बृहद्देवता - तृतीयोऽध्यायः

बृहद्देवता संस्कृत भाषेतील छंदशास्त्र ह्या विषयातील शौनकऋषींनी रचलेला एक प्राचीन ग्रंथ आहे.
The Bruhaddevatā (Sanskrit: बृहद्देवता), is a metrical Sanskrit work, traditionally ascribed to Shaunaka.


तनूनपादयं त्वेव नाम्ना यच्छत्यसौ तनुम् ।
नापादिति प्रजामाहुर् अमुतोऽस्य च संभवम् ॥१॥
नराशंसमिहैके तु अग्निमाहुरथेतरे ।
नराः शंसन्ति सर्वेऽस्मिन्न् आसीना इति वाध्वरे ॥२॥
एतमेवाहुरन्येऽग्निं नराशंसोऽध्वरे ह्ययम् ।
नरैः प्रशस्य आसीनैर् आहुश्चैर्ऋत्विजो नरः ॥३॥
इळस्त्वृषिकृतं रूपम ईडेश्च स्तुतिकर्मणः ।
इळावांस्तेन वोक्तोऽग्निर् इडिना वर्द्धिकर्मणा ॥४॥
बर्हिरेवायमग्निस्तु सर्वं हि परिबृंहितम् ।
अन्नेन यद्धतो वा सन्न् इध्मेन परिबृंहितः ॥५॥
द्वारस्तु देव्यौ याः प्रोक्ता विश्वेषां तास्तु पत्नयः ।
अग्नायीमनुवर्तन्ते तथाग्नाय्यग्निमेव च॥६॥
.अग्नौ ध्रुवं स्थितास्तास्तु संस्तूयन्तेऽग्निना सह ।
प्राधान्यं तासु कैवाग्ने स्तुतिष्वेव हविःषु च ॥७॥
नक्तोषासौ च ये देव्याव् आग्नेय्यावेव ते स्मृते ।
श्याव्याग्नेयी हि कालस्य तस्यैवोषाः कलेव तु ॥८॥
तम उच्छत्युषा नक्तानक्तीमां हिमबिन्दुभिः ।
अपि वाव्यक्तवर्णेति नञ्पूर्वाञ्चेरिदं भवेत् ॥९॥
सा हि दोषा भवत्यादौ निशीथे सा तमस्वती ।
नाम्ना भवत्युषाश्चैव सैषा प्रागुदयाद्रवेः ॥१०॥
देव्याविति तु होताराव् अग्नि पार्थिवमध्यमौ।
दिव्यादग्नेर्हि जज्ञाते दैव्यौ तेनेह जन्मना ॥११॥
तिस्रस्तु देव्यो याः प्रोक्तास् त्रिस्थानैवेह सा तु वाक् ।
त्रिविधेनोच्यते नाम्ना ज्योतिःषु त्रिषु वर्तिनी ॥१२॥
अग्निमेवानुगेळा तु मध्यं प्राप्ता सरस्वती ।
अमुं स्थिताधि लोकं तु भारती भवति ह्यसौ ॥१३॥
सैषा तु त्रिविधा वाग्वै दिवि च व्योम्नि चेह च ।
व्यस्ता चैव समस्ता च भजत्यग्नीनिमानपि ॥१४॥
त्वष्टा तु यस्त्वयमेव पार्थिवोऽग्निरिति स्तुतिः ।
पार्थिवस्यास्य वर्चः स्युः कस्याप्यृक् चार्तवेषु च ॥१५॥
त्विषितस्त्वक्षतेर्वा स्यात् तृर्णमश्नुत एव वा ।
कर्स्मसृऽत्तारणो वेति तेन नामैतदश्नुते ॥१६॥
यः सहस्रतमो रश्मी रवेश्चन्द्रमुपाश्रितः ।
सोऽपि त्वष्टारमेवाग्निं परं चेह च यन्मधु ॥१७॥
प्रादाद्ब्रह्मापि सुप्रीतः सुताय तदथर्वणः ।
स चाभवदृषिस्तेन ब्रह्मणा दीप्तिमत्तरः ॥१८॥
तमृषिं निषिषेधेन्द्रो मैवं वोचः क्वचिन्मधु ।
न हि प्राक्ते मधुन्यस्मिञ् जीवन्तंत्वोत्सृजाम्यहम् ॥१९॥
तमृषिं त्वश्विनौ देवौ विवक्ते मध्वयाचताम् ।
स च ताभ्यां तदाचष्टे यदुवाच शचीपतिः ॥२०॥
तमब्रूतां तु नासत्याव् आश्व्येन शिरसा भवान् ।
मध्वाशु ग्राहयत्वावां मेन्द्रश्च त्वा वधीत्ततः ॥२१॥
आश्व्येन शिरसा तौ तु दध्यङ्ङाह यदश्विनौ ।
तदस्येन्द्रोऽहरत्स्वं तन् न्यधत्तामस्य यच्छिरः ॥२२॥
दधीचश्च शिरश्चाश्व्यं कृतं वज्रेण वज्रिणा ।
पपात सरसो मध्ये पर्वते शर्यणावतो ॥२३॥
तदद्भ्यस्तु समुत्थाय भूतेभ्यो विविधान्वरान् ।
प्रादाय युगपर्यन्तं यास्वेवाप्सु निमज्जति ॥२४॥
त्वष्टा रूपविकर्ता च योऽसौ माध्यमिके गणे ।
स्तुतः स च निपातेन सूक्तं तस्य न विद्यते ॥२५॥
वनस्पतिं तु यं प्राहुर् अयं सोऽग्निर्वनस्पतिः ।
अयं वनानां हि पतिः पाता पालयतीति वा ॥२६॥
अग्निर्गृत्समदेनायं वनस्पतिरितीळितः ।
मन्दस्वेत्यस्य सूक्तस्य षळृचस्य तृतीयया ॥२७॥
यूपवत्तरुवच्चैव स्तुतिर्यास्य प्रसङ्गजा ।
सर्वेणाञ्जन्ति सूक्तेन तृतीये सा तु मण्डले ॥२८॥
स्वाहाकृतयोऽनेकाश्च विदुषां मतयोऽभवन् ।
तत्सर्वं त्वयमेवाग्निर् भवतीति विनिश्चयः ॥२९॥
अयं हि कर्ता स्वाहानां कृतिस्तासामिहैकजा ।
अयं प्रसूतिर्भूतानां सर्वेषामयमव्ययः ॥३०॥
तनूनपाद्द्विताया च नराशंसवती च या ।
समस्येते प्रयोक्तव्ये त्रिष्वेवोभयवत्सु तु ॥३१॥
नराशंसवती वा स्याद् द्वितीया च प्रजार्थिनाम् ।
बलकामोऽन्नकामो वा भूतिमिच्छेदथापि यः ॥३२॥
आग्नेयं सूक्तमैभिर्यद् वैश्वदेवमिहोच्यते ।
तद्विश्वलिङ्गं गायत्रं वैश्वदेवेषु शस्यते ॥३३॥
इन्द्र सोमं पिबेतीदं यद्द्वादशकमार्तवम् ।
तस्मिन्सहर्तुना सप्त प्रत्यृचं स्तौति देवताः ॥३४॥
तत्रर्तुनेति षदस्वृक्षु चतसृष्वृतुभिः सह ।
पुनर्द्वयोर्ऋतुनेति बहुत्वैकत्वलक्षिताः ॥३५॥
ऋतवो देवताभिश्च निपातेनेह संस्तुताः ।
तथर्तुप्रैषसूक्ते च तथा गार्त्समदेऽपि च ॥३६॥
मुख्यया त्विन्द्रमेवास्तौन् मरुतस्तु द्वितीयया ।
तृतीयया तु त्वष्टारं चतुर्थ्या चाग्निमेव च ॥३७॥
पञ्चम्या तु पुनः शक्रं षष्ट्या देवावृतावृधौ ।
सप्तम्याद्याभिरग्निं च चतुर्भिर्द्रविणोदसम् ॥३८॥
आदेशाद्दैवतं ज्ञेयम् ऋङ्मन्त्राणां न लिङ्गतः ।
न शक्यं लिङ्गतो ह्यासां ज्ञातुं तत्त्वेन दैवतम् ॥३९॥
