शृणु जालाकलक्षणम् ॥१९॥

इत्यंशुमान्काश्यपे वेदिकालक्षणपटलः (एकादश) ॥११॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP