वासुदेवमाहात्म्यम् - अध्याय ३०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ स्कन्द उवाच ॥
वासुदेवार्चनविधिं निशम्येत्थं स नारदः ॥
प्रसन्नः पुनरप्राक्षीत्तं मुनीनां परं गुरुम् ॥१॥
नारद उवाच ॥
सम्यगुक्तो भगवता क्रियायोगो महाफलः ॥
एकेन मनसा योऽसौ कार्यः सिद्धिमभीप्सुभिः ॥२॥
मनसो निग्रहस्तत्र ज्ञानिनामपि सद्गुरो ॥
दुष्करः किं पुनस्तर्हि नृणां कर्मात्मनां भुवि ॥३॥
तमृते तु हरेरर्चा नाभीष्टफलदायिनी ॥
अतस्तन्निग्रहोपायमपि मे वक्तुमर्हसि ॥४॥
स्कन्द उवाच ॥
इत्यापृष्टः स मुनिना मुनीन्द्रः सर्वदर्शनः ॥
नारायणो नरसखो नारदं तमभाषत ॥५॥
श्रीनारायण उवाच ॥
सत्यमेव मुने वक्षि मनसोस्ति बलं महत् ॥
जितेपि यस्मिन्विश्वासः शत्रुवन्न विवेकिनाम् ॥६॥
मनसा सदृशोन्यस्तु शत्रुर्न्नास्त्येव देहिनाम् ॥
विष्णुध्यानाभ्यासयोगान्निर्दोषं तद्धि शाम्यति ॥७॥
अदान्ताश्ववदेवैतद्यतोस्ति दुरवग्रहम् ॥
अतो वैराग्ययुक्पुम्भिः सदुपायैर्निगृह्यते ॥८॥
उपायास्तत्र बहवः सन्ति तेष्वपि सन्मते ॥
अष्टांगयोगस्याभ्यासः श्रेष्ठः सद्यः फलप्रदः ॥९॥
यमाश्च नियमा ब्रह्मन्नासनान्यसुसंयमः ॥
प्रत्याहारो धारणा च ध्यानमंगं तु सप्तमम् ॥
समाधिश्चाष्टमं प्रोक्तं योगस्यानुक्रमेण वै ॥१०॥
तत्राऽहिंसाब्रह्मचर्य सत्यास्तेयापरिग्रहाः ॥
एते पञ्च यमाः प्रोक्ताः साधनीयाः प्रयत्नतः ॥११॥
शौचं तपश्च संतोषः स्वाध्यायो विष्णुपूजनम् ॥
एते च नियमाः पञ्च द्वितीयांगतया मताः ॥१२॥
परिहायांगचाञ्चल्यं यथासुखतया स्थितिः ॥
तदासनं स्वस्तिकादिप्रोक्तं द्वन्द्वार्त्तिजिन्मुने ॥१३॥
चरतां सर्वतोऽसूनामेकदेशे तु धारणम् ॥
गुरूपदिष्टरीत्यैव प्राणायामः स उच्यते ॥१४॥
चले वायौ चलं चित्तं स्थिरे तस्मिन्स्थिरं ततः ॥
सुदेशेऽयं सदाऽभ्यस्यः पूरकुम्भकरेचकैः ॥१५॥
मनसेन्द्रियवृत्तीनां तत्तद्विषयतश्च यत् ॥
आकर्षणं प्रतीचीनं प्रत्याहारः स ईरितः ॥१६॥
नाभ्याद्यन्यतमे स्थाने प्राणेन सह चेतसः ॥
वासुदेवस्वरूपे यद्धारणं धारणोदिता ॥१७॥
एकैकावयवस्यैव चिन्तनं यत्पृथक्पृथक् ॥
पदाब्जादेर्भगवतस्तद्ध्यानमिति कीर्तितम् ॥१८॥
निरोधः प्राणमनसोरतिप्रेम्णा हरौ तु यः ॥
स समाधिरिति प्रोक्तो योगिनामभिवाञ्छितः ॥१९॥
अंगैरष्टभिरेतैर्हि शिक्षितैः सिद्धसद्गुरोः ॥
योगः सिद्ध्यति वै पुंसां समाधेः पक्वतात्मकः ॥२०॥
नैतादृशं परं सम्यङ् मनोनिग्रहसाधनम्॥
पुरुषाणां मुमुक्षूणामिति जानीहि नारद ॥२१॥
तपस्विनां महाशत्रोर्ब्रह्माण्डक्षोभकादपि ॥
मदनान्नाभयं किञ्चिद्योगिनस्त्वस्ति कर्हिचित् ॥२२॥
आयास्यन्तं विहित्वैव सोन्तकालं च योगवित् ॥
स्वातन्त्र्येणैव देहं स्वं त्यजतीत्थं समाधिना ॥२३॥
पार्ष्णिभ्यां गुदमापीड्य वायुं पादद्वयस्थितम् ॥
शनैःशनैः समाकृष्य मृत्युस्थानं नयत्यमुम् ॥२४॥
मनसा केशवं ध्यायंस्तन्मनुं च षडक्षरम् ॥
जपस्ततोऽमुं नयति वायुं स्थानं प्रजापतेः ॥२५॥
ततो नाभिं च हदयमुरः कण्ठं च योगवित् ॥
नयति भ्रुकुटिवायुं वासुदेवपरायणः ॥२६॥
एतेषु षट्सु स्थानेषु त्वेकैकस्मिन्पृथक्पृथक् ॥
योगी प्राणमनोक्षाणां निरोधं च विसर्जनम् ॥
तावदभ्यसति स्वस्य यावत्स्यात्तत्स्वतन्त्रता ॥२७॥
जितंजितं विहायैव स्थानं याति परं परम् ॥
प्राप्तस्य स्थानकं षष्ठं तदभ्यासे श्रमो न हि ॥२८॥
सप्तच्छिद्राणि रुद्ध्वाऽथ प्राणमक्षमनोयुतम् ॥
प्रापय्य तालु व्रजति ब्रह्मरन्ध्रं स योगवित् ॥२९॥
मायामयपदार्थानां ततो हित्वैव वासनाः ॥
स वासुदेवैकमनास्त्यजति स्वकलेवरम्॥३०॥
ततो भगवतो धाम श्रीकृष्णस्य तमःपरम् ॥
उपेत्य सेवमानस्तं नन्दते दिव्यविग्रहः ॥३१॥
इति ते कथितो ब्रह्मन्योगशास्त्रस्य संग्रहः ॥
जित्वा तेन मनः स्वीयं तमाराधय सर्वदा ॥३२॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽष्टांगयोगनिरूपणं नाम त्रिंशोऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : November 12, 2024
TOP