शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥
न नाकपृष्ठं न च पारमेष्ठयं न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङेक्ष ॥२॥
अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥३॥
यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्नस्मन्मनोरथपथः सकलः समेति ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत्
पादारविन्दमरविन्दविलोचनस्य ॥४॥
तत्त्वेन यस्य महिमार्णवशीकराणुः
शक्यो न मातुमपि सर्वपितामहाद्यैः ।
कर्तुं तदीयमहिमस्तुतिमुद्यताय
मह्यं नमोऽस्तु कवये निरपत्रपाय ॥५॥
यद्वा श्रमावधि यथामति वाप्यशक्तः
स्तौ म्येवमेव खलु तेऽपि सदा स्तुवन्तः ।
वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः
को मज्ज्तोरणुकुलाचलयोर्विशेषः ॥६॥
किञ्चैष शक्तयतिशयेन न तेऽनुकम्प्यः
स्तोतापि तु स्तुतिकृतेन परिश्रमेण ।
तत्र श्रमस्तु सुलभो मम मन्दबुद्धेरित्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥७॥
नावेक्षसे यदि ततो भुवनान्यमूनि
नालं प्रभो भवितुमेव कुतः प्रवृत्तिः ।
एवं निसर्गसुहृदि त्वयि सर्वजन्तोः
स्वामिन्न चित्रमिदमाश्रितवत्सलत्वम् ॥८॥
स्वाभाविकानवधिकातिशयेशितृत्वं
नारायण त्वयि न मृष्यति वैदिकःकः ।
ब्रह्मा शिवः शतमखः परमः स्वराडित्येतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥९॥
कः श्री श्रियः परमसत्त्वसमाश्रयः कः
कः पुण्डरीकनयनः पुरुषोत्तमः कः ।
कस्यायुतायुतशतैककलांशकांशे
विश्वं विचित्रचिदचित्प्रविभागवृत्तम् ॥१०॥
वेदापहारगुरुपातकदैत्यपीडा द्यापद्विमोचनमहिष्ठफलप्रदानैः ।
कोऽन्यः प्राजपशुपती परिपाति कस्य
पादोदकेन स शिवः स्वशिरोधृतेन ॥११॥
कस्योदरे हरविरिञ्चमुखप्रपञ्चः
को रक्षतीममजनिष्ट च कस्य नाभेः ।
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः
कः केन चैष परवानिति शक्यशङकः ॥१२॥
त्वां शीलरुपचरितैः परमप्रकृष्टसत्त्वेन
सात्त्विकतया प्रबलैश्च शास्त्रैः ।
प्रख्यातदैवपरमार्थविदां मतैश्च
नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥१३॥
उल्लङ्घितत्रिविधसीमसमातिशायि सम्भावनं तव परिव्रढिमस्वभावम् ।
मायाबलेन भवतापि निगुह्यमानं
पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥१४॥
यदण्डमण्डान्तरगोचरञ्च यद्दशोत्तराण्यावरणानि यानि च ।
गुणाः प्रधानं पुरुषः परम्पदं परात्परं ब्रह्म च ते विभूतयः ॥१५॥
वशी वदान्यो गुणवानृजुः शुचिर्मृदुर्दयालुर्मधुरः स्थिरः समः ।
कृती कृतज्ञस्वमसि स्वभावतः समस्तकल्याणगुणामृतोदधिः
उपर्य्युपर्यब्जभुवोऽपि पूरुषान् प्रकल्प्य ते ये शतमित्यनुक्रमात् ।
गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते
त्वदाश्रितानां जगदुद्भवस्थितिप्रणाशसंसारविमोचनादयः ।
भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीर मनोऽनुसारिणः
नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।
नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे
न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिः शरण्यंत्वत्पादमूलं शरणं प्रपद्ये ॥२०॥
न निन्दितं कर्म तदस्ति लोके सहस्त्रशो यन्न मया व्यधायि ।
सोऽहं विपाकावसरे मुकुन्द क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥२१॥
निमज्ज्तोऽनन्तभवार्णवान्तश्चिराय मे कूलमिवासि लब्धः ।
त्वयापि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः ॥२२॥
अभूतपूर्वं मम भावि किंवा सर्वं सहे मे सहजं हि दुःखम् ।
किन्तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरुपः ॥२३॥
निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङकजम् ।
रुषा निरस्तोऽपि शिशुःस्तनन्धयो न जातु मातुश्चरणौ जिहासति
तवामृतस्यन्दिनि पादपङकजे निवेशितात्मा कथमन्यदिच्छति ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥२५॥
त्वदङ्घ्रिमुद्दिश्य कदापि केनचिद्यथा तथा वापि सकृत्कृतोऽञ्जलिः
तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते
उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥
विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् ।
धनं मदीयं तव पादपङकजं कदा नु साक्षात्करवाणि चक्षुषा ॥
कदा पुनः शङखरथाङगकल्पकध्व जारविन्दाङ्कुशवज्रलाञ्छनम् ।
त्रिविक्रमत्वच्चरणाम्बुजद्वयं मदीयमूर्द्धानमलङकरिष्यति ॥२९॥
विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षः स्थलशोभिलक्षणम् ॥
चक्रासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः ।
प्रियावतंसोत्पलकर्ण भूषणश्लथालकाबन्धविमर्दशंसिभिः ॥३१॥
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुविम्बाम्बुरुहोज्ज्वलश्रियम्
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् ।
शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥
स्फुरत्किरीटाङगधारकण्ठिकामणीन्द्रकाञ्चीगुणनू पुरादिभिः ।
रथाङगशङखासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम् ॥
चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समग्रं यदपाङगसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ।
स्ववैश्वरुप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया ।
गुणेन रुपेण विलासचेष्टितैः सदा तवैवोचितया तव श्रिया ॥३६॥
तया सहसीन मनन्त भोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिव्रातमयूखमण्डल प्रकाशमानोदरदिव्यधामनि ॥३७॥
निवासशय्यासनपादुकांशुकोपधानवर्षात पवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीरिते जनैः ॥३८॥
दासः सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसंमर्द्दकिणाङकशोभिना
त्वदीयभुक्तोज्झितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना निवेदितं तथानुजानन्तमुदारवीक्षणैः ॥४०॥
हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः ।
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितम् ॥
अपूर्वनानारसभावनिर्भरप्रबुद्धया मुग्धविदग्धलीलया ।
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थमापत्सखमर्थिकल्पकम् ।
भवन्तमेवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।
कदाहमैकान्तिकनित्यकिङकरः प्रहर्षयिष्यामि सनाथजीवितम्
धिगशुचिमविनीतं निर्दयं मामलज्जं
परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।
विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं
तव परिजनभावं कामये कामवृत्तः ॥४५॥
अपराधसहस्त्रभाजनं पतितं भीमभवार्णवोदरे ।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥४६॥
अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।
भगवन् भवदुर्दिने पथः स्खलितं मामवलोकयाच्युत ॥४७॥
न मृषा परमार्थमेव मे श्रृणु विज्ञापनमेकमग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥४८॥
तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च ।
विधिनिर्मितमेतदन्वयं भगवन् पालय मा स्म जीहपः ॥४९॥
वपुरादिषु योऽपि कोऽपि गुणतोऽसानि यथातथाविधः ।
तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ॥५०॥
मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव ।
नियतस्वमिति प्रबुद्धधीरथवा किन्नु समर्पयामि ते ॥५१॥
अवबोधितवानिमा यथा मय नित्यां भवदीयतां स्वयम् ।
कृपयैवमनन्यभोग्यतां भगवन् भक्तिमपि प्रयच्छ मे ॥५२॥
तव दास्यसुखैकसङगिनां भवनेष्वस्त्वपि कीटजन्म मे ।
इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना ॥५३॥
सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः
न देहं न प्राणान्न च सुखमशेषाभिलषितं
न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।
बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा
विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम् ॥५५॥
दुरन्तस्यानादेरपरिहरणीयस्य महतो
विहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे
तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥५६॥
अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजस्तमश्छन्नश्छद्मस्तुतिवचनभङगीमरचयम् ।
तथापीत्थं रुपं वचनमवलम्ब्यापि कृपया
त्वमेवैवंभूतं धरणिधर मे शिक्षय मनः ॥५७॥
पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्त्वमेव
त्वं मित्रं गुरुरपि गतिश्चासि जगताम् ।
त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं
प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः ॥५८॥
अमर्यादः क्षुद्रश्चलमतिरसूयाप्रभवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधे-
रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥५९॥
रघुवर यदभूस्त्वं तादृशो वायसस्य
प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।
प्रतिभवमपराद्धुर्मुग्ध सायुज्यदोऽभूर्वद
किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥६०॥
ननु प्रपन्नः सकृदेव नाथ तवाहमस्मीति च याचमानः ।
तवानुकम्प्यः स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते ॥६१॥
(४ संख्यात आरभ्य ६१ संख्यापर्यन्तं सर्वं श्रीमद्यामुनाचार्यस्वामिप्रणीतालवन्दारस्तोत्रात् )
विपदो नैव विपदः सम्पदो नैव स्मपदः ।
विपद्विस्मरणं विष्णोः सम्पन्नारायणस्मृतिः ॥६२॥
मधुमर्दि महन्मञ्जु मन्द्यं मतिमतामहम् ।
मन्येऽमलमदोऽमन्दमहिम श्यामलं महः ॥६३॥
नारायणो नाम नरो नराणां प्रसिद्धचौरः कथितः पृथिव्याम् ।
अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मरतां सदैव ॥
मेघश्यामं पीतकौशेयवासं श्रीवत्साङंक कौस्तुभोद्भासिताङगम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥६५॥
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढास्तु मे ॥६६॥
आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु व्याघ्रादिषु वर्तमानाः ।
सङकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥६७॥
अहं तु नारायणदासदासदासस्य दासस्य च दासदासः ।
अन्येभ्य ईशो जगतो नराणामस्मादहं चान्यतरोऽस्मि लोके ॥६८॥
ये ये हताश्चक्रधरेण राजंस्त्रैलोक्यनाथेन जनार्दनेन ।
ते ते गता विष्णुपुरीं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः ॥६९॥
मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥७०॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥७१॥
तत्रैव गङगा यमुना च वेणी गोदावरी सिन्धुसरस्वती च ।
सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङगः ॥७२॥
नाथ योनिसहस्त्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वचला भक्तिरच्युतास्तु सदा त्वयि ॥७३॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥७४॥
नित्योत्सवस्तदा तेषां नित्यश्रीर्नित्यमङगलम् ।
येषां हृदिस्थो भगवान्मङगलायतनं हरिः ॥७५॥
नमामि नारायणपादपङकजं करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥७६॥
नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी ।
तथापि नरके घोरे पतन्तीत्येतदद्भुतम् ॥७७॥
आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥७८॥
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥७९॥
(६४ संख्यात आरभ्य ७९ संख्यापर्यन्तं श्रीपाण्डवगीतायाम् )
श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासे-
त्यालापिनं प्रतिदिनं कुरु मां मुकुन्द ॥८०॥
नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥८१॥
नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन्पूर्वकर्मानुरुपम् ।
एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥८२॥
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥८३॥
भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥८४॥
तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दारावर्ते तनयसहजग्राहसङघाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादाम्भोजे वरद भवतो भक्तिभाव्म प्रदेहि ॥८५॥
आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं
मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणः ॥८६॥
भवजलधिगतानां द्वन्द्ववाताहतानां
सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां
भवतु शरणमेको विष्णुपोतो नराणाम् ॥८७॥
आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति ।
वक्तुं समर्थोऽपिन वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥८८॥
क्षीरसागरतरङगसीकरासारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥८९॥
प्रभो वेङकटेश प्रभा भूयसी ते तमः संछिनत्ति प्रदेशे ह्यशेषे ।
अहो मे हृदद्रेर्गुहागूढमन्धन्तमो नैति नाशंकिमेतन्निदानम् ॥९०॥
कदा श्रृङैगः स्फीते मुनिगणपरीते हिमनगे
द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् ।
क्वचिद्धयानासक्तो विषयसुविविक्तो भवहर
स्मरंस्ते पादब्जं जनिहर समेष्यामि विलयम् ॥९१॥
यन्नामकीर्तनपरः श्वपचोऽपि नूनं
हित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणेक्षणेन
दृग्गोचरो भवतु मेऽद्यस दीनबन्धुः ॥९२॥
सर्ववेदमयी गीता सर्वधर्ममयो मनुः ।
सर्वतीर्थमयी गङगा सर्वदेवमयो हरिः ॥९३॥
वेदे रामायणे चैव पुराणे भारते तथा ।
आदौ मध्ये तथा चान्ते हरिः सर्वत्र गीयते ॥९४॥
नेदं न भोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङगाः ।
नायं शशी कुण्डलितः फणीन्द्रो नायं कलङकः शयितो मुरारिः ॥९५॥
अरे भज हरेर्नाम क्षेमधाम क्षणे क्षणे ।
बहिस्सरति निःश्वासे विश्वासः कः प्रवर्तते ॥९६॥
कदा प्रेमोद्गारैः पुलकिततनुः साश्रुनयनः
स्मरन्नुच्चैः प्रीत्या शिथिलहृदयो गद्गदगिरा ।
अये श्रीमन् विष्णो रघुवर यदूत्तंस नृहरे
प्रसीदेत्याक्रोशन् निमिपमिव नेष्यामि दिवसान् ॥९७॥
तपन्तु तापैः प्रपतन्तु पर्वतादटन्तु तीर्थानि पठन्तु चागमान् ।
यजन्तु यागैर्विवदन्तु वादैर्हरिं विना नैव मृतिं तरन्ति ॥९८॥
अभिमानं सुरापानं गौरवं रौरवं समम् ।
प्रतिष्ठा सूकरीविष्ठा त्रयं त्यक्त्वा हरिं भजेत् ॥९९॥
संसारसागरं घोरमनन्तं क्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥१००॥
न ते रुपं न चाकारो नायुधानि न चास्पदम् ।
तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥१०१॥
किं पाद्यं पदपङकजे समुचितं यत्रोद्भवा जाह्नवी
किं वार्घ्यं मुनिपूजिते शिरसि ते भक्तयाहृतं साम्प्रतम् ।
किं पुष्पं त्वयि शोभनं व्रजपते सत्पारिजातार्चिते ।
किं स्तोत्रं गुणसागरे त्वयि हरे केनार्चयेत्त्वां नरः ॥१०२॥
माता च कमला देवी पिता देवो जनार्दनः ।
बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥१०३॥
केचिद् वदन्ति धनहीनजनो जघन्यः
केचिद् वदन्ति गुणहीनजनो जघन्यः ।
व्यासो वदत्यखिल्वेदविशेषविज्ञो
नारायणस्मरणहीनजनो जघन्यः ॥१०४॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥१०५॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङगम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥१०६॥
सशङखचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थल कौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥१०८॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै-
र्वेदैः साङगपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥१०९॥
केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङगशङखगदाधरं धारणया स्मरन्ति ॥११०॥
प्रसन्नवक्त्रंनलिनायतेक्षणं कदम्बकिञ्जल्कपिशङगवाससम् ।
लसन्महारत्नहिरण्मयाङगदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥१११॥
उन्निद्रहृत्पङकजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् ।
श्रीलक्ष्मणं कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या वनमालयाञ्चितम्
विभूषितं मेखलयाङगुलीयकैर्महाधनैर्नूपुरकङकणादिभिः ।
स्निग्धामलाकुञ्चित नीलकुन्तलैर्विरोचमानाननरसपेशलम् ॥
अदीनलीलाहसितेक्षणोल्लसद्भ्रूमङगसंसूचितभूर्यनुग्रहम् ।
ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥११४॥
प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् ।
सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥११५॥
तरुणं रमणीयाङगमरुणोष्ठेक्षणाधरम् ।
प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥११६॥
श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् ।
शङखचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥११७॥
किरीटिनं कुण्डलिनं केयूरवनमालिनम् ।
कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥११८॥
काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् ।
दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥११९॥
पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् ।
हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यव स्थितम् ॥१२०॥
स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।
नियतेनैकभूतेन मनसा वरदर्षभम् ॥१२१॥
महामरकतश्यामं श्रीमद्वदनपङकजम् ।
कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥१२२॥
श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।
विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥१२३॥
पद्मगर्भारुणापाङंग हृद्यहासावलोकनम् ।
श्वासैजद्बलिसंविग्ननिम्ननाभिदलोदरम् ॥१२४॥
चार्वङगुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् ।
मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥१२५॥
भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः ।
दृश्यैर्बुद्धयादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥१२६॥
तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्योभगवान्नृणाम् ॥१२७॥
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनंयच्छ्रवणं यदर्हणम् ।
लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥१२८॥
तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङगलाः ।
क्षेमंन विदन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥१२९॥
किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङका यवनाः खशादयः ।
येऽन्येच पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः
ग्राहग्रस्ते गजेन्द्रे रुदति सरभसं तार्क्ष्यमारुह्य धावन्
व्याघूर्णन् माल्यभूषावसनपरिकरो मेघगम्भीरघोषः ।
आबिभ्राणो रथाङंगशरमसिमभयं शङखचापौ सखेटौ
हस्तैः कौमोदकीमप्यवतु हरिरसावंहसां संहतेर्नः ॥१३१॥
नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेति खिन्ने
नाहं नाहं न चाहं न च भवति पुनर्मादृशस्त्वादृशेषु ।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यत्प्रादुरासीत्स दिशतु भगवान् मङगलं सन्ततं नः ॥१३२॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥१३३॥
यत्र निर्लिप्तभावेन संसारे वर्तते गृही ।
धर्मं चरति निष्कामं तत्रैव रमते हरिः ॥१३४॥
लोकं शोकहतं वीक्ष्य हाहाकारसमाकुलम् ।
अशोकं भज रे चेतस्तद्विष्णोः परमं पदम् ॥१३५॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमदनान्याहुतविधिः ।
प्रणामः संवेशः सकलमिदमात्मार्पणविधौ
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥१३६॥