एकादश्या तु नासत्यौ द्वादश्याग्निमिमं पुनः ।
पृथक्पृथक्स्तुतीदं तु सूक्तमाह रथीतरः ॥४०॥
बहुदैवे द्विदैवे वा गुणैर्वा यत्र कर्मजैः ।
स्तूयते देवतैकैका विभक्तस्तुति तद्विदुः ॥४१॥
वैश्वदेवानि सूक्तानि त्रिविधानि भवन्ति तु ।
सूर्यसंस्तवसंयुक्तं विश्वलिङ्गं पृथक्स्तुति ॥४२॥
पृथक्स्तुतीति यत्प्रोक्तं तद्विद्याद्बहुदैवतम् ।
विश्वलिङ्गं तु तद्यत्र विश्वैः स्वैः कर्मजैर्गुणैः ॥४३॥
विश्वानुद्दिश्य यद्देवान् स्तौति सूर्यमनेकधा ।
देवानेवाभिसंस्तौति तं प्राहुः सूर्यसंस्तवम् ॥४४॥
न तु भागस्य सूक्तादौ सक्तेष्वेवौषसेषु वा ।
न सावित्रे ह्रयामीति न सूर्यायां क्रतौ मखे ॥४५॥
न चैवैवं प्रवादेषु मन्त्रेष्वन्येषु केषुचित् ।
न च यत्र सजोषेति पदं वा स्यात्सजूरिति ॥४६॥
यस्मिन्प्रसङ्गादपि तु बह्वीनां परिकीर्तनम् ।
वैश्वदेवं तदप्याह स्थविरो लामकायनः ॥४७॥
असंस्तुतं स्तुतं वापि प्रदिष्टं दैवतं क्वचित् ।
मन्त्रैस्तदृषयोऽर्चन्ति तां तु बुध्येत शास्त्रवित् ॥४८॥
आदौ हि मध्ये चान्ते च पृथक्त्वेषु च कर्तृभिः ।
कर्माण्यनपदिष्टानि प्रदिष्टान्यपि तु क्वचित् ॥४९॥
कर्मैव तावत्सावित्र्यां निविदि स्तौति कर्मणा ।
यद्धेनुः सप्त्यनड्वाहौ वोळहा दोग्ध्याशुरेव वा ॥५०॥
भागे यत्स्तौति चाग्न्यादीन् मित्राधींश्चाश्वसंस्तुतौ ।
यदैभिरिति चैतस्मिन् वैश्व देवेऽग्निमर्चति ॥५१॥
तदाहुरादावन्ते च प्रायशोऽन्या स्तुवन्नृचः ।
प्रतियोगात्प्रसङ्गाद्वा स्तौत्यन्यामपि देवताम् ॥५२॥
यस्यां वदत्यर्थवादान् सा ज्ञेया सूक्तभागिनी ।
यां तु स्तौति प्रसङ्गेन सा विज्ञेया निपातिनी ॥५३॥
चतुर्धा भण्यते तस्मिन् सूक्ते वा सक्तूभागिनी ।
पस्मिन्सर्वास्तु राजर्षीन् ऋषीन्वापि स्तुवन्नृषिः ॥५४॥
मेधातिथिरगस्त्यस्तु बृहदुक्थो मनुर्गयः ।
ऋजिश्वा वसुकर्णश्च शार्यातो गोतमो लुशः ॥५५॥
स्वस्त्यात्रेयः परुच्छेपः कक्षीवान् गाथिनौर्वशौ ।
नाभाकश्चैव निर्दिष्टो दुवस्युर्ममतासुतः ॥५६॥
विहव्यः कश्यप ऋषिर् अवत्सारश्च नाम यः ।
वामदेवो मधुच्छन्दाः पार्थो दक्षसुतादितिः ॥५७॥
जुहूऽर्गृत्समदश्चर्षिर् देवाः सप्तर्षयश्च ये ।
यमोऽग्निस्तापसः कुत्सः कुसीदी त्रित एव च ॥५८॥
बन्धुप्रभृतयश्चैव चत्वारो भ्रातरः पृथक् ।
विष्णुश्च नेजमेषश्च नाम्ना संवननश्च यः ॥५९॥
