ब्रह्मानन्दे आत्मानन्दः - श्लोक ४१ ते ६०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


भेदः अस्ति पञ्च कोशेषु साक्षिणः न तु भाति असौ । मिथ्यात्मता अतः कोशानां स्थाणोः चोरात्मता यथा ॥४१॥

न भाति भेदः न अपि अस्ति साक्षिणः अप्रतियोगिनः । सर्व अन्तरत्वात् तस्य एव मुख्यम् आत्मत्वम् इष्यते ॥४२॥

सति एवं व्यवहारेषु येषु यस्य आत्मत उचिता । तेषु तस्य एव शेषित्वं सर्वस्य अन्यस्य शेषता ॥४३॥

मुमुर्षोः गृह रक्षादौ गुणात्म एव उपयुज्यते । न मुख्यात्मा न मिथ्यात्मा पुत्रः शेषी भवति अतः ॥४४॥

अध्येता वह्निः इति अत्र सन् अपि अग्निः न गृह्यते । अयोग्यत्वेन योग्यत्वात् बटुः एव अत्र गृह्यते ॥४५॥

कृशः अहं पुष्टिम् आप्स्याम् इति आदौ देहात्मतोचिता । न पुत्रं विनियुङ्क्ते अत्र पुष्टि हेतु अन्न भक्षणे ॥४६॥

तपसा स्वर्गम् एष्याम् इति आदौ कर्त्रात्मतोचिता । अनपेक्ष्य वपिः भोगं चरेत् कृच्छ्रादिकं ततः ॥४७॥

मोक्ष्ये अहम् इति अत्र युक्तं चिदात्मत्वं तदा पुमान् । तत् वेत्ति गुरु शास्त्राभ्यां न तु किंचित् चिकीर्षति ॥४८॥

विप्र क्षत्रिय आदयोः यद्वत् बृहस्पति सवादिषु । व्यवस्थिताः तथा गौण मिथ्या मुख्या यथा उचितम् ॥४९॥

तत्र तत्र उचिते प्रीतिः आत्मनि एव अतिशायिनी । अनात्मनि तु तत् शेषे प्रीतिः अन्यत्र न उभयम् ॥५०॥

उपेक्ष्यं द्वेष्यम् इति अन्यत् द्वेधा मार्ग तृणादिकम् । उपेक्ष्यं व्याघ्र सर्पादि द्वेष्यम् एवं चतुर्विधम् ॥५१॥

आत्मा शेषः उपेक्ष्यं च द्वेष्यं च इति चतुर्षु अपि । न व्यक्तिनियमः किन्तु तत् तत् कार्यात् तथा तथा ॥५२॥

स्यात् व्याघ्रः संमुखः द्वेष्यः हि उपेक्ष्यः तु पराङ्मुखः । लालनात् अनुकूलः चेत् विनोदाय इति शेषताम् ॥५३॥

व्यक्तीनां नियमः मा भूत् लक्षणात् तु व्यवस्थितिः । आनुकूल्यं प्रातिकूल्यं द्वयाभावः च लक्षणम् ॥५४॥

आत्मा प्रेयान् प्रियः शेषः द्वेष्य उपेक्ष्ये तत् अन्ययोः । इति व्यवस्थितः लोकः याज्ञवल्क्य मतं च तत् ॥५५॥

अन्यत्र अपि श्रुतिः प्राह पुत्रात् वित्तात् तथा अन्यतः । सर्वस्मात् आन्तरं तत्त्वं तत् एतत् प्रेयः ईक्षताम् ॥५६॥

श्रौत्या विचारदृष्ट्या अयं साक्षि एव आत्मा न च इतरः । कोशान् पञ्च विविच्य अन्तर् वस्तु दृष्टिः विचारणा ॥५७॥

जागर स्वप्न सुप्तीनाम् आगमापाय भासनम् । यतः भवति असौ आत्मा स्वप्रकाश चिदात्मकः ॥५८॥

शेषाः प्राणादि वित्तान्ताः आसन्नाः तारतम्यतः । प्रीतिः तथा तारतम्यात् तेषु सर्वेषु वीक्ष्यते ॥५९॥

वित्तात् पुत्रः प्रियः पुत्रात् पिण्डः तथा इन्द्रियम् । इन्द्रियात् च प्रियः प्राणः प्राणात् आत्मा प्रियः परः ॥६०॥

N/A

References : N/A
Last Updated : March 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP