देशः कः अपि न भासेत यदि तर्हि अस्तु अदेशभाक् । सर्वदेश प्रक्लृप्त्य एव सर्वगत्वं न तु स्वतः ॥२१॥
अन्तः बहिः वा सर्वं वा यं देशं परिकल्पयेत् । बुद्धिः तत् देशगः साक्षी तथा वस्तुषु योजयेत् ॥२२॥
यत् यत् रूप आदि कल्प्येत बुद्ध्या तत् तत् प्रकाशयन् । तस्य तस्य भवेत् साक्षी स्वतः वाक् बुद्धि अगोचरः ॥२३॥
कथं तादृत् मया ग्राह्यः इति चेत् मा एव गृह्यताम् । सर्वग्रह उपसंशान्तौ स्वयम् एव अवशिष्यते ॥२४॥
न तत्र मान अपेक्षा अस्ति स्वप्रकाश स्वरूपतः । तादृक् व्युत्पत्ति अपेक्षा चेत् श्रुतिं पठ गुरोः मुखात् ॥२५॥
यदि सर्वगृहत्यागः अशक्यः तर्हि धियं व्रज । शरणं तत् अधीनः अन्तः बहिः वा एषः अनुभूयताम् ॥२६॥
इति दशमोऽध्यायः ॥१०॥