एते तु सर्व एवास्य विश्वैः स्वैः कर्मजैर्गुणैः ।
समस्तैरथ च व्यस्तैः पृथक्सूक्तेषु तुष्टुवुः ॥६०॥
पार्थिवौ द्रविणोदोऽग्निः पुरस्ताद्यस्तु कीर्तितः ।
तमाहुरिन्द्रं दातृत्वाद् एके तु बलवित्तयोः ॥६१॥
अयं हि द्रविणोदोऽग्निर् अयं दाता बलस्य हि ।
जायते च बलेनायं मथ्यत्यृषिभिरध्वरे ॥६२॥
हवींषि द्रविणं प्राहुर् हविषो यत्र जायते ।
दातारश्चर्त्विजस्तेषां द्रविणोदास्ततः स्वयम् ॥६३॥
ऋषीणां पुत्र इत्येषां दृश्यते सहसो यहो ।
मध्यमाद्वा यतो जज्ञे तस्माद्वा द्राविणोदसः ॥६४॥
द्रविणोदोऽग्निरेवायं द्रविणोदास्तदोच्यते ।
आग्नेयेष्वेव दृश्यन्ते प्रवादा द्रविणोदसः ॥६५॥
ऐन्द्रस्य नवकस्येह यदैन्द्रावरुणं परम् ।
तस्योत्तरं च सोमानं स्तूयते ब्रह्मणस्पतिः ॥६६॥
ऋग्भिः पञ्चभिराद्याभिस् तिसृभिः सदसस्पतिः ।
नराशंसोऽन्त्यया चर्चा सोमेन्द्रौ तु निपातितौ ॥६७॥
चतुर्थ्यां सोम इन्द्रश्च पञ्चम्यां दक्षिणाधिका ।
प्रसङ्गादृषिणा प्रोक्ताः सम्बन्धा स्थानलोकयोः ॥६८॥
प्राजापत्यं तथेन्द्रः स्याद् इति तस्येह नामनी ।
कथिते द्वै च षट् चान्या एषां चाद्यः प्रजापतिः ॥६९॥
शिष्टानि यानि नामानि तानि वक्ष्याम्यतः परम् ।
सत्पतिः कश्च कामश्च सदसस्पतिरेव च ॥७०॥
इळस्पतिर्वाचस्पतिस् ततस्तु ब्रह्मणस्पतिः ।
तृतीयान्त्ये तु सूक्तस्य प्रथमं पञ्चमं च यत् ॥७१॥
चतुर्भिरितरैस्त्वेनं न सूक्तं नाप्यृगश्नुते ।
सर्वाण्येव तु सर्वासां देवतानां प्रजापतेः ॥७२॥
नामानि कथयन्त्येते सम्यग्भक्तिदिदृक्षवः ।
तदाहुनैंतदेवं स्याद् अष्टानामेष हि स्मृतः ॥७३॥
तैरेव चास्य कल्प्यन्ते क्रतवश्च हवींषि च ।
मरुद्भिर्मध्यमस्थानैर् अयमग्निस्तु पार्थिवः ॥७४॥
नवकेनेह सूक्तेन प्रति त्यमिति संस्तुतः ।
मरुतां साहचर्यात्तु सूक्तेऽस्मिन्नाग्रिमारुते ॥७५॥
मन्यते मध्यमं चैव यान्कोऽग्निं न तु पार्थिवम् ।
स्यादयं पार्थिवस्त्वेव तथा रूपं हि दृश्यते ॥७६॥
हूयसे पीतये चेति वैद्युते न तदस्ति हि ।
अथ स्यादभिधानस्य देवतायाः पृथक् पृथक् ॥७७॥
ऋचोऽर्धर्चस्य पादस्य कथं जायेत दैवतम् ।
यथा निविदि सावित्र्यां स्तूयते कर्म कर्मणा ॥७८॥
दोग्ध्री धेनुर्वोढानड्वान् आशुः सप्तिः पुरंधिया ।
यथा च शंनोमित्रीया वरुणः प्राविता भुवत् ॥७९॥
सूक्तप्रावेणौभिरग्ने परोक्ष्यास्तत्र देवताः ।
शब्दानां द्वैपदादीनां द्विदैवबहुदैवतम् ॥८०॥
असंस्तुतं संस्तुतवत् प्रदिष्टं दैवतं क्वचित् ।
यत्र द्विदैवते मन्त्र एकवद्देवतोच्यते ॥८१॥
विभक्तस्तुति तद्विद्याद् बहुष्वबहुवच्च यत् ।
आशीर्वादेषु संज्ञासु कर्मसंस्थासु देवताः ।
बह्व्यो ह बहुवत्तत्र द्विपदे यत्र संस्तुते ॥८२॥
सुधन्वन आङ्गिरसस्यासन्पुत्रास्त्रयः पुरा ।
ऋभुर्विभ्वा च वाजश्च शिष्यास्त्वष्टुश्च तेऽभवन् ॥८३॥
शिक्षयामास तांस्त्वष्टा त्वाष्ट्रं यत्कर्म किंचन ।
परिनिष्ठितकर्माणो विश्वे देवा उपाह्वयन् ॥८४॥
विश्वेषां ते ततश्चक्रुर् वाहनान्यायुधानि तु ।
धेनुं सबर्दुघां चक्रुर् अमृतं सवरुच्यते ॥८५॥
बृहस्पतेरथाश्विभ्यां रथं दिव्यं त्रिवन्धुरम् ।
इन्द्राय च हरी देवप्रहितेनाग्निनापि यत् ॥८६॥
एकं चमसमित्युक्ते ज्येष्ठ आहेत्यथो दिवि ।
उक्त्वा ततक्षुश्चमसान् यथोक्तं तेन हर्षिताः ॥८७॥
त्वष्टा च सविता चैव देवदेवः प्रजापतिः ।
सर्वान्देवान् समामन्त्र्य अमृतत्वं ददुश्च ते ॥८८॥
तेषामाद्यन्त्ययोर्नाम्ना दृश्यते बहुवत्स्तवः ।
तृतीयसवने तेषां तैस्तु भागः प्रकल्पितः ॥८९॥
अपिबत्सोममिन्द्रश्च तैस्तत्र सवने सह ।
तेषां स्तुतिरिदं सूक्तं त्वयमित्यष्टकं परम् ॥९०॥
इहेन्द्राग्नी स्तुतौ देवौ तृतीयस्वादिरश्विनौ ।
हिरण्यपाणिं सावित्र्यश् चतस्रश्चाप्यथोत्तराः ॥९१॥
एकाग्नेर्द्वे तु देवीनां द्वादश्यां देवपत्नयः ।
इन्द्राणी वरुणानी च अग्नायी च पृथक् स्तुताः ॥९२॥
द्यावापृथिव्यौ द्वे च स्यात् स्योनेत्यृक् पार्थिवी स्मृता।
देवानां वात इत्येषा सूक्तशेषस्तु वैष्णवः ॥९३॥
वायोस्तीव्रेन्द्रवायुभ्यां द्वृचो द्वाभ्यां ततः परम् ।
तृचो मित्रावरुणयोस् तथेन्द्राय मरुत्वते ॥९४॥
तृचो विश्वेषां देवानां पूष्ण आघृणये तृचः ।
आसक्तो हि घृणिस्तस्य दध्नः पूर्णो दृती रथे ॥९५॥
आघृणिस्तत्स्तुतः पूषा कीरिभी रिभ्यते ततः ।
यथा हि मधुनः पूर्णो दृतिरर्थ्येति चाश्विनौ ॥९६॥
आ वर्तनि मधुनेति दृतिरेव च दृश्यते ।
अर्धाष्टमा अपां ज्ञेया अध्यर्धान्त्याग्निदेवता ॥९७॥
कस्य नूनं तु कार्य्याद्या आग्नेय्यृक् सवितुस्तृचः ।
भगमक्तस्य भागी वा परं यच्चिच्च वारुणम् ॥९८॥
वसिष्वा हीति चाग्नेये ऋगग्नेर्मध्यमस्य तु ।
जराबोधेति विज्ञेया वैश्वदेव्युत्तमा नमः ॥९९॥
पराश्चतस्रो यत्रेति इन्द्रोलूखलयो स्तुतिः ।
मन्येते यास्ककात्थक्याव् इन्द्रस्येति तु भागुरिः ॥१००॥
यच्चिद्ध्यूलूखलस्य द्वे द्वे परे मुसलस्य तु ।
चर्माधिषवणीयं वा सोमं वान्त्या प्रशंसति ॥१०१॥
ऐन्द्र यच्चिद्धि सत्येति उत्तरं चाश्विनातृचात् ।
आश्विनादुत्तरः कस्त उषस्यस्तृच उत्तमः ॥१०२॥
स्तूयमानः शश्वदिति प्रीतस्तु मनसा ददौ ।
शुनःशेपाय दिव्यं तु रथं सर्वं हिरण्मयम् ॥१०३॥
आग्नेयं यत्त्वमैन्द्रे च त्रिश्चिदित्याश्विनं ततः ।
ऋतेऽर्थवादं कर्मैतद् इन्द्रस्येति तु शंसति ॥१०४॥
पादोऽग्नये ह्वयामीति मैत्रावरुण उत्तरः ।
तृतीयो रात्रिसंस्तावः सूक्तं सावित्रमुच्यते ॥१०५॥
पञ्चैतानि जगौ दृष्ट्वा सूक्तान्याङ्गिरसो मुनि ।
हिरण्यस्तूपतां प्राप्य सख्यं चेन्द्रेण शाश्वतम् ॥१०६॥
आग्नेयं प्रेति मरुतां क्रीळं त्रीणि पराण्यतः ।
उत्तिष्ठ ब्राह्मणस्पत्यं यं रक्षन्ति त्रयस्तृचाः ॥१०७॥
वरुणार्यममित्राणां मध्यं आदित्यदैवतः ।
पौष्णं सं पूषन्षड्रौद्र्यस् तृतीया न तु केवला ॥१०८॥
मित्रेण वरुणेनात्र विश्वेदेवैश्च संस्तवः ।
उक्तमत्रर्षिणा पूर्वम् आदेशाद्दैवतं विना ॥१०९॥
ज्ञातुं न शक्यते लिङ्गात् तथापि क्वचिदुच्यते ।
आदित्या वसवो रुद्रास् त्वमग्न इति संस्तुताः ॥११०॥
तिस्रः सौम्योऽग्न आग्नेये प्रगाथेनाश्विनौ स्तुतौ ।
सहोषसा लिङ्गभाजा अयं सोम सुदानवः ॥१११॥
अर्धर्चो देवदेवस्य एषो इत्याश्विने परे ।
आदित्यं मन्यते यास्को हविषेति सह स्तुतम् ॥११२॥
सहौषसे ततः सौर्यम् उदु त्यमिति संस्तुतः ।
द्युभक्तिर्येन वरुणो रोगघ्नस्तृच उत्तमः ॥११३॥
रोगापनुत्तिराद्याभ्याम् उद्यन्निस्युत्तमे तृचे ।
अर्धर्चे तु द्विषद्द्वेषः ऐन्द्रः सव्यः शतर्चिषु ॥११४॥
स्वयमिन्द्रसमं पुत्रम् इच्छतोऽङ्गिरसो मुनेः ।
वज्र्येव सव्यो भूत्वर्षेर् योगित्वात्पुत्रतां गतः ॥११५॥
प्रथमे मण्डले ज्ञेया ऋषयस्तु शतर्चिनः ।
क्षुद्रसूक्तमहासूक्ता अन्त्ये मध्येषु मध्यमाः ॥११६॥
नवकं जातवेदस्यं नन् चिद् यत्तु वया इति ।
वैश्वानरीयं तत्सूक्तं वह्निमाग्नेयमुत्तरम् ॥११७॥
ऐन्द्राण्यस्मै ततस्त्रीणि वृष्णो शर्धाय मारतम् ।
आग्नेयानि तु पश्वेति नवशश्वद्धि वामिति ॥११८॥
दशाश्विनानीमानीति इन्द्रावरुणयो स्तुतिः ।
सौपर्णेयास्तु याः काश्चिन्निपातस्तुतिषु स्तुताः ॥११९॥
उपप्रयन्तः सूक्तानि आग्नेयान्युत्तराणि षट् ।
हिरण्यकेशो रजसः तृचोऽग्नेर्मध्यमस्य तु ॥१२०॥
इत्थेति पञ्च त्वैन्द्राणि यामित्यस्यां निपातिताः ।
दध्यङ् मनुरथर्वा च मारुतानि प्र ये ततः ॥१२१॥
चत्वार्या नो वैश्वदेवे द्वे देवानां स्तुतिमते ।
आ नो भद्राश्च देवानां भद्रं यावच्छतं पुनः ॥१२२॥
मधु वातास्तृचे तस्मिन् परमं मध्वपीष्यते ।
अदितिर्द्यौरिति त्वस्यां विभूतिः कथितादितेः ॥१२३॥
त्वं सौम्यमौषसम् एता उ त्यास्तृचोऽश्विनोः ।
अश्विताग्नेः ससोमस्य अग्नीषोमाविति स्तुतिः ॥१२४॥
गोतमादौशिजः कुत्सः परुच्छेपादृषेः परः ।
कुत्सद्दीर्घतमाः शश्वत् ते द्वे एवमधीयते ॥१२५॥
इमं कुत्स आङ्गिरसो ददर्श
जातवेदस्यं जगाद षोळशर्चम् ।
पूर्वो देवा इत्यृचो देवदेवास्
त्रयः पादा उत्तमायास्ततोऽर्धम् ॥१२६॥
तस्यैव वा यस्य तत्पूर्वसूक्तं मित्रा-
दिभ्यो वात्र षड्भ्यः प्रकृताभ्यः ।
अन्त्योऽर्धर्चस्तु वा षण्णां स्तुतानां
पूर्वो देवाः पादस्तु त्रिभि स्तुताः ॥१२७॥
भरद्वाजे गृत्समदे वसिष्ठे नोधस्यगस्त्ये विमदे नभाके ।
कुत्से नोदर्का बहुदैवतेषु तथा द्विदेवेषु समानधर्मिणः ॥१२८॥
द्वे विरूपे सूक्तमौषसायाग्नये स प्रत्नथेति द्रविणोदसेऽग्नये ।
वैश्वानरस्येति वैश्वानरीयम् अस्मात्पूर्वं शुचयेऽग्नये पुनः ॥१२९॥
जातवेदस्यं सूक्तसहस्रमेक
ऐन्द्रात्पूर्वं कश्यपार्षं वदन्ति ।
जातवेदसे सूक्तमाद्यं तु तेषाम्
एकभूयस्त्वं मन्यते शाकपूणिः ॥१३०॥
स यो वृषैन्द्राणि पञ्च वैश्वदेवानि चन्द्रमाः ।
त्रीण्यैन्द्राग्ने य इन्द्राग्नी ततमित्यार्भवे परे ॥१३१॥
त्रितं गास्त्वनुगच्छन्तं क्रूरा सालावृकीसुताः ।
कूपे प्रक्षिप्य गाः सर्वास् तत एवापजह्रिरे ॥१३२॥
स तत्र सुषुवे सोमं मन्त्रविन्मन्त्रवित्तमः ।
देवांश्चावाहयत्सर्वांस् तच्छुश्राव बृहस्पतिः ॥१३३॥
आगच्छतोऽथ तान्दृष्ट्वा क्व वसत्यस्य तत्त्वतः ।
सर्वदृक्त्वं च वरुणस्यार्यम्णश्चेत्युपालभत् ॥१३५॥
कूपेष्टकाभिर्व्रणितान्य् सङ्गान्येवाभयन्मम ।
दृष्ट्वा सर्वानहं स्तौमि यद्यप्येको न पश्यति ॥१३५॥
बृहस्पतिप्रचोदिता विश्वेदेवगणास्त्रयः ।
जग्मुस्त्रितस्य तं यज्ञं भागांश्च जगृहुः सह ॥१३६॥
बृहस्पतिस्त्रितस्यैतज् ज्ञानं विज्ञानमेव च ।
तृचेनान्त्येन सूक्तस्य जगादर्षिरसाविति ॥१३७॥
द्यावापृथिव्योरीळेति आग्नेयः पाद उत्तरः ।
आश्विनः सूक्तशेषः स्याद इदं रात्र्युषसो स्तुतिः ॥१३८॥
इमा रौद्रं परं सौर्यं चित्रं पश्चाश्विनान्यतः ।
नासत्याभ्यामिति त्वन्त्ये अन्त्या दुःस्वप्ननाशिनो ॥१३९॥
ऐन्द्रं कद्वैश्वदेवं च प्रौषसे पृथुरुत्तरे ।
ऋषिर्दानं च भाव्यस्य प्रातरित्यत्र शंसति ॥१४०॥
काक्षीवतं कदित्थेति यदैन्द्रमुपदिश्यते ।
परोक्षं वैश्वदेवं तत् प्रदिष्टं स्वरसामसु ॥१४१॥
अधिगम्य गुरोर्विद्यां गच्छन्स्वनिलयं किल ।
कक्षीवानध्वनि श्रान्तः सुष्वापारण्यगोचरः ॥१४२॥
तं राजा स्वनयो नाम भावयव्यसुतो व्रजन् ।
क्रीडार्थं सानुगोऽपश्यत् सभार्यः सपुरोहितः ॥१४३॥
अथैनं रूपसंपन्नं दृष्ट्वा देवसुतोपमम् ।
कन्यादाने मतिं चक्रे वर्णगोत्राविरोधतः ॥१४४॥
संबोध्यैनं स पप्रच्छ वर्णगोत्रादिकं ततः ।
राजन्नाङ्गिरसोऽस्मीति कुमारः प्रत्युवाच तम् ॥१४५॥
पुत्रोऽहं दीर्घतमस औचथ्यस्य ऋषेर्नृप ।
अथास्मै स ददौ कन्या दशाभरणभूषिताः ॥१४६॥
तावतश्च रथाञ्छ्यावान् वीड्वङ्गान्वै चतुर्युजः ।
वधूनां वाहनार्थाय धनकुप्यमजाविकम् ॥१४७॥
निष्काणां वृषभाणां च शतं शतमदात्पुनः ।
एतदुत्तरसूक्तेन शतमित्यादिनोदितम् ॥१४८॥
शतमश्वाञ्छतं निष्कान् रथान्दश वधूमतः ।
चतुर्युजो गवां चैव सहस्रं षष्ठ्युपाधिकम् ॥१४९॥
स्वनयाद्भावयव्याद्यः कक्षीवान्प्रत्यपद्यत ।
प्रतिगृह्य च तुष्टाव प्रातः पित्रे शशंस च ॥१५०॥
फलप्रदर्शनं तस्य क्रियते प्रायशस्त्विह ।
द्वितीयां तु पितापश्यत् सुगुरित्यादिकामृचम् ॥१५१॥
काक्षीवतं सर्वमिति भगवानाह शौनकः ।
एषा तु दैर्घतमसी सानुलिङ्गा कथं भवेत् ॥१५२॥
उच्यते प्रातरित्युक्ते सूनोर्दानेन हर्षितः ।
राज्ञश्चाशिषमाहाथ सुगुरित्यादिना किल ॥१५३॥
कर्माणि याभिः कथितानि राज्ञां
दानानि चोच्चावचमध्यमानि ।
नाराशंसीरित्यृचस्ताः प्रतीयाद्
याभि स्तुतिर्दाशतयीषु राज्ञाम् ॥१५४॥
पञ्चामन्दान्भावयव्यस्य गीता जायापत्योः संप्रवादो द्वृचेन ।
संप्रवादं रोमशयेन्द्रराज्ञोर एते ऋचौ मन्यते शाकपूणिः ॥
इन्द्रे जायापत्योश्चेतिहासं द्वृचेऽस्मिन्मन्यते शाकटायनः ।
प्रादात्सुतां रोमशां नाम नाम्ना बृहस्पतिर्भावयव्याय राज्ञो ॥१५५॥

॥ इति बृहद्देवतायां तृतीयोऽध्यायः ॥

N/A

References : N/A
Last Updated : March 27, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP