संस्कृत सूची|संस्कृत स्तोत्र साहित्य|गीता|अष्टावक्र गीता| अध्याय १६ अष्टावक्र गीता अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अष्टावक्र गीता - अध्याय १६ Ashtavakra gita is a perfect moral of life.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila. Tags : ashtavakragitaअष्टावक्रगीता अध्याय १६ Translation - भाषांतर ॥ अष्टावक्र उवाच ॥आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः ।तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ॥१॥भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते ।चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ॥२॥आयासात्सकलो दुःखी नैनं जानाति कश्चन ।अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥३॥व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि ।तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित् ॥४॥इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः ।धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥५॥विरक्तो विषयद्वेष्टा रागी विषयलोलुपः ।ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ॥६॥हेयोपादेयता तावत्संसारविटपांकुरः ।स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ॥७॥प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि ।निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः ॥८॥हातुमिच्छति संसारं रागी दुःखजिहासया ।वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ॥९॥यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा ।न च ज्ञानी न वा योगी केवलं दुःखभागसौ ॥१०॥हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।तथापि न तव स्वाथ्यं सर्वविस्मरणादृते ॥११॥ N/A References : N/A Last Updated : May 29, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP