यदि जयति मुकुन्दस्मेरवक्त्रारविन्द-
स्त्रवदमलमरन्दानन्दनिष्यन्दजन्मा।
अविरतमिह गीता ज्ञानपीयूषसिन्धुः
कृतमथ भवतापैरत्र मज्जन्तु सन्तः ॥१८॥
दिशति मतिमपापां मोहविध्वंसदक्षां
हरति निखिलतापाञ्च्छान्तिमाविष्करोति ।
नयति परममोक्षं सच्चिदानन्दभावं
किमिव न फलमेषा कल्पवल्लीव सूते ॥१९॥
यदि दधति न गीतामात्मसंजीवनाय
विषयविषधरालीदष्टनष्टात्मबोधाः ।
अमृतकलशपूर्णामन्नपूर्णामुपेक्ष्या-
शनविरहकृशानां हा हतं भागधेयम् ॥२०॥
इह जगति दयेयं देवदेवस्य गीता
निजशरणमुपेतुं प्राणिनः प्राजुहोति ।
न चिरयत सदैवानाद्यविद्याञ्चलेन
ननु पिहितदृशोऽन्धा बन्धनोन्मोचनाय ॥२१॥
भ्रान्ता भवे कति कति प्रतिलभ्य योनीः
श्रान्ता जनाः किल मुमुक्षत चेच्छृणुध्वम् ।
गीतामिमां भगवतीं भजतापरास्ति
संसारसिन्धुमसमं न तरीस्तरीतुम् ॥२२॥