॥ श्रीदुर्गादैव्ये नम: ॥
ध्यानम्
ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
दुं दुर्गा दुर्गतिहरा दुर्गाचलनिवासिनी ।
दुर्गमार्गानुसंचारा दुर्गमार्गनिवासिनी ॥ १ ॥
दुर्गमार्गप्रविष्टा च दुर्गमार्गप्रवेशिनी ।
दुर्गमार्गकृतावासा दुर्गमार्गजयप्रिया ॥ २ ॥
दुर्गमार्गगृहीतार्चा दुर्गमार्गस्थितात्मिका ।
दुर्गमार्गस्तुतिपरा दुर्गमार्गस्मृतिपरा ॥ ३ ॥
द्रुगमार्गसदास्थाली दुर्गमार्गरतिप्रिया ।
दुर्गमार्गस्थलस्थाना दुर्गमार्गविलासिनी ॥ ४ ॥
दुर्गमार्गत्यक्तवस्त्रा दुर्गमार्गप्रवर्तिनी ।
दुर्गासुरनिहन्त्री न दुर्गासुरनिषूदिनी॥ ५ ॥
दुर्गासरहर दूती दुर्गासुरविनाशिनी ।
दुर्गासुरवधोन्मत्ता दुर्गासुरवधोत्सुका ॥ ६ ॥
दुर्गासुरवधोत्साहा दुर्गासुरवधोद्यता ।
दुर्गासुरवधप्रेप्सुर्दुगासुरमखान्तकृत् ॥ ७ ॥
दुर्गासुरध्वंसतोषा दुर्गदानवदारिणी ।
दुर्गविद्रावणकरी दुर्गविद्रावणी सदा ॥ ८ ॥
दुर्गविक्षोभणकरी दुर्गशीर्षनिकृन्तिनी ।
दुर्गविध्वंसनकरि दुर्गदैत्यनिकृन्तिनी ॥ ९ ॥
दुर्गदैत्यप्राणहरा दुर्गदैत्यान्तकारिणी ।
दुर्गदैत्यहरत्रात्री दुर्गदैत्यासृगुन्मदा ॥ १० ॥
दुर्गदैत्याशनकरी दुर्गचर्माम्बरावृता ।
दुर्गयुद्धोत्सवकरी दुर्गयुद्धविशारदा ॥ ११ ॥
दुर्गयुद्धासवरता दुर्गयुद्धविमर्दिनी ।
दुर्गयुद्धहास्यरता दुर्गयुद्धाट्टहासिनी ॥ १२ ॥
दुर्गयुद्धमहामत्ता दुर्गयुद्धानुसारिणी ।
दुर्गयुद्धोत्सवोत्साहा दुर्गदेशनिषेविणी ॥ १३ ॥
दुर्गदेशवासरता दुर्गदेशविलासिनी ।
दुर्गदेशार्चनरता दुर्गदेशजनप्रिया ॥ १४ ॥
दुर्गमस्थानसंस्थाना दुर्गमध्यानुसाधना ।
दुर्गमा दुर्गमध्याना दुर्गमात्मस्वरूपिणी ॥ १५ ॥
दुर्गमागमसंधाना दुर्गमागमसंस्तुता ।
दुर्गमागमदुर्ज्ञेया दुर्गमश्रुतिसम्मता ॥ १६ ॥
दुर्गमश्रुतिमान्या च दुर्गमश्रुतिपूजिता ।
दुर्गमश्रुतिसुप्रीता दुर्गमश्रुतिहर्षदा ॥ १७ ॥
दुर्गमश्रुतिसंस्थाना दुर्गमश्रुतिमानिता ।
दुर्गमाचारसंतुष्टा दुर्गमाचारतोषिता ॥ १८ ॥
दुर्गमाचारनिर्वृत्ता दुर्गमाचारपूजिता ।
दुर्गमाचारकलिता दुर्गमस्थानदायिनी ॥ १९ ॥
दुर्गमप्रेमनिरता दुर्गमद्रविणप्रदा ।
दुर्गमाम्बुजमध्यस्था दुर्गमाम्बुजवासिनी ॥ २० ॥
दुर्गनाडीमार्गगतिर्दुर्गनाडीप्रचारिणी ।
दुर्गनाडीपद्मरता दुर्गनाड्यम्बुजास्थिता ॥ २१ ॥
दुर्गनाडीगतायाता दुर्गनाडीकृतास्पदा ।
दुर्गनाडीरतरता दुर्गनाडीशसंस्तुता ॥ २२ ॥
दुर्गनाडीश्वररता दुर्गनाडीशचुम्बिता ।
दुर्गनाडीशक्रोडस्था दुर्गनाड्युत्थितोत्सुका ॥ २३ ॥
दुर्गनाड्यारोहणा च दुर्गनाडीनिषेविता ।
दरिस्थाना दरिस्थानवासिनी दनुजान्तकृत् ॥ २४ ॥
दरीकृततपस्या च दरीकृतहरार्चना ।
दरीजापितदिष्टा च दरीकृतरतिक्रिया ॥ २५ ॥
दरीकृतहरार्हा च दरीक्रीडितपुत्रिका ।
दरीसंदर्शनरता दरीरोपितवृश्चिका ॥ २६ ॥
दरीगुप्तिकौतुकाढ्या दरीभ्रमणतत्परा ।
दनुजान्तकरी दीना दनुसंतानदारिणी ॥ २७ ॥
