श्री सीता सहस्त्रनामस्तोत्रम्
ध्यानम्
सकलकुशलदात्रीं भक्तिमुक्तिप्रदात्रीं
त्रिभुवनजनयित्रीं दुष्टधीनाशयित्रीम् ।
जनकधरणिपुत्रीं दर्पिदर्पप्रहर्त्रीं
हरिहरविधिकर्त्रीं नौमि सद्भक्तभर्त्रीम् ॥
ब्रह्मणो वचनं श्रुत्वा रामः कमललोचनः ।
प्रोन्मील्य शनकैरक्षि वेपमानो महाभुजः ॥१॥
प्रणम्य शिरसा भूमौ तेजसा चापि विह्वलः ।
भीतः कृताञ्जलिपुटः प्रोवाच परमेश्वरीम् ॥२॥
का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वां महादेवि यथावद् ब्रूहि पृच्छते ॥३॥
रामस्यं वचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार रघुश्रेष्ठं योगिनामभयप्रदा ॥४॥
मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥५॥
अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।
शाश्वती सर्वविज्ञाना सर्वमूर्तिप्रवर्तिका ॥६॥
अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे पदमैश्वरम् ॥७॥
इत्युक्त्वा विररामैषा रामोऽपश्यच्च तत्पदम् ।
कोटिसूर्यप्रतीकाशं विष्वक्तेजो निराकुलम् ॥८॥
ज्वालावलीसहस्त्राढ्यं कालानलशतोपमम् ।
दंष्ट्राकरालदुर्धर्षं जटामण्डलमण्डितम् ॥९॥
त्रिशूलवरहस्तं च घोररूपं भयावहम् ।
प्रशाम्यत्सौम्यवदनमनन्तैश्वर्यसंयुतम् ॥१०॥
चन्द्रावयवलक्ष्माढ्यं चन्द्रकोटिसमप्रभम् ।
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ॥११॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
शङ्खचक्रकरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥१२॥
अन्तःस्थं चाण्डबाह्यस्थं बाह्मभ्यन्तरतः परम् ।
सर्वशक्तिमयं शान्तं सर्वाकारं सनातनम् ॥१३॥
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैरीड्यमानपदाम्बुजम् ।
सर्वतःपाणिपादं तस्तर्वतोऽक्षिशिरोमुखम् ॥१४॥
सर्वमावृत्य तिष्ठन्तं ददर्श पदमैश्वरम् ।
दृष्ट्वा च तादृशं रूपं दिव्यं माहेश्वरं पदम् ॥१५॥
तयैव च समाविष्टः स रामो हृतमानसः ।
आत्मन्याधाय चात्मानमोंकारं समनुस्मरन् ॥१६॥
नाम्नामष्टसहस्त्रेण तुष्टाव परमेश्वरीम् ।
॥ स्तोत्रम् ॥
सीतोमा परमा शक्तिरनन्ता निष्कलामला ॥१७॥
शान्ता महेश्वरी नित्या शाश्वती परमाक्षरा ।
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ॥१८॥
अनादिरव्यया शुद्धा देवात्मा सर्वगोचरा ।
एकानेकविभागस्था मायातीता सुनिर्मला ॥१९॥
महामाहेश्वरी शक्ता महादेवी निरञ्जना ।
काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ॥२०॥
जानकी मिथिलानन्दा राक्षसान्तविधायिनी ।
रावणान्तकरी रम्या रामवक्षःस्थलाश्रया ॥२१॥
उमा सर्वात्मिका विद्या ज्योतीरूपायुताक्षरी ।
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ॥२२॥
व्योममूर्तिर्व्योममयी व्योमाधाराच्युता लता ।
अनादिनिधना योषा कारणात्मा कलाकुला ॥२३॥
नन्दप्रथमजा नाभिरमृतस्यान्तसंश्रया ।
प्राणेश्वरप्रिया माता महामहिषवाहना ॥२४॥
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ।
सर्वशक्तिःकला काष्ठा ज्योत्स्नेन्दोर्महिमास्पदा ॥२५॥
सर्वकार्यनियन्त्री च सर्वभुतेश्वरेश्वरी ।
अनादिरव्यक्तगुणा महानन्दा सनातनी ॥२६॥
आकाशयोनिर्योगस्था सर्वयोगेश्वरेश्वरी ।
शवासना चितान्तःस्था महेशवृषवाहना ॥२७॥
बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।
महामाया सुदुष्पूरा मूलप्रक्रुतिरीश्वरी ॥२८॥
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारसारा दुर्वारा दुर्निरीक्ष्या दुरासदा ॥२९॥
प्राणशक्तिः प्राणविद्या योगिनी परमा कला ।
महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ॥३०॥
अनाद्यनन्तविभवा परात्मा पुरुषो बली ।
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ॥३१॥
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥३२॥
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ।
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥३३॥
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ।
व्यापिनी चानवच्छिन्ना प्रधाना सुप्रवेशिनी ॥३४॥
क्षेत्रज्ञा शक्तिरव्यक्तलक्षणा मलवर्जिता ।
अनादिमायासम्भिन्ना त्रितत्त्वा प्रकृतिर्गुणा ॥३५॥
माहामाया समुत्पन्ना तामसी पौरुषी ध्रुवा ।
व्यक्ताव्यक्तात्मिका कृष्णरक्तशुक्लप्रसूतिका ॥३६॥
स्वकार्या कार्यजननी ब्रह्मास्या ब्रह्मसंश्रया ।
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥३७॥
वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ॥३८॥
सुखदा शुभदा सत्या शुभा संक्षोभकारिणी ।
अपांयोनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥३९॥
ईश्वराणी च शर्वाणी शंकरार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥४०॥
माहेश्वरी समुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववर्णा नित्या मुदितमानसा ॥४१॥
ब्रह्मोन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी ।
ईश्वरार्धासनगता रघुत्तमपतिव्रता ॥४२॥
सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥४३॥
गुणाढ्या योगदा योग्या ज्ञानमूर्तिविकासिनी ।
सावित्री कमला लक्ष्मीः श्रीरनन्तोरसिस्थिता ॥४४॥
सरोजनिलया शुभ्रा योगनिद्रा सुदर्शना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥४५॥
वासवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
वागीश्वरी सर्वविद्या महाविद्या सुशोभना ॥४६॥
गुह्याविद्याऽऽत्मविद्या च सर्वविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरी सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥४७॥
नाभिः सुनाभिः सुकृतिर्माधवी नरवाहिनी ।
पूज्या विभावरी सौम्या भगिनी भोगदायिनी ॥४८॥
शोभा वंशकरी लीला मानिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारणी ॥४९॥
महानुभावमध्यस्था महामहिषमर्दिनी ।
पद्ममाला पापहरा विचित्रमुकुटानना ॥५०॥
कान्ता चित्राम्बरधरा दिव्याभरणभूषिता ।
हंसाख्या व्योमनिलया जनसृष्टिविवार्धिनी ॥५१॥
निर्यान्त्रा मन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवावाहिनी ॥५२॥
वृषासनगता गौरी महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥५३॥
विरूपाक्षी लेलिहाना महासुरविनाशिनी ।
महाफलानवद्याङ्गी कामपुरा विभावरी ॥५४॥
विचित्ररत्नमुकुटा प्रणतर्द्धिविवर्धिनी ।
कौशिकी कर्षिणी रात्रिस्त्रिदशार्तिविनाशिनी ॥५५॥
विरूपा च सुरूपा च भीमा मोक्षप्रदायिनी ।
भक्तार्तिनाशिनी भव्या भवभावविनाशिनी ॥५६॥
निर्गुणा नित्यविभवा निःसारा निरपत्रपा ।
यशस्विनी सामगतिर्भवाङ्गनिलयालया ॥५७॥
दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वशक्तिप्रदायिनी ॥५८॥
सर्वेश्वरप्रिया तार्क्षी समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया ॥५९॥
कामधेनुर्वेदगर्भा धीमती मोहनाशिनी ।
निःसंकल्पा निरातङ्का विनया विनयप्रदा ॥६०॥
ज्वाला माला सहस्त्राढ्या देवदेवी मनोन्मनी ।
उर्वी गुर्वी गुरुश्रेष्ठा सुगुणा षड्गुणात्मिका ॥६१॥
महाभगवती भव्या वसुदेवसमुद्भवा ।
महेन्द्रोपेन्द्रभगिनी भक्तिगम्यपरायणा ॥६२॥
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ।
दक्षिणा दहना वाह्या सर्वभूतनमस्कृता ॥६३॥
योगमाया विभावज्ञा महामोहा महीयसी ।
सत्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रया मतिः ॥६४॥
बीजांकुरसमुद्भतिर्महाशक्तिर्महामतिः ।
ख्यातिः प्रतिज्ञा चित्संविन्महायोगेन्द्रशायिनी ॥६५॥
विकृतिः शांकरी शास्त्री यक्षगन्धर्वसेविता ।
वैश्वानरी महाशाला देवसेना गुहप्रिया ॥६६॥
महारात्रिः शिवानन्दा शची दुःखप्ननाशिनी ।
पूज्याऽऽपुज्या जगद्धात्री दुर्विज्ञेयस्वरूपिणी ॥६७॥
गुहाम्बिका गुहोत्पत्तिर्महापीठा मरुत्सुता ।
हव्यवाहान्तरा गार्गी हव्यवाहसमुद्भवा ॥६८॥
जगद्योनिर्जगन्माता जगन्मृत्युर्जरातिगा ।
बुद्धिर्माता बुद्धिमती पुरुषान्तरवासिनी ॥६९॥
तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ।
सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥७०॥
संसारतारिणी विद्या ब्रह्मवादिमनोलया ।
ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भयावनिः ॥७१॥
हिरण्मयी महारात्रीः संसारपरिवर्तिका ।
सुमालिनी सुरूपा च तारिणी भाविनी प्रभा ॥७२॥
उन्मीलिनी सर्वसहा सर्वप्रत्ययसाक्षिणी ।
तपिनी तापिनी विश्वा भोगदा धारिणी धरा ॥७३॥
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥७४॥
जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
निराश्रया निराहारा निरंकुशरणोद्भवा ॥७५॥
चक्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी ।
परापरविधानज्ञा महापुरुषपूर्वजा ॥७६॥
विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्त्राक्षी सहस्त्रश्रवणात्मजा ॥७७॥
सहस्त्ररश्मिपद्मस्था महेश्वरपदाश्रया ।
ज्वालिनी सद्मना व्याप्ता तेजसी पद्मरोधिका ॥७८॥
महादेवाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीः सिंहरथा चेकितान्यमितप्रभा ॥७९॥
विश्वेश्वरी विमानस्था विशोका शोकनाशिनी ।
अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥८०॥
शतानन्दा सतां कीर्तिः सर्वभूताशयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलावती ॥८१॥
ब्रह्मर्षिर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्जनशक्तिः परागतिः ॥८२॥
क्षोभिका रौद्रिकाभेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वंशिनी वंशहारिणी ॥८३॥
गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नी सकला कालकारिणी ॥८४॥
सर्ववित् सर्वतोभद्रा गुह्यातीता गुहावलिः ।
प्रक्रिया योगमाता च गन्धा विश्वेश्वरेश्वरी ॥८५॥
कपिला कपिलाकन्ता कनकाभा कलान्तरा ।
पुण्या पुष्करिणी भोक्त्नी पुरंदरपुरःसरा ॥८६॥
पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्जब्रह्मसमुत्पत्तिः परमात्माऽऽत्मविग्रहा ॥८७॥
नर्मोदया भानुमती योगिज्ञेया मनोजवा ।
बीजरूपा रजोरूपा वशिनी योगरूपिणी ॥८८॥
सुमन्त्रा मन्त्रिणी पूर्णा ह्लादिनी क्लेशनाशिनी ।
मनोहरा मनोरक्षी तापसी वेदरूपिणी ॥८९॥
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माला महाशक्तिर्मनोमयी ॥९०॥
विश्वावस्था वीरमुक्तिर्विद्युन्माला विहायसी ।
पीवरी सुरभी वन्द्या नन्दिनी नन्दवल्लभा ॥९१॥
भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥९२॥
अचिन्त्या चिन्त्यमहिमा दुर्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥९३॥
त्रिविक्रमपदोद्भूता धनुष्पाणिः शिरोहया ।
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥९४॥
भ्रान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता परा माता रणप्रिया ॥९५॥
सत्क्रिया गिरिजा नित्यशुद्धा पुष्पनिरन्तरा ।
दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा ॥९६॥
हिरण्यवर्णा रजनी जगन्मन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥९७॥
रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।
पद्मासना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥९८॥
धुन्वती दुष्प्रकम्पा च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी माया वरेण्या वरदर्पिता ॥९९॥
कल्याणी कमला रामा पञ्चभूतवरप्रदा ।
वाच्या परेश्वरी नन्द्या दुर्जया दुरतिक्रमा ॥१००॥
कालरात्रिर्महावेगा वीरभद्रहितप्रिया ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥१०१॥
कराला पिङ्गलाकारा सामवेदा महानदा ।
तपस्विनी यशोदा च यथाध्वपरिवर्तिनी ॥१०२॥
शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ।
चैत्री संवत्सरा रुद्रा जगत्सम्पूरणीन्दजा ॥१०३॥
शुम्भारिः खेचरी खस्था कम्बुग्रीवा कलिप्रिया ।
खरध्वजा खरारूढा परार्ध्या परमालिनी ॥१०४॥
ऐश्वर्यरत्ननिलया विरक्ता गरुडासन ।
जयन्ती हृद्गहा रम्या सत्त्ववेगा गणाग्रणीः ॥१०५॥
संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥१०६॥
नित्यदृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवामृता ॥१०७॥
लोहिता सर्वमाता च भीषणा वनमालिनी ।
अनन्तशयनानाद्या नरनारायणोद्भवा ॥१०८॥
नृसिंही दैत्यमथिनी शङ्खचक्रगदाधरा ।
संकर्षणसमुत्पत्तिरम्बिकोपान्तसंश्रया ॥१०९॥
महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुतरां गौरी धर्मकामार्थमोक्षदा ॥११०॥
भ्रूमध्यनिलयापूर्वा प्रधानपुरुषा बली ।
महाविभूतिदा मध्या सरोजनयनासना ॥१११॥
अष्टादशभुजा नाट्या नीलोत्पलदलप्रभा ।
सर्वशक्त्या समारूढा धर्माधर्मानुवर्जिता ॥११२॥
वैराग्यज्ञाननिरता निरलोका निरिन्द्रिया ।
विचित्रगहना धीरा शाश्वतस्थानवासिनी ॥११३॥
स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
अशेषदेवतामूर्तिर्देवता परदेवता ॥११४॥
गणात्मिका गिरेःपुत्री निशुम्भविनिपातिनी ।
अवर्णा वर्णरहिता निर्वर्णा बीजसम्भवा ॥११५॥
अनन्तवर्णानन्यस्था शंकरी शान्तमानसा ।
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणान्तरा ॥११६॥
गोश्रीर्गव्यप्रिया गौरी गणेश्वरनमस्कृता ।
सत्यमात्रा सत्यसंध्या त्रिसंध्या संधिवर्जिता ॥११७॥
सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ।
असंख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ॥११८॥
विन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ।
विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ॥११९॥
महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ॥१२०॥
शान्त्यतीता मलातीता निर्विकारा निराश्रया ।
शिवाख्या चित्रनिलया शिवज्ञानस्वरूपिणी ॥१२१॥
दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ।
शास्त्रयोनिः प्रियामूर्तिश्चतुर्वर्गप्रदर्शिता ॥१२२॥
नारायणी नवोद्भूता कौमुदी लिङ्गधारिणी ।
कामुकी ललिता तारा परापरविभूतिदा ॥१२३॥
परान्तजातमहिमा वडवा वामलोचना ।
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ॥१२४॥
मनस्विनी मन्युमाता महामन्युसमुद्भवा ।
अमृत्युरमृतास्वादा पुरुहूता पुरुप्लुता ॥१२५॥
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ।
हिरण्या राजती हैमी हेमाभरणभूषिता ॥१२६॥
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ।
महानिद्रासमुद्भूता बलीन्द्रा सत्यदेवता ॥१२७॥
दीर्घा ककुद्मिनी विद्या शान्तिदा शान्तिवर्धिनी ।
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ॥१२८॥
त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ।
स्वाहा च कर्मकरणी युगान्तदलनात्मिका ॥१२९॥
संकर्षणा जगद्धात्री कामयोनिः किरीटिनी ।
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ॥१३०॥
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ।
महोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ॥१३१॥
वृषावेशा वियन्मात्रा विन्ध्यपर्वतवासिनी ।
हिमवन्मेरुनिलया कैलासगिरिवासिनी ॥१३२॥
चाणूरहन्त्री तनया नीतिज्ञा कामरूपिणी ।
वेदाविद्याव्रतरता धर्मशीलानिलाशना ॥१३३॥
अयोध्यानिलया वीरा महाकालसमुद्भवा ।
विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ॥१३४॥
आप्यायन्ती वहन्ती च पावनी पोषणी खिला ।
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ॥१३५॥
करीषिणी स्वधा वाणी वीणावादनतत्परा ।
सेविता सेविका सेवा सिनीवाली गुरुत्मती ॥१३६॥
अरुन्धती हिरण्याक्षी मणिदा श्रीवसुप्रदा ।
वसुमती वसोर्धारा वसुन्धरासमुद्भवा ॥१३७॥
वरारोहा वरार्हा चावपुःसङ्गसमद्भवा ।
श्रीफल श्रीमती श्रीशा श्रीनिवासा हरिप्रिया ॥१३८॥
श्रीधरी श्रीकरी कम्प्रा श्रीधरा ईशवीरणी ।
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ॥१३९॥
निहन्त्री दैत्यसिंहानां सिंहिका सिंहवाहिणी ।
सुसेना चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ॥१४०॥
बलज्ञा बलदा वामा लेलिहानामृतस्त्रवा ।
नित्योदिता स्वयंज्योतिरुत्सुकामृतजीविनी ॥१४१॥
वज्रदंष्ट्रा वज्रजिह्वा वैदेही वज्रविग्रहा ।
मङ्गल्या मङ्गला माला मलिना मलहारिणी ॥१४२॥
गान्धर्वी गारुडी चान्द्री कम्बलाश्वतप्रिया ।
सौदामनी जनानन्दा भ्रुकुटीकुटिलानना ॥१४३॥
कर्णिकारकरा कक्षा कंसप्राणापहारिणी ।
युगंधरा युगावर्ता त्रिसंध्या हर्षवर्धिनी ॥१४४॥
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ।
शक्रासनगता शाक्री साध्वी नारी शवासना ॥१४५॥
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ।
शतरूपा शतावर्ता विनीता सुरभिः सुरा ॥१४६॥
सुरेन्द्रमाता सुद्युम्ना सुषुम्णा सूर्यसंस्थिता ।
समीक्षा सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ॥१४७॥
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ।
धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ॥१४८॥
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ।
धर्मान्तरा धर्ममध्या धर्मपूर्वा धनप्रिया ॥१४९॥
धर्मोपदेशा धर्मात्मा धर्मलभ्या धराधरा ।
कपाली शाकलामूर्तिः कलाकलितविग्रहा ॥१५०॥
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ।
सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी ॥१५१॥
प्रधानपुरुषेशानी महापुरुषसाक्षिणी ।
सदाशिव वियन्मूर्तिर्देवमूर्तिरमूर्तिका ॥१५२॥
फलश्रुतिः
एवं नाम्नां सहस्त्रेण तुष्टाव रघुनन्दनः ।
कृताञ्जलिपुटो भूत्वा सीतां हृष्टतनूरुहाम् ॥१५३॥
भारद्वाज महाभाग यश्चैतत् स्तोत्रमद्भतम् ।
पठेद्वा पाठयेद्वापि स याति परमं परम् ॥१५४॥
ब्रह्मक्षत्रियविड्योनिर्ब्रह्म प्रोप्नोति शाश्वतम् ।
शूद्रः सद्गतिमाप्नोति धनधान्यविभूतयः ॥१५५॥
भवन्ति स्तोत्रमाहात्म्यादेतत् स्वस्त्ययनं महत् ।
मारीभये राजभये तथा चौराग्निजे भये ॥१५६॥
व्याधीनां प्रभवे घोरे शत्रूत्थाने च संकटे ।
अनावृष्टिभये विप्र सर्वशान्तिकरं परम् ॥१५७॥
यद्यदिष्टतमं यस्य तत्सर्वं स्तोत्रतो भवेत् ।
यत्रैतत् पठ्यते सम्यक् सीतानामसहस्त्रकम् ॥१५८॥
रामेण सहिता देवी तत्र तिष्ठत्यसंशयम् ।
महापापातिपापानि विलयं यान्ति सुव्रत ॥१५९॥
॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे श्रीसीतासहस्त्रनामस्तोत्रं सम्पूर्णम् ॥