मनुस्मृतिः - षष्ठोध्यायः

मनुस्मृती हे धर्मशास्त्र आहे. वर्णधर्म, आश्रमधर्म, वर्णाश्रमधर्म, राजधर्म, व्यवहारनिर्णय, स्त्रीधर्म व पुरूषधर्म यांच्या या स्मृतीमध्ये व्याख्या सांगून त्यांची निष्कृती कोणत्या उपायांनी करावी हे सुचविले आहे.


एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । वने वसेत् तु नियतो यथावद् विजितैन्द्रियः ॥१॥

गृहस्थस्तु यथा पश्येद् वलीपलितमात्मनः । अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥२॥

संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥३॥

अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ॥४॥

मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निर्वपेद् विधिपूर्वकम् ॥५॥

वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥६॥

यद्भक्ष्यं स्याद् ततो दद्याद् बलिं भिक्षां च शक्तितः । अब्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥७॥

स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः । दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥८॥

वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः ॥९॥

ऋक्षेष्ट्य्ऽअग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दक्षस्यायनमेव च ॥१०॥

वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवत्निर्वपेत् पृथक् ॥११॥

देवताभ्यस्तु तद् हुत्वा वन्यं मेध्यतरं हविः । शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥१२॥

स्थलजौदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात् स्नेहांश्च फलसंभवान् ॥१३॥

वर्जयेन् मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च ॥१४॥

त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥१५॥

न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित् । न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च ॥१६॥

अग्निपक्वाशनो वा स्यात् कालपक्वभुजेव वा । अश्मकुट्टो भवेद् वाऽपि दन्तोलूखलिकोऽपि वा ॥१७॥

सद्यः प्रक्षालको वा स्यान् माससञ्चयिकोऽपि वा । षण्मासनिचयो वा स्यात् समानिचय एव वा ॥१८॥

नक्तं चान्नं समश्नीयाद् दिवा वाऽहृत्य शक्तितः । चतुर्थकालिको वा स्यात् स्याद् वाऽप्यष्टमकालिकः ॥१९॥

चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । पक्षान्तयोर्वाऽप्यश्नीयाद् यवागूं क्वथितां सकृत् ॥२०॥

पुष्पमूलफलैर्वाऽपि केवलैर्वर्तयेत् सदा । कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥२१॥

भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ॥२२॥

ग्रीष्मे पञ्चतपास्तु स्याद् वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥२३॥

उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् । तपस्चरंश्चोग्रतरं शोषयेद् देहमात्मनः ॥२४॥

अग्नीनात्मनि वैतानान् समारोप्य यथाविधि । अनग्निरनिकेतः स्यान् मुनिर्मूलफलाशनः ॥२५॥

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराऽऽशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥२६॥

तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥२७॥

ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥२८॥

एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥२९॥

ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥३०॥

अपराजितां वाऽस्थाय व्रजेद् दिशमजिह्मगः । आ निपातात्शरीरस्य युक्तो वार्यनिलाशनः ॥३१॥

आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥३२॥

वनेषु च विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥३३॥

आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥३४॥

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥३५॥

अधीत्य विधिवद् वेदान् पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥३६॥

अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥३७॥

प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥३८॥

यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥३९॥

यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् । तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥४०॥

अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः । समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥४१॥

एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् । सिद्धिमेकस्य संपश्यन्न जहाति न हीयते ॥४२॥

अनग्निरनिकेतः स्याद् ग्राममन्नार्थमाश्रयेत् । उपेक्षकोऽसङ्कुसुको मुनिर्भावसमाहितः ॥४३॥

कपालं वृक्षमूलानि कुचेलमसहायता । समता चैव सर्वस्मिन्नेतत्मुक्तस्य लक्षणम् ॥४४॥

नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥४५॥

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥४६॥

अतिवादांस्तितिक्षेत नावमन्येत कं चन । न चैमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥४७॥

क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥४८॥

अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥४९॥

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥५०॥

न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्णं भिक्षुकैर्वाऽन्यैरगारमुपसंव्रजेत् ॥५१॥

कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥५२॥

अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥५३॥

अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा । एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् ॥५४॥

एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥५५॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥५६॥

अलाभे न विषदी स्यात्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यात्मात्रासङ्गाद् विनिर्गतः ॥५७॥

अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥५८॥

अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥५९॥

इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥६०॥

अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये ॥६१॥

विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः । जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥६२॥

देहादुत्क्रमणं चास्मात् पुनर्गर्भे च संभवम् । योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥६३॥

अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥६४॥

सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥६५॥

दूषितोऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥६६॥

फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥६७॥

संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥६८॥

अह्ना रात्र्या च याञ्जन्तून् हिनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥६९॥

प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥७०॥

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥७१॥

प्राणायामैर्दहेद् दोषान् धारणाभिश्च किल्बिषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥७२॥

उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः । ध्यानयोगेन संपश्येद् गतिमस्यान्तरात्मनः ॥७३॥

सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥७४॥

अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः । तपसश्चरणैश्चौग्रैः साधयन्तीह तत्पदम् ॥७५॥

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥७६॥

जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥७७॥

नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥७८॥

प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥७९॥

यदा भावेन भवति सर्वभावेषु निःस्पृहः । तदा सुखमवाप्नोति प्रेत्य चैह च शाश्वतम् ॥८०॥

अनेन विधिना सर्वांस्त्यक्त्वा सङ्गान् शनैः शनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥८१॥

ध्यानिकं सर्वमेवैतद् यदेतदभिशब्दितम् । न ह्यनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ॥८२॥

अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥८३॥

इदं शरणमज्ञानामिदमेव विजानताम् । इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥८४॥

अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयैह पाप्मानं परं ब्रह्माधिगच्छति ॥८५॥

एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥८६॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥८७॥

सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः । यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥८८॥

सर्वेषामपि चैतेषां वेदस्मृतिविधानतः । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥८९॥

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥९०॥

चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥९१॥

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥९२॥

दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥९३॥

दशलक्षणकं धर्ममनुतिष्ठन् समाहितः । वेदान्तं विधिवत्श्रुत्वा संन्यसेदनृणो द्विजः ॥९४॥

संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥९५॥

एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ॥९६॥

एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥९७॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां सहितायां षष्ठो ध्यायः ॥

N/A

References : N/A
Last Updated : April 03, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP