प्रभासक्षेत्र माहात्म्यम् - अध्याय ३६०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि स्थानं शृंगसरोऽभिधम् ॥१॥
शृंगारेश्वरनामा च तत्र देवः प्रतिष्ठितः ॥
शृङ्गारं विधिवच्चक्रे यत्र गोपीयुतो हरिः ॥२॥
शृङ्गारेश्वरनामा च तेन पापौघनाशनः ॥
पूजयेद्यो विधानेन तत्र स्थाने स्थितं भवम् ॥
दारिद्र्यदुःखसंयुक्तो न स भूयाद्भवे क्वचित् ॥३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगारेश्वरमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरत्रिशततमोऽध्यायः ॥३६०॥
N/A
References : N/A
Last Updated : January 13, 2025
TOP