अथ केयं भवेत् प्रीतिः श्रूयते या निजात्मनि । रागः वधु आदि विषये श्रद्धा याग आदि कर्मणि ॥२१॥
भक्तिः स्यात् गुरु देव आदौ इच्छा तु अप्राप्त वस्तुनि । तर्हि अस्तु सात्विकी वृत्तिः सुखमात्र अनुवर्तिनी ॥२२॥
प्राप्ते नष्टे अपि सद्भावात् इच्छतः व्यतिरिच्यते । सुखसाधनता उपाधेः अन्नपान आदयः प्रियः ॥२३॥
आत्म अनुकुल्यात् आन आदि समः चेत् अमुना अत्र कः । अनुकुलयितव्यः स्यात् न एकस्मिन् कर्म कर्तृता ॥२४॥
सुखे वैषयिके प्रीतिमात्रम् आत्मा तु अतिप्रियः । सुखे व्यभिचरति एषा न आत्मनि व्यभिचारिणी ॥२५॥
एकं त्यक्त्वा अन्यत् आदत्ते सुखं वैषयिकं सदा । न आत्मा त्याज्यः न च अदेयः तस्मिन् व्यभिचरेत् कथम् ॥२६॥
हानादान विहीने अस्मिन् उपेक्षा चेत् तृणादिवत् । उपेक्षितुः स्वरूपत्वात् न उपेक्ष्यत्वं निजात्मनः ॥२७॥
रोग क्रोध अभिभूतानां मुमुर्षा वीक्ष्यते क्वचित् । ततः द्वेषात् भवेत् त्याज्यः आत्मा इति यदि तत् न हि ॥२८॥
त्यक्तुं योग्यस्य देहस्य न आत्मता त्यक्तुः एव सा । न त्यक्तरि अस्ति स द्वेषः त्याज्ये द्वेषे तु का क्षतिः ॥२९॥
आत्मार्थत्वेन सर्वस्य प्रीतेः च आत्मा हि अतिप्रियः । सिद्धः यथा पुत्र मित्रात् पुत्रः प्रियतरः तथा ॥३०॥
मा न भूवम् अहं किन्तु भूयासं सर्वदेति असौ । आशीः सर्वस्य दृस्त इति प्रत्यक्षा प्रीतिः आत्मनि ॥३१॥
इति आदिभिः त्रिभिः प्रीतौ सिद्धायाम् एवम् आत्मनि । पुत्र भार्या आदि शेषत्वम् आत्मनः कैश्चित् इर्रितम् ॥३२॥
एतत् विवक्षया पुत्रे मुख्य आत्मत्वं श्रुति ईरितम् । आत्मा वै पुत्रनाम इति तत् च उपनिषदि स्फुटम् ॥३३॥
सः अस्य अयम् आत्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते । अथ अस्य इतरः आत्मा अयं कृतकृत्यः प्रमीयते ॥३४॥
सति अपि आत्मनि लोकः अस्ति न अपुत्रस्य अतः एव हि । अनुशिष्टं पुत्रम् एव लोक्यम् आहुः मनीषिणः ॥३५॥
मनुष्य लोकः जय्यः स्यात् पुत्रेण एव इतरेण नो । मुमुर्षुः मन्त्रयेत् पुत्रं त्वं ब्रह्म इति आदि मन्त्रकैः ॥३६॥
इति आदि श्रुतयः प्राहुः पुत्र भार्या आदि शेषताम् । लौकिकाः अपि पुत्रस्य प्राधान्यम् अनुमन्वते ॥३७॥
स्वस्मिन् मृते अपि पुत्र आदिः जीवेत् वित्त आदिना यथा । तथा एव यत्नं कुरुते मुख्याः पुत्र आदयः ततः ॥३८॥
बाधम् एतावता न आत्मा शेषः भवति कस्यचित् । गौण मिथ्या मुख्य भेदैः आत्मा अयं भवति त्रिधा ॥३९॥
देवदत्तः तु सिंहः अयम् इति ऐक्यं गौणम् एतयोः । भेदस्य भासमानत्वात् पुत्र आदेः आत्मता तथा ॥४०॥