परमात्मा अद्वयानन्द पूर्णः पूर्वं स्वमायया । स्वयम् एव जगत् भूत्वा प्राविशत् जीवरूपतः ॥१॥
विष्णु आदि उत्तम देहेषु प्रविष्टः देवता अभवत् । मर्त्य आदि अधम देहेषु स्थितः भजति देवताम् ॥२॥
अनेक जन्म भजनात् स्वविचारं चिकीर्षति । विचारेण विनष्टायां मायायां शिष्यते स्वयम् ॥३॥
अद्वयानन्द रूपस्य सद्वयत्वं च दुःखिता । बन्धः प्रोक्तः स्वरूपेण स्थितिः मुक्तिः इति ईर्यते ॥४॥
अविचारकृतः बन्धः विचारेण निवर्तते । तस्मात् जीवपरात्मानौ सर्वदा एव विचारयेत् ॥५॥
अहम् इति अभिमन्ता यः कर्ता असौ तस्य साधनम् । मनः तस्य क्रिये अन्तर्बहिर्वृत्तिः क्रम उत्थिते ॥६॥
अन्तर्मुखा अहम् इति एषा वृत्तिः कर्तारम् उल्लिखेत् । बहिर्मुख इदम् इति एषा बाह्यं वस्तु इअदम् उल्लिखेत् ॥७॥
इदमः ये विशेषाः स्युः गन्ध रूप रस आदयः । असाङ्कर्येण तान् भिद्यात् घ्राण आदि इन्द्रिय पञ्चकम् ॥८॥
कर्तारं च क्रियां तद्वत् व्यावृत्त विषयान् अपि । स्फोरयेत् एकयत्नेन यः असौ साक्षि अत्र चिद्वपुः ॥९॥
ईक्षे शृणोमि जिघ्रामि स्वादयामि स्पृशामि अहम् । इति भासयते सर्वं नृत्य शालास्थ दीपवत् ॥१०॥
नृत्यशालास्थितः दीपः प्रभुं सभ्यां च नर्तकीम् । दीपयेत् अविशेषेण तत् अभावे अपि दीप्यते ॥११॥
अहङ्कारं धियं साक्षी विषयान् अपि भासयेत् । अहङ्कार आदि अभावे अपि स्वयं भाति एव पूर्ववत् ॥१२॥
निरन्तरं भासमाने कूटस्थे ज्ञप्ति रूपतः । तत् भासा भासमानेयं बुद्धिः नृत्यति अनेकधा ॥१३॥
अहङ्कारः प्रभुः सभ्याः विषयाः नर्तकी मतिः । ताल आदि धारिणी अक्षाणि दीपः साक्षि अवभासकः ॥१४॥
स्वस्थान संस्थितः दीपः सर्वतः भासयेत् यथा । स्थिरस्थायी तथा साक्षी बहिः अन्तः प्रकाशयेत् ॥१५॥
बहिः अन्तः विभागः अयं देह अपेक्षः न साक्षिणि । विषयाः बाह्य देशस्थाः देहस्य अन्तः अहङ्कृतिः ॥१६॥
अन्तस्था धीः सह एव अक्षैः बहिः याति पुनः पुनः । भास्य बुद्धिस्थ चाञ्चल्यं साक्षिणि आरोप्यते वृथा ॥१७॥
गृह अन्तर गतः स्वल्पः गवाक्षात् आतपः अचलः । तत्र हस्ते नर्त्यमाने नृत्यति इव आतपः यथा ॥१८॥
निजस्थानस्थितः साक्षी बहिः अन्तः गम आगमौ । अकुर्वन् बुद्धि चाञ्चल्यात् करोति इव तथा तथा ॥१९॥
न बाह्यः न अन्तरः साक्षी बुद्धेः देशौ हि तौ उभौ । बुद्धि आदि अशेष संशान्तौ यत्र भाति अस्ति तत्र सः ॥२०॥