चाणक्यनीतिदर्पणाः - दशमिऽध्यायः

आर्य चाणक्यने आपल्या नीतिशास्त्र या ग्रंथात आदर्श जीवन मूल्ये सविस्तर सांगितली आहेत.

Nitishastra is a treatise on the ideal way of life, and shows Chanakya's in depth study of the Indian way of life.


अथ वृध्द चाणक्यस्योत्तरार्ध्दम् ।

धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।

विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥१॥

दृष्टिपुतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।

शास्त्रपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥२॥

सुखार्थी चेत्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् ।

सुखार्थीनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥३॥

कवयः किं न पश्यन्ति कि न कुर्वन्ति योषितः ।

मद्यपाः किं न जल्पन्ति किंन खादन्ति वायसाः ॥४॥

रंक करोति राजानं राजानं रंकमेवच ।

धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥५॥

लुब्धानां याचकः शत्रुमूर्खाणां बोधको रिपुः ।

जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः ॥६॥

येषां न विद्या न तपो न दानं

न चापि शीलं न गुणो न धर्मः ।

ते मृत्युलोके भुवि भारभूता

मनुष्यरूपेण मृगाश्चरन्ति ॥७॥

अन्तः सारविहीनानामुपदेशो न जायते ।

मलयाचलसंसर्गान्न वेणुश्चन्दनायते ॥८॥

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।

लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥९॥

दुर्जनं सज्जनं कर्तुमुपायो न हि भूतले ।

अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥१०॥

आप्तद्वेषाद्भवैन्मृत्युः परद्वेषाध्दनक्षयः ।

राजद्वेषाद्भवेन्नशो ब्रह्मद्वेषात्कुलक्षयः ॥११॥

वरं वनं व्याघ्रगजेन्द्रसेवितं

द्रुमालयं पक्वफलाम्बुसेवनम् ।

तृणेषु शय्या शतजीर्णबल्कलं

न बन्धुमध्ये धनहीनजीवनम् ॥१२॥

विप्रो वृक्षस्तस्य मूलं च सन्ध्या

वेदाः शाखा धर्मकर्माणि पत्रम् ।

तस्मात्‍ मूलं यत्नो रक्षणीयम्

छिन्ने मूले नैव शाखा न पत्रम् ॥१३॥

माता च कमला देवी पिता देवो जनार्दनः ।

बान्धवा विष्णु भक्ताश्च स्वदेशे भुवनत्रयम् ॥१४॥

एकवृक्षे समारूढा नानावर्णा बिहंगमाः ।

प्रभाते दिक्षु दशसु का तत्र परिवेदना ? ॥१५॥

बुध्दिर्यस्य बलं तस्य निर्बुध्दैश्च कुतो बलम् ।

वने हस्ती मदोन्मत्तः शशकेन निपातितः ॥१६॥

बुध्दिर्यस्य बलं तस्य निर्बुध्दैश्च कुतो बलम् ।

वने हस्ती मदोन्मत्तः शशकेन निपातितः ॥१६॥

का चिन्ता मम जीवने यदि हरिविश्वन्भरो गीयते ।

नो चेदर्भकजीवनाय जननीस्तन्यं कथं निःसरेत् ॥

इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलम् ।

त्वत्पदाम्बुजसेवनेन सततं कालो मया नीयते ॥१७॥

गीर्वाणवाणीषु विशिष्टबुध्दि-

स्तथापि भाषान्तरलालुपोऽहम् ।

यथा सुधायाममरिषु सत्यां

स्वर्गड्गनानामधरासवे रुचिः ॥१८॥

अनाद्दशगुणं पिस्टं पिस्टाद्दशगुणं पयः ।

पयसोऽष्टगुणं मांसं मांसाद्दशगुणं घृतम् ॥१९॥

शाकेन रोगा वर्ध्दते पयसो वर्ध्दते तनुः ।

घृतेन वर्ध्दते वीर्यं मांसान्मासं प्रवर्ध्दते ॥२०॥

N/A

References : N/A
Last Updated : September 19, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP