संस्कृत सूची|संस्कृत साहित्य|गीता|अष्टावक्र गीता| अध्याय १७ अष्टावक्र गीता अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अष्टावक्र गीता - अध्याय १७ Ashtavakra gita is a perfect moral of life.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.The Ashtavakra Gita is an Advaita Vedanta scripture which documents a dialogue between the Perfect Master Ashatavakra and Janaka, the King of Mithila. Tags : ashtavakragitaअष्टावक्रगीता अध्याय १७ Translation - भाषांतर ॥ अष्टावक्र उवाच ॥तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः ॥१॥न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति ।यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ॥२॥न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी ।सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः ॥३॥यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता ।अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः ॥४॥बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते ।भोगमोक्षनिराकांक्षी विरलो हि महाशयः ॥५॥धर्मार्थकाममोक्षेषु जीविते मरणे तथा ।कस्याप्युदारचित्तस्य हेयोपादेयता न हि ॥६॥वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ ।यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम् ॥७॥कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती ।पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नस्ते यथा सुखम् ॥८॥शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च ।न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ॥९॥न जगर्ति न निद्राति नोन्मीलति न मीलति ।अहो परदशा क्वापि वर्तते मुक्तचेतसः ॥१०॥सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः ।समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ॥११॥पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन् ।ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ॥१२॥न निन्दति न च स्तौति न हृष्यति न कुप्यति ।न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः ॥१३॥सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं ।अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ॥१४॥सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च ।विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ॥१५॥न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता ।नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ॥१६॥न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः ।असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ॥१७॥समाधानसमाधानहिताहितविकल्पनाः ।शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ॥१८॥निर्ममो निरहंकारो न किंचिदिति निश्चितः ।अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न ॥१९॥मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः ।दशां कामपि संप्राप्तो भवेद् गलितमानसः ॥२०॥ N/A References : N/A Last Updated : May 29, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP