भागवतमाहात्म्यम् - अध्याय ४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीऋषय ऊचुः ॥
साधु सूत चिरं जीव चिरमेवं प्रशाधि नः ॥
श्रीभागवतमाहात्म्यमपूर्वं त्वन्सुखाच्छ्रुतम् ॥१॥
तत्स्वरूपप्रमाणं च विधिं च श्रवणे वद ॥
तद्वक्तुर्लक्षणं सूत श्रोतुश्चापि वदाधुना ॥२॥
॥ श्रीसूत उवाच ॥
श्रीमद्भागवतस्याथ श्रीमद्भगवतः सदा ॥
स्वरूपमेकमेवास्ति सच्चिदानन्दलक्षणम् ॥३॥
श्रीकृष्णासक्तभक्तानां तन्माधुर्य्यप्रकाशकम् ॥
समुज्जृम्भति यद्वाक्यं विद्धि भागवतं हि तत् ॥४॥
ज्ञानविज्ञानभक्त्यङ्गचतुष्टयपरं वचः ॥
मायामर्दन दक्षं च विद्धि भागवतं च तत् ॥५॥
प्रमाणं तस्य को वेद ह्यनंतस्याक्षरात्मनः ॥
ब्रह्मणे हरिणा तद्दिक्चतुःश्लोक्या प्रदर्शिता ॥६॥
तदानंत्यावगाहेन स्वेप्सितावहनक्षमाः ॥
त एव संति भो विप्रा ब्रह्मविष्णुशिवादयः ॥७॥
मितबुद्ध्यादिवृत्तीनां मनुष्याणां हिताय च ॥
परीक्षिच्छुकसंवादो योऽसौ व्यासेन कीर्तितः ॥८॥
ग्रन्थोऽष्टादशसाहस्रो योऽसौ भागवताभिधः ॥
कलिग्राहगृहीतानां स एव परमाश्रयः ॥९॥
श्रोतारो ऽथ निरूप्यन्ते श्रीमद्विष्णुकथाश्रयाः ॥
प्रवरा अवराश्चति श्रोतारो द्विविधा मताः ॥१०॥
प्रवराश्चातको हंसः शुको मीनादयस्तथा ॥
अवरा वृकभूरुण्डवृषोष्ट्राद्याः प्रकीर्तिताः ॥११॥
अखिलोपेक्षया यस्तु कृष्णशास्त्रश्रुतौ व्रती ॥
स चातको यथाम्भोदमुक्ते पाथसि चातकः ॥१२॥
हंसः स्यात्सारमादत्ते यः श्रोता विविधाच्छ्रुतात् ॥
दुग्धेनैक्यं गतात्तोयाद्यथा हंसोऽमलं पयः ॥१३॥
शुकः सुष्टु मितं वक्ति व्यासं श्रोतृंश्च हर्षयन् ॥
सुपाठितः शुको यद्वच्छिक्षकं पार्श्वगानपि ॥१४॥
शब्दं नानिमिषो जातु करोत्यास्वादयन्रसम् ॥
श्रोता स्निग्धो भवेन्मीनो मीनः क्षीरनिधौ यथा ॥१५॥
यस्तुदन्रसिकाञ्च्छ्रोतॄन्विरौत्यज्ञो वृको हि सः ॥
वेणुस्वनरसासक्तान्वृकोऽरण्ये मृगान्यथा ॥१६॥
भूरुण्डः शिक्षयेदन्याञ्च्छ्रुत्वा न स्वयमाचरेत् ॥
यथा हिमवतः शृंगे भूरुण्डाख्यो विहंगमः ॥१७॥ (भारुण्ड)
सर्वं श्रुतमुपादत्ते सारासारान्धधीर्वृषः ॥
स्वादु द्राक्षां खलिं चापि निर्विशेषं यथा वृषः ॥१८॥
स उष्ट्रो मधुरं मुञ्चन्विपरीते रमेत यः ॥
यथा निम्बं चरत्युष्ट्रो हित्वाऽऽम्रमपि तद्युतम् ॥१९॥
अन्येऽपि बहवो भेदा द्वयोर्भृंगखरादयः ॥
विज्ञेयास्तत्तदाचारैस्तत्तत्प्रकृतिसंभवैः ॥२०॥
यः स्थित्वाऽभिमुखं प्रणम्य विधिवत्त्यक्तान्यवादो हरेर्लीलाः श्रोतुमभीप्सतेऽतिनिपुणो नम्रो ऽथ क्लृप्ताञ्जलिः ॥
शिष्यो विश्वसितोऽनुचिन्तनपरः प्रश्नेऽनुरक्तः शुचिर्नित्यं कृष्णजनप्रियो निगदितः श्रोता स वै वक्तृभिः ॥२१॥
भगवन्मतिरनपेक्षः सुहृदो दीनेषु सानुकम्पो यः ॥
बहुधाबोधनचतुरो वक्ता संमानितो मुनिभिः ॥२२॥
अथ भारतभूस्थाने श्रीभागवतसेवने ॥
विधिं शृणुत भो विप्रा येन स्यात्सुखसंततिः ॥२३॥
राजसं सात्त्विकं चापि तामसं निर्गुणं तथा ॥
चतुर्विधं तु विज्ञेयं श्रीभागवत सेवनम् ॥२४॥
सप्ताहं यज्ञवद्यत्तु सश्रमं सत्वरं मुदा ॥
सेवितं राजसं तत्तु बहुपूजादिशोभनम् ॥२५॥
मासेन ऋतुना वापि श्रवणं स्वादसंयुतम्॥
सात्त्विकं यदनायासं समस्तानन्दवर्द्धनम् ॥२६॥
तामसं यत्तु वर्षेण सालसं श्रद्धयाऽयुतम् ॥
विस्मृतिस्मृतिसंयुक्तं सेवनं तच्च सौख्यदम् ॥२७॥
वर्षमासदिनानां तु विमुच्य नियमाग्रहम् ॥
सर्वदा प्रेमभक्त्यैव सेवनं निर्गुणं मतम् ॥२८॥
पारीक्षितेऽपि संवादे निर्गुणं तत्प्रकीर्तितम्॥
तत्र सप्तदिनाख्यानं तदायुर्दिनसंख्यया ॥२९॥
अन्यत्र त्रिगुणं चापि निर्गुणं च यथेच्छया ॥
यथा कथंचित्कर्तव्यं सेवनं भगवच्छ्रुतेः ॥३०॥
ये श्रीकृष्णविहारैकभजनास्वादलोलुपाः ॥
मुक्तावपि निराकांक्षास्तेषां भागवतं धनम् ॥३१॥
येऽपि संसारसंतापनिर्विण्णा मोक्षकांक्षिणः ॥
तेषां भवौषधं चैतत्कलौ सेव्यं प्रयत्नतः ॥३२॥
ये चापि विषयारामाः सांसारिकसुखस्पृहाः ॥
तेषां तु कर्ममार्गेण या सिद्धिः साऽधुना कलौ ॥३३॥
सामर्थ्यधनविज्ञानाभावादत्यन्तदुर्ल्लभा ॥
तस्मात्तैरपि संसेव्या श्रीमद्भागवती कथा ॥३४॥
धनं पुत्रांस्तथा दारान्वाहनादि यशो गृहान् ॥
असापत्न्यं च राज्यं च दद्याद्भागवती कथा ॥३५॥
इह लोके वरान्भुक्त्वा भोगान्वै मनसेप्सितान् ॥
श्रीभागवतसंगेन यात्यन्ते श्रीहरेः पदम् ॥३६॥
यत्र भागवती वार्ता ये च तच्छ्रवणे रताः ॥
तेषां संसेवनं कुर्याद्देहेन च धनेन च ॥३७॥
तदनुग्रहतोऽस्यापि श्रीभागवतसेवनम् ॥
श्रीकृष्णव्यतिरिक्तं यत्तत्सर्वं धनसंज्ञितम् ॥३८॥
कृष्णार्थीति धनार्थीति श्रोता वक्ता द्विधा मतः ॥
यथा वक्ता तथा श्रोता तत्र सौख्यं विवर्द्धते ॥३९॥
उभयोर्वैपरीत्ये तु रसाभासे फलच्युतिः॥
किन्तु कृष्णार्थिनां सिद्धिर्विलम्बेनापि जायते ॥४०॥
धनार्थिनस्तु संसिद्धिर्विधिसंपूर्णतावशात् ॥
कृष्णार्थिनोऽगुणस्यापि प्रेमैव विधिरुत्तमः ॥४१॥
आसमाप्ति सकामेन कर्तव्यो हि विधिः स्वयम् ॥
स्नातो नित्य क्रियां कृत्वा प्राश्य पादोदकं हरेः ॥४२॥
पुस्तकं च गुरुं चैव पूजयित्वोपचारतः ॥
ब्रूयाद्वा शृणुयाद्वापि श्रीमद्भागवतं मुदा ॥४३॥
पयसा वा हविष्येण मौनं भोजनमाचरेत् ॥
ब्रह्मचर्य्यमधःसुप्तिं क्रोधलोभादिवर्ज्जनम् ॥४४॥
कथान्ते कीर्तनं नित्यं समाप्तौ जागरं चरेत् ॥
ब्राह्मणान्भोजयित्वा तु दक्षिणाभिः प्रतोषयेत् ॥४५॥
गुरवे वस्त्रभूषादि दत्त्वा गां च समर्पयेत् ॥
एवं कृते विधाने तु लभते वाञ्छितं फलम् ॥४६॥
दारागारसुतान्राज्यं धनादि च यदीप्सितम् ॥
परन्तु शोभते नात्र सकामत्वं विडम्बनम् ॥४७॥
कृष्णप्राप्तिकरं शश्वत्प्रेमानन्दफलप्रदम् ॥
श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये चतुर्थोऽध्यायः ॥४॥
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे श्रीभागवतमहापुराणमाहात्म्यं समाप्तम् ॥२-६॥
N/A
References : N/A
Last Updated : November 11, 2024
TOP