वसन्ततिलका
संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ॥
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति ॥२१॥
रत्थोद्धता
तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः ॥
यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥२२॥
मालिनी
वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखमुखराणां केवलं पण्डितानाम् ॥
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ?॥२३॥
आर्या
स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतिम् ॥
यस्मात्तपसोऽपि फलं स्वर्गस्तस्यापि फलं तथाप्सरसः ॥२४॥
अनुष्टुभ्
अजितात्मसु सम्बद्धः समाधिकृतचापलः ॥
भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥२५॥
स्रग्धरा
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेएन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ॥
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥२६॥
शार्दूलविक्रीडित
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः
तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥
शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः
तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥२७॥
उपजाति