दनुजध्वंसिनी दूना दनुजेन्द्रविनाशिनी ।
दानवध्वंसिनी देवी दानवानां भयंकरी ॥ २८ ॥
दानवी दानवाराध्या दानवेन्द्रवरप्रदा ।
दानवेन्द्रनिहन्त्री च दानवद्वेषिणी सती ॥ २९ ॥
दानवारिप्रेमरता दानवारिप्रपूजिता ।
दानवरिकृतार्चा च दानवारिविभूतिदा ॥ ३० ॥
दानवारिमहानन्दा दानवारिरतिप्रिया ।
दानवारिदानरता दानवारिकृतास्पदा ॥ ३१ ॥
दानवारिस्तुतिरता दानवारिस्मृतिप्रिया ।
दानवार्याहाररता दानवारिप्रबोधिनी ॥ ३२ ॥
दानवारिधृतप्रेमा दु:खशोकविमोचिनी ।
दु:खहन्त्री दु:खदत्री दु:खनिर्मूलकारिणी ॥ ३३ ॥
दु:खनिर्मूलनकरी दु:खदार्यरिनाशिनी ।
दु:खहरा दु:खनाशा दु:खग्रामा दुरासदा ॥ ३४ ॥
दु:खहीना दु:खधारा द्रविणाचारदायिनी ।
द्रविणोत्सर्गसंतुष्टा द्रविणत्यागतोषिका ॥ ३५ ॥
द्रविणस्पर्शसंतुष्टा द्रविणस्पर्शमानदा ।
द्रविणस्पर्शहर्षाढ्या द्रविणस्पर्शतुष्टिदा ॥ ३६ ॥
द्रविणस्पर्शनकरी द्रविणस्पर्शनातुरा ।
द्रविणस्पर्शनोत्साहा द्रविणस्पर्शसाधिका ॥ ३७ ॥
द्रविणस्पर्शनमता द्रविणस्पर्शपुत्रिका ।
द्रविणस्पर्शरक्षिणी द्रविणस्तोमदायिनी ॥ ३८ ॥
द्रविणकर्षणकरी द्रविणौघविसर्जिनी ।
द्रविणाचलदानाढ्या द्रविणाचलवासिनी ॥ ३९ ॥
दीनमाता दिनबन्धुर्दीनविघ्नविनाशिनी ।
दीनसेव्या दीनसिद्धा दीनसाध्या दिगम्बरी ॥ ४० ॥
दीनगेहकृतानन्दा दीनगेहविलासिनी ।
दीनभावप्रेमरता दीनभावविनोदिनी ॥ ४१ ॥
दीनमानवचेत:स्था दीनमानवहर्षदा ।
दीनदैन्यविघातेच्छुर्दीनद्रविणदायिनी ॥ ४२ ॥
दीनसाधनसंतुष्टा दीनदर्शनदायिनी ।
दीनपुत्रादिदात्री च दीनसम्पद्विधायिनी ॥ ४३ ॥
दत्तात्रेयध्यानरता दत्तात्रेयप्रपूजिता ।
दत्तात्रेयर्षिसंसिद्धा दत्तात्रेयविभाविता ॥ ४४ ॥
दत्तात्रेयकृतार्हा च दत्तात्रेयप्रसाधिता ।
दत्तात्रेयस्तुता चैव दत्तात्रेयनुता सदा ।
दत्तात्रेयप्रेमरता दत्तात्रेयानुमानिता ॥ ४६ ॥
दत्तात्रेयसमुद्गीता दत्तात्रेयकुटुम्बिनी ।
दत्तात्रेयप्राणतुल्या दत्तात्रेयशरीरिणी ॥ ४७ ॥
दत्तात्रेयकृतानन्दा दत्तात्रेयांशसम्भवा ।
दत्तात्रेयविभूतिस्था दत्तात्रेयानुसारिणी ॥ ४८ ॥
दत्तात्रेयगीतिरता दत्तात्रेयधनप्रदा ।
दत्तात्रेयदु:खहरा दत्तात्रेयवरप्रदा ॥ ४९ ॥
दत्तात्रेयज्ञानदानी दत्तात्रेयभयापहा ।
देवकन्या देवमान्या देवदु:खविनाशिनी ॥ ५० ॥
देवसिद्धा देवपूज्या देवेज्या देववन्दिता ।
देवमान्या देवधन्या देवविघ्नविनाशिनी ॥ ५१ ॥
देवरम्या देवरता देवकौतुकतत्परा ।
देवक्रीडा देवव्रीडा देववैरिविनाशिनी ॥ ५२ ॥
देवकामा देवरामा देवद्विष्टविनशिनी ।
देवदेवप्रिया देवी देवदानववन्दिता ॥ ५३ ॥
देवदेवरतानन्दा देवदेववरोत्सुका ।
देवदेवप्रेमरता देवदेवप्रियंवदा ॥ ५४ ॥
देवदेवप्राणतुल्या देवदेवनितम्बिनी ।
देवदेवरतमना देवदेवसुखावहा ॥ ५५ ॥
देवदेवक्रोडरत देवदेवसुखप्रदा ।
देवदेवमहानन्दा देवदेवप्रचुम्बिता ॥ ५६ ॥
देवदेवोपभुक्ता च देवदेवानुसेविता ।
देवदेवगतप्राणा देवदेवगतात्मिका ॥ ५७ ॥
देवदेवहर्षदात्री देवदेवसुखप्रदा ।
देवदेवमहानन्दा देवदेवविलासिनी ॥ ५८ ॥
देवदेवधर्मपत्नी देवदेवमनोगता ।
देवदेववधूर्देवी देवदेवार्चनप्रिया ॥ ५९ ॥
देवदेवाङ्गसुखिनी देवदेवाङ्गवासिनी ॥ ६० ॥
देवदेवाङ्गभूषा च देवदेवाङ्गभूषणा ।
देवदेवप्रियकरी देवदेवाप्रियान्तकृत् ॥ ६१ ॥
देवदेवप्रियप्राणा देवदेवप्रियात्मिका ।
देवदेवार्चकप्राणा देवदेवार्चकप्रिया ॥ ६२ ॥
देवदेवार्चकोत्साहा देवदेवार्चकाश्रया ।
देवदेवार्चकाविघ्ना देवदेवप्रसूरपि ॥ ६३ ॥
देवदेवस्य जननी देवदेवविधायिनी ।
देवदेवस्य रमणी देवदेवह्रदाश्रया ॥ ६४ ॥
देवदेवेष्टदेवी च देवतापसपालिनी ।
देवताभावसंतुष्टा देवताभावतोषिता ॥ ६५ ॥
देवताभाववरदा देवताभावसिद्धिदा ।
देवताभावसंसिद्धा देवताभावसम्भवा ॥ ६६ ॥
देवताभावसुखिनी देवताभाववन्दिता ।
देवताभावसुप्रीता देवताभावहर्षदा ॥ ६७ ॥
देवतविघ्नहन्त्री च देवताद्विष्टनाशिनी ।
देवतापूजितपदा देवताप्रेमतोषिता ॥ ६८ ॥
देवतागारनिलया देवतासौख्यदायिनी ।
देवतानिजभावा च देवताह्रतमानसा ॥ ६९ ॥
देवताकृतपादार्चा देवताह्रतभक्तिका ।
देवतागर्वमध्यस्ता देवतादेवतातनु: ॥ ७० ॥
दुं दुर्गायै नमो नाम्नी दुं फण्मन्त्रस्वरूपिणी ।
दूं नमो मन्त्ररूपा च दूं नमो मूर्तिकात्मिका ॥ ७१ ॥
दूरदर्शिप्रियादुष्टा दुष्टभूतनिषेविता ।
दूरदर्शिप्रेमरता दूरदर्शिप्रियंवदा ॥ ७२ ॥
दूरदर्शैसिद्धिदात्री दूरदर्शिप्रतोषिता ।
दूरदर्शिकण्ठसंस्था दूरदर्शिप्रहर्षिता ॥ ७३ ॥
दूरदर्शिगृहीतार्चा दुरदर्हिप्रतर्षिता ।
दूरदर्शिप्राणतुल्या दुरदर्शिसुखप्रदा ॥ ७४ ॥
दुरदर्शिभ्रान्तिहरा दूरदर्शिह्रदास्पदा ।
दूरदर्श्यरिविद्भावा दीर्घदर्शिप्रमोदिनी ॥ ७५ ॥
दीर्घदर्शिप्राणतुल्या दुरदर्शिवरप्रदा ।
दीर्घदर्शिहर्षदात्री दीर्घदर्शिप्रहर्षिता ॥ ७६ ॥
दीर्घदर्शिमहानन्दा दीर्घदर्शिगृहालया ।
दीर्घदर्शिगृहीतार्चा दीर्घदर्शिह्रतार्हणा ॥ ७७ ॥
दया दानवती दात्री दयालुर्दीनवत्सला ।
दयार्द्रा च दयाशीला दयाढ्या च दयात्मिका ॥ ७८ ॥
दयाम्बुधिर्दयासारा दयासागरपारगा ।
दयासिन्धुर्दयाभारा दयावत्करुणाकरी ॥ ७९ ॥
दयावद्वत्सला देवी दया दानरता सदा ।
दयावद्भक्तिसुखिनी दयावत्परितोषिता ॥ ८० ॥
दयावत्स्नेहनिरता दयावत्प्रतिपादिका।
दयावत्प्राणकर्त्री च दयावन्मुक्तिदायिनी ॥ ८१ ॥
दयावद्भावसंतुष्टा दयावत्परितोषिता ।
दयावत्तारणपरा दयावत्सिद्धिदायिनी ॥ ८२ ॥
दयावत्पुत्रवद्भावा दयावत्पुत्ररूपिणी ।
दयावदेहनिलया दयाबन्धुर्दयाश्रया ॥ ८३ ॥
दयालुवात्सल्यकरी दयालुसिद्धिदायिनी ।
दयालुशरणाशक्ता दयालुदेहमन्दिरा ॥ ८४ ॥
दयालुभक्तिभावस्था दयालुप्राणरूपिणी ।
दयालुसुखदा दम्भा दयालुप्रेमवर्षिणी ॥ ८५ ॥
दयालुवशगा दीर्घा दिर्घाङ्गी दीर्घलोचना ।
दीर्घनेत्रा दीर्घचक्षुर्दीर्घबाहुलतात्मिका ॥ ८६ ॥
दीर्घकेशी दीर्घमुखी दीर्घघोणा च दारुणा ।
दारुणासुरहन्त्री च दारूणासुरदारिणी ॥ ८७ ॥
दारुणाहवकर्त्री च दारुणाहवहर्षिता ।
दारुणाहवहोमाढ्या दारुणाचलनाशिनी ॥ ८८ ॥
दारुणाचारनिरता दारुणोत्सवहर्षिता ।
दारुणोद्यतरूपा च दारुणारिनिवारिणी ॥ ८९ ॥
दारुणेक्षणसंयुक्ता दोश्चतुष्कविराजिता ।
दशदोष्का दशभुजा दशबाहुविराजिता ॥ ९० ॥
दशास्त्रधारिणी देवी दशदिक्ख्यातविक्रमा ।
दशरथार्चितपदा दाशरथिप्रिया सदा ॥ ९१ ॥
दाशरथिप्रेमतुष्टा दाशरथिरतिप्रिया ।
दाशरथिप्रियकरी दाशरथिप्रियंवदा ॥ ९२ ॥
दाशरथीष्टसंदात्री दाशरथीष्टदेवता ।
दाशरथिद्वेषिनाशा दाशरथ्यानुकूल्यदा ॥ ९३ ॥
दाशरथिप्रियतमा दाशरथिप्रपूजिता ।
दशाननारिसम्पूज्या दशाननारिदेवता ॥ ९४ ॥
दशाननारिप्रमदा दशाननारिजन्मभू: ।
दशाननारिरतिदा दशाननारिसेविता ॥ ९५ ॥
दशाननारिसुखदा दशाननारिवैरिह्रत् ।
दशाननारिष्टदेवी दशग्रीवारिवन्दिता ॥ ९६ ॥
दशग्रीवारिजननी दशग्रीवारिभाविनी
दशग्रीवारिसहिता दशग्रीवसभाजिता ॥ ९७ ॥
दशग्रीवारिरमणी दशग्रीववधूरपि ।
दशग्रीवनाशकर्त्री दशग्रीववरप्रदा ॥ ९८ ॥
दशग्रीवपुरस्था च दशग्रीववधोत्सुका ।
दशग्रीवप्रीतिदात्री दशग्रीवविनाशिनी ॥ ९९ ॥
दशग्रीवाहवकरी दशग्रीवानपायिनी ।
दशग्रीवप्रिया वन्द्या दशग्रीवह्रता तथा ॥ १०० ॥
दशग्रीवाहितकरी दशग्रीवेश्वरप्रिया ।
दशग्रीवेश्वरप्राणा दशग्रीववरप्रदा ॥ १०१ ॥
दशग्रीवेश्वररता दशवर्षीयकन्यका ।
दशवर्षीयबाला च दशवर्षीयवासिनी ॥ १०२ ॥
दशपापहरा दम्या दशहस्तविभूषिता ।
दशशस्त्रलसद्दोष्का दशदिक्पालवन्दिता ॥ १०३ ॥
दशावताररूपा च दशावताररूपिणी ।
दशविद्याभिन्नदेवी दशप्राणस्वरूपिणी ॥ १०४ ॥
दशविद्यास्वरूपा च दशविद्यामयी तथा ।
दृक्स्वरूपा दृक्प्रदात्री दृग्रूपा दृक्प्रकाशिनी ॥ १०५ ॥
दिगन्तरा दिगन्त:स्था दिगम्बरविलासिनी ।
दिगम्बरसमाजस्था दिगम्बरप्रपूजिता ॥ १०६ ॥
दिगम्बरसहचरी दिगम्बरकृतास्पदा ।
दिगम्बरह्रताचित्ता दिगम्बरकथाप्रिया ॥ १०७ ॥
दिगम्बरगुणरता दिगम्बरस्वरूपिणी ।
दिगम्बरशिरोधार्या दिगम्बरह्रताश्रया ॥ १०८ ॥
दिगम्बरप्रेमरता दिगम्बररतातुरा ।
दिगम्बरीस्वरूपा च दिगम्बरीगणार्चिता ॥ १०९ ॥
दिगम्बरीगणप्राणा दिगम्बरीगणप्रिया ।
दिगम्बरीगणाराध्या दिगम्बरगणेश्वरा ॥ ११० ॥
दिगम्बरगणस्पर्शमदिरापानविह्वला ।
दिगम्बरीकोटिवृता दिगम्बरीगणावृता ॥ १११ ॥
दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
दुरन्तदानवद्वेष्ट्री दुरन्तदनुजान्तकृत् ॥ ११२ ॥
दुरन्तपापहन्त्री च दस्त्रनिस्तारकारिणी ।
दस्त्रमानससंस्थाना दस्त्रज्ञानविवर्धिनी ॥ ११३ ॥
दस्त्रसम्भोगजननी दस्त्रसम्भोगदायिनी ।
दस्त्रसम्भोगभवना दस्त्रविद्याविधायिनी॥ ११४ ॥
दस्त्रोद्वेगहरा दस्त्रजननी दस्त्रसुन्दरी ।
द्स्त्रभक्तिविधाज्ञाना दस्त्रद्विष्टविनाशिनी ॥ ११५ ॥
दस्त्रापकारदमनी दस्त्रसिद्धिविधायिनी ।
दस्त्रताराराधिका च दस्त्रमातृप्रपूजिता ॥ ११६ ॥
दस्त्रदैन्यहरा चैव दस्त्रतातनिषेविता ।
दस्त्रपितृशतज्योतिर्दस्त्रकौशलदायिनी ॥ ११७ ॥
दशशीर्षारिसहिता दशशीर्षारिकामिनी ।
दशशीर्षपुरी देवी दशशीर्षसभाजिता ॥ ११८ ॥
दशशीर्षारिसुप्रीता दशशीर्षवधुप्रिया ।
दशशीर्षशिरश्छेत्री दशशीर्षनितम्बिनी ॥ ११९ ॥
दशशीर्षहरप्राणा दशशिर्षहरात्मिका ।
दशशिर्षहराराध्या दशशीर्षारिवन्दिता ॥ १२० ॥
दशशीर्षारिसुखदा दशशीर्षकपालिनी ।
दशशीर्षज्ञानदात्री दशशीर्षारिगेहिनी ॥ १२१ ॥
दशशीर्षवधोपात्तश्रीरामचन्द्ररूपता ।
दशशीर्षराष्ट्रदेवी दशशीर्षारिसारिणी ॥ १२२ ॥
दशशीर्षभ्रातृतुष्टा दशशीर्षवधूप्रिया ।
दशशीर्षवधूप्राणा दशशीर्षवधूरता ॥ १२३ ॥
दैत्यगुरुरता साध्वी दैत्यगुरुप्रपूजिता ।
दैत्यगुरूपदेष्ट्री च दैत्यगुरुनिषेविता ॥ १२४ ॥
दैत्यगुरुमतप्राणा दैत्यगुरुतापनाशिनी ।
दुरन्तदु:खशमनी दुरन्तदमनी तमी ॥ १२५ ॥
दुरन्तशोकशमनी दुरन्तरोगनाशिनी ।
दुरन्तवैरिदमनी दुरन्तदैत्यनाशिनी ॥ १२६ ॥
दुरन्तकलुषघ्नी च दुष्कृतिस्तोमनाशिनी ।
दुराशया दुराधारा दुर्जया दुष्टकामिनी ॥ १२७ ॥
दर्शनीया च दृश्या चाऽदृश्या च दृष्टिगोचरा ।
दूतीयागप्रिया दुती दूतीयागकरप्रिया ॥ १२८ ॥
दुतीयागकरानन्दा दूतीयागसुखप्रदा ।
दूतीयागकरायाता दुतीयागप्रमोदिनी ॥ १२९ ॥
दुर्वास:पूजिता चैव दुर्वासोमुनिभाविता ।
दुर्वासोऽर्चितपादा च दुर्वासोमौनभाविता ॥ १३० ॥
दुर्वासोमुनिवन्द्या च दुर्वासोमुनिदेवता ।
दुर्वासोमुनिमाता च दुर्वासोमुनिसिद्धिदा ॥ १३१ ॥
दुर्वासोमुनिभावस्था दुर्वासोमुनिसेविता ।
दुर्वासोमुनिचित्तस्था दुर्वासोमुनिमण्डिता ॥ १३२ ॥
दुर्वासोमुनिसंचारा दुर्वासोह्रदयङ्गमा ।
दुर्वासोह्रदयाराध्या दुर्वासोह्रत्सरोजगा ॥ १३३ ॥
दुर्वासस्तापसाराध्या दुर्वासस्तापसाश्रया ।
दुर्वासस्तापसरता दुर्वासस्तापसेश्वरी ॥ १३४ ॥
दुर्वासोमुनिकन्या च दुर्वासोऽद्भुतसिद्धिदा ।
दररात्री दरहरा दरयुक्ता दरापहा ॥ १३५ ॥
दरघ्नी दरहन्त्री च दरयुक्ता दराश्रया ।
दरस्मेरा दरपाङ्गी दयादात्री दयाश्रया ।
दस्त्रपूज्या दस्त्रमाता दस्त्रदेवी दरोन्मदा ॥ १३६ ॥
दस्त्रसिद्धा दस्त्रसंस्था दस्त्रतापविमोचिनी ।
दस्त्रक्षोभहरा नित्या दस्त्रलोकगतात्मिका ॥ १३७ ॥
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनाप्रिया ।
दैत्यगुर्वङ्गनावन्द्या दैत्यगुर्वङ्गनोत्सुका ॥ १३८ ॥
दैत्यगुरुप्रियतमा देवगुरुनिषेविता ।
देवगुरुप्रसूरूपा देवगुरुकृतार्हणा ॥ १३९ ॥
देवगुरुप्रेमयुता देवगुर्वनुमानिता ।
देवगुरुप्रभावज्ञा देवगुरुसुखप्रदा ॥ १४० ॥
देवगुरुज्ञानदात्री देवगुरूप्रमोदिनी ।
दैत्यस्त्रीगणसम्पूज्या दैत्यस्त्रीगणपूजिता ॥ १४१ ॥
दैत्यस्त्रीगणरूपा च दैत्यस्त्रीचित्तहारिणी ।
देवस्त्रीगणपूज्या च देवस्त्रीगणवन्दिता ॥ १४२ ॥
देवस्त्रीगणचित्तस्था देवस्त्रीगणभूषिता ।
देवस्त्रीगणसंसिद्धा देवस्त्रीगणतोषिता ॥ १४३ ॥
देवस्त्रीगणहस्तस्थचारुचामरवीजिता ।
देवस्त्रीगणहस्तस्थचारुगन्धविलेपिता ॥ १४४ ॥
देवाङ्गनाधृतादर्शदृष्ट्यर्थमुखचन्द्रमा ।
देवाङ्गनोत्सृष्टनागवल्लीदलकृतोत्सुका ॥ १४५ ॥
देवस्त्रीगणहस्तस्थदिपमालाविलोकना ।
देवस्त्रीगणहस्तस्थधूपघ्राणविनोदिनी ॥ १४६ ॥
देवनारीकरगतवासकासवपायिनी ।
देवनारीकङ्कतिकाकृतकेशनिमार्जना ॥ १४७ ॥
देवनारीसेव्यगात्रा देवनारीकृतोत्सुका ।
देवनारिविरचितपुष्पमालाविराजिता ॥ १४८ ॥
देवनारीविचित्रङ्गी देवस्त्रीदत्तभोजना ।
देवस्त्रीगणगीता च देवस्त्रीगीतसोत्सुका ॥ १४९ ॥
देवस्त्रीनृत्यसुखिनी देवस्त्रीनृत्यदर्शिनी ।
देवस्त्रीयोजितलसद्रत्नपादपदाम्बुजा ॥ १५० ॥
देवस्त्रीगणविस्तीर्णचारुतल्पनिषेदुषी ।
देवनारीचारुकराकलितांघ्र्यादिदेहिका ॥ १५१ ॥
देवनारीकरव्यग्रतालवृन्दमरुत्सुका ।
देवनारीवेणुवीणानादसोत्कण्ठमानसा ॥ १५२ ॥
देवकोटिस्तुतिनुता देवकोटिकृतार्हणा ।
देवकोटिगीतगुणा देवकोटिकृतस्तुति: ॥ १५३ ॥
दन्तदष्ट्योद्वेगफला देवकोलाहलाकुला ।
द्वेषरागपरित्यक्ता द्वेषरागविवर्जिता ॥ १५४ ॥
दामपूज्या दामभूषा दामोदरविलासिनी ।
दामोदरप्रेमरता दामोदरभगिन्यपि ॥ १५५ ॥
दामोदरप्रसूर्दामोदरपत्नीपतिव्रता ।
दामोदराऽभिन्नदेहा दामोदररतिप्रिया ॥ १५६ ॥
दामोदराऽभिन्नतनुर्दामोदरकृतास्पदा ।
दामोदरकृतप्राणा दामोदरगतात्मिका ॥ १५७ ॥
दामोदरकौतुकाढ्या दामोदरकलाकला ।
दामोदरालिङ्गिताङ्गी दामोदरकुतुहला ॥ १५८ ॥
दामोदरकृताह्लादा दामोदरसुचुम्बिता ।
दामोदरसुताकृष्टा दामोदरसुखप्रदा ॥ १५९ ॥
दामोदरसहाढ्या च दामोदरसहायिनी ।
दामोदरगुणज्ञा च दामोदरवरप्रदा ॥ १६० ॥
दामोदरानुकूला च दामोदरनितम्बिनी ।
दामोदरबलक्रीडाकुशला दर्शनप्रिया ॥ १६१ ॥
दामोदरजलक्रीडात्यक्तस्वजनसौह्रदा ।
दमोदरलसद्रासकेलिकौतुकिनी तथा ॥ १६२ ॥
दामोदरभ्रातृका च दामोदरपरायणा ।
दामोदरधरा दामोदरवैरविनाशिनी ॥ १६३ ॥
दामोदरोपजाया च दामोदरनिमन्त्रिता ।
दामोदरपराभूता दामोदरपराजिता ॥ १६४ ॥
दामोदरसमाक्रान्ता दामोदरहताशुभा ।
दामोदरोत्सवरता दामोदरोत्सवावहा ॥ १६५ ॥
दामोदरस्तन्यदात्री दामोदरगवेषिता ।
दमयन्तीसिद्धिदात्री दमयन्तीप्रसाधिता ॥ १६६ ॥
दयमन्तीष्टदेवी च दमयन्तीस्वरूपिणी ।
दमयन्तीकृतार्चा च दमनर्षिविभाविता ॥ १६७ ॥
दमनर्षिप्राणतुल्या दमनर्षिस्वरूपिणी ।
दमनर्षिस्वरूपा च दम्भपूरितविग्रहा ॥ १६८ ॥
दम्भहन्त्री दम्भधात्री दम्भलोकविमोहिनी ।
दम्भशीला दम्भहरा दम्भवत्परिमर्दिनी ॥ १६९ ॥
दम्भरूपा दम्भकरी दम्भसंतानदारिणी ।
दत्तमोक्षा दत्तधना दत्तारोग्या च दाम्भिका ॥ १७० ॥
दत्तपुत्रा दत्तदारा दत्तहारा च दारिका ।
दत्तभोगा दत्तशोका दत्तहस्त्यादिवाहना ॥ १७१ ॥
दत्तमतिर्दत्तभार्या दत्तशास्त्रावबोधिका ।
दत्तपाना दत्तदाना दत्तदारिद्र्यनाशिनी ॥ १७२ ॥
दत्तसौधावनीवासा दत्तस्वर्गा च दासदा ।
दास्यतुष्ट दास्यहरा दासदासीशतप्रदा ॥ १७३ ॥
दाररूपा दारवास दारवासिह्रदास्पदा ।
दारवासिजनाराध्या दारवासिजनप्रिया ॥ १७४ ॥
दारवासिविनिर्नीता दारवासिसमर्चिता ।
दारवास्याह्रतप्राणा दारवास्यरिनाशिनी ॥ १७५ ॥
दारवासिविघ्नहरा दारवासिविमुक्तिदा ।
दाराग्निरूपिणी दारा दारकार्यरिनाशिनी ॥ १७६ ॥
दम्पती दम्पतीष्टा च दम्पतीप्राणरूपिका ।
दम्पतीस्नेहनिरता दाम्पत्यसाधनप्रिया ॥ १७७ ॥
दाम्पत्यसुखसेना च दाम्पत्यसुखदायिनी ।
दम्पत्याचारनिरता दम्पत्यामोदमोदिता ॥ १७८ ॥
दम्पत्यामोदसुखिनी दाम्पत्याह्लदकारिणी ।
दम्पतीष्टपादपद्मा दाम्पत्यप्रेमरूपिणी ॥ १७९ ॥
दाम्पत्यभोगभवना दाडिमीफलभोजिनी ।
दाडिमीफलसंतुष्टा दाडिमीफलमानसा ॥ १८० ॥
दाडिमीवृक्षसंस्थाना दाडिमीवृक्षवासिनी ।
दाडिमीवृक्षरूपा च दाडिमीवनवासिनी ॥ १८१ ॥
दाडिमीफलसाम्योरुपयोधरसमन्विता ।
दक्षिणा दक्षिणारूपा दक्षिणारूपधारिणी ॥ १८२ ॥
दक्षकन्या दक्षपुत्री दक्षमाता च दक्षसू: ।
दक्षगोत्रा दक्षसुता दक्षयज्ञविनाशिनी ॥ १८३ ॥
दक्षयज्ञनाशकर्त्री दक्षयज्ञान्तकारिणी ।
दक्षप्रसूतिर्दक्षेज्या दक्षवंशैकपावनी ॥ १८४ ॥
दक्षात्मज दक्षसूनूर्दक्षजा दक्षजातिका ।
दक्षजन्मा दक्षजनुर्दक्षदेहसमुद्भवा ॥ १८५ ॥
दक्षजनिर्दक्षयागध्वंसिनी दक्षकन्यका ।
दक्षिणाचारनिरता दक्षिणाचारतुष्टिदा ॥ १८६ ॥
दक्षिणाचारसंसिद्धा दक्षिणाचारभाविता ।
दक्षिणाचारसुखिनी दक्षिणाचारसाधिता ॥ १८७ ॥
दक्षिणाचारमोक्षाप्तिर्दक्षिणाचारवन्दिता ।
दक्षिणाचारशरणा दक्षिणाचारहर्षिता ॥ १८८ ॥
द्वारपालप्रिया द्वारवासिनी द्वारसंस्थिता ।
द्वाररूपा द्वारसंस्था द्वारदेशनिवासिनी ॥ १८९ ॥
द्वारकरी द्वारधात्री दोषमात्रविवर्जिता ।
दोषाकरा दोषहरा दोषराशिविनाशिनी ॥ १९० ॥
दोषाकरविभूषाढ्या दोषाकरकपलिनी ।
दोषाकरसहस्त्राभा दोषाकरसमानना ॥ १९१ ॥
दोषाकरमुखी दिव्या दोषाकरकराग्रजा ।
दोषाकरसमज्योतिर्दोषाकरसुशीतला ॥ १९२ ॥
दोषाकरश्रेणी दोषसदृशापाङ्गवीक्षणा ।
दोषाकरेष्टदेवी च दोषाकरनिषेविता ॥ १९३ ॥
दोषाकरप्राणरूपा दोषाकरमरीचिका ।
दोषाकरोल्लसद्भाला दोषाकरसुहर्षिणी ॥ १९४ ॥
दोषकरशिरोभूषा दोषकरवधूप्रिया ।
दोषाकरवधूप्राणा दोषाकरवधूमता ॥ १९५ ॥
दोषाकरवधूप्रीता दोषाकरवधूरपि ।
दोषापूज्या तथा दोषापूजिता दोषहारिणी ॥ १९६ ॥
दोषाजापमहानन्दा दोषाजपपरायणा ।
दोषापुरश्चाररता दोषापूजकपुत्रिणी ॥ १९७ ॥
दोषापूजकवात्सल्यकरिणी जगदम्बिका ।
दोषापूजकवैरिघ्नी दोषापूजकविघ्नह्रत् ॥ १९८ ॥
दोषापूजकसंतुष्टा दोषापूजकमुक्तिदा ।
दमप्रसूनसम्पूज्या दमपुष्पप्रिया सदा ॥ १९९ ॥
दुर्योधनप्रपूज्या च दु:शसनसमर्चिता ।
दण्डपाणिप्रिया दण्डपाणिमाता दयानिधि: ॥ २०० ॥
दण्डपाणिसमाराध्या दण्डपाणिप्रपूजिता ।
दण्डपाणिगृहासक्ता दण्डपाणिप्रियंवदा ॥ २०१ ॥
दण्डपाणिप्रियतमा दण्डपाणिमनोहरा ।
दण्डपाणिह्रतप्राणा दण्डपाणिसुसिद्धिदा ॥ २०२ ॥
दण्डपाणिपरामृष्टा दण्डपाणिप्रहर्षिता ।
दण्डपाणिविघ्नहरा दण्डपाणिशिरोधृता ॥ २०३ ॥
दण्डपाणिप्राप्तचर्या दण्डपाण्युन्मुखि सदा ।
दण्डपाणिप्राप्तपदा दण्डपाणिवरोन्मुखी ॥ २०४ ॥
दण्डहस्ता दण्डपाणिर्द्ण्डबाहुर्दरान्तकृत् ।
दण्डदोष्का दण्डकरा दण्डचित्तकृतास्पदा ॥ २०५ ॥
दण्डिविद्या दण्डिमाता दण्डिखण्डकनाशिनी ।
दण्डिप्रिया दण्डिपूज्या दण्डिसंतोषदायिनी ॥ २०६ ॥
दस्युपूज्या दस्युरता दस्युद्रविणदायिनी ।
दस्युवर्गकृतार्हा च दस्युवर्गविनाशिनी ॥ २०७ ॥
दस्युनिर्णाशिनी दस्युकुलनिर्णाशिनी तथा ।
दस्युप्रियकरी दस्युनृत्यदर्शनतत्परा ॥ २०८ ॥
दुष्टदण्डकरी दुष्टवर्गविद्राविणी तथा ।
दुष्टवर्गनिग्रहार्हा दूशकप्राणनाशिनी ॥ २०९ ॥
दूषकोत्तापजननी दूषकारिष्टकारिणी ।
दूषकद्वेषणकरी दाहिका दहनात्मिका ॥ २१० ॥
दारुकारिनिहन्त्री च दारुकेश्वरपूजिता ।
दारुकेश्वरमाता च दारुकेश्वरवन्दिता ॥ २११ ॥
दर्भहस्ता दर्भयुता दर्भकर्मविवर्जिता ।
दर्भमयी दर्भतनुर्दर्भसर्वस्वरूपिणी ॥ २१२ ॥
दर्भकर्माचाररता दर्भहस्तकृतार्हणा ।
दर्भानुकूला दाम्भर्या दर्वीपात्रानुदामिनी ॥ २१३ ॥
दमघोषप्रपूज्या च दमघोषवरप्रदा ।
दमघोषसमाराध्या दावाग्निरूपिणी तथा ॥ २१४ ॥
दावाग्निरूपा दावाग्निनिर्णाशितमहाबला ।
दन्तदंष्ट्रासुरकला दन्तचर्चितहस्तिका ॥ २१५ ॥
दन्तदंष्ट्रस्यन्दन च दन्तनिर्णाशितासुरा ।
दधिपूज्या दधिप्रीता दधीचिवरदायिनी ॥ २१६ ॥
दधीचीष्टदेवता च दधीचिमोक्षदायिनी ।
दधीचिदैन्यहन्त्री च दधीचिदरदारिणी ॥ २१७ ॥
दधीचिभक्तिसुखिनी दधीचिमुनिसेविता ।
दधीचिज्ञानदात्री च दधीचिगुणदायिनी ॥ २१८ ॥
दधीचिकुलसम्भूषा दधीचिभुक्तिमुक्तिदा ।
दधीचिकुलदेवी च दधीचिकुलदेवता ॥ २१९ ॥
दधीचिकुलगम्या च दधीचिकुलपूजिता ।
दधीचिसुखदात्री च दधीचिदैन्यहारिणी ॥ २२० ॥
दधीचिदु:खहन्त्री च दधीचिकुलसुन्दरी ।
दधीचिकुलसम्भूता दधीचिकुलपालिनी ॥ २२१ ॥
दधीचिदानगम्या च दधीचिदानमानिनी ।
दधीचिदानसंतुष्टा दधीचिदानदेवता ॥ २२२ ॥
दधीचिजयसम्प्रीता दधीचिजपमानसा ।
दधीचिजपपूजाढ्या दधीचिजपमालिका ॥ २२३ ॥
दधीचिजपसंतुष्टा दधीचिजपतोषिणी ।
दधीचितपसाराध्या दधीचिशुभदायिनी ॥ २२४ ॥
दूर्वा दूर्वादलश्यामा दुर्वादलसमद्युति: ॥ २२५ ॥
॥ फलश्रुति: ॥
नाम्नां सहस्त्रं दुर्गाया दादीनामिति कीर्तितम् ।
य: पठेत् साधकाधीश: सर्वसिद्धिर्लभत्तु स: ।
प्रातर्मध्याह्नकाले च संध्यायां नियत: शुचि: ॥ २२६ ॥
तथाऽर्धरात्रसमये स महेश इवापर: ।
शक्तियुक्तो महारात्रौ महावीर: प्रपूजयेत् ॥ २२७ ॥
महादेवीं मकाराद्यै: पञ्चभिर्द्रव्यसत्तमै: ।
य: सम्पठेत् स्तुतिमिमां स च सिद्धिस्वरूपधृक् ॥ २२८ ॥
देवालये श्मशाने च गङ्गातीरे निजे गृहे ।
वाराङ्गनागृहे चैव श्रीगुरो: संनिधावपि ॥ २२९ ॥
पर्वते प्रान्तरे घोरे स्तोत्रमेतत् सदा पठेत् ।
दुर्गानामसहस्त्रं हि दुर्गां पश्यति चक्षुषा ॥ २३० ॥
शतावर्तनमेतस्य पुरश्चरणमुच्यते ॥ २३१ ॥
॥ इति कुलार्णवतन्त्रोक्तं दकारादि श्रीदुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