लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यंचेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैस्सुमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥५७॥
आपद्गतं हससि किं द्रविणान्धमूढ
लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
एतान्न पश्यसि घटाञ्जलयन्त्रचक्रे
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥५८॥
मन्ये लक्ष्मि त्वया सार्धं समुद्राद्धूलिरुत्थिता ।
पश्यन्तोऽपि न पश्यन्ति श्रीमन्तो धूलिलोचनाः ॥५९॥
हेयं दुःखमनागतं ध्येयं ब्रह्म सनातनम् ।
आदेयं कायिकं सुखं विधेयं जनसेवनम् ॥६०॥
सानन्दं सदनं सुताश्च सुधियः कान्ता मनोहारिणी
सन्मित्रं सुधनं स्वयोषिति रतिः सेवारताः सेवकाः ।
आतिथ्यं सुरपूजनं प्रतिदिनं मिष्टान्नपानं गृहे
साधोः सङग उपासना च सततं धन्यो गृहस्थाश्रमः ॥६१॥
तद्वक्ता सदसि ब्रवीतु वचनं यच्छृण्वतां चेतसः
प्रोल्लासं रसपूरणं श्रवणयोरक्ष्णोर्विकासश्रियम् ।
क्षुन्निद्राश्रमदुःखकालगतिहृत्कार्यान्तरापस्मृतिं
प्रोत्कण्ठामनिशं श्रुतौ वितनुते शोकं विरागादपि ॥६२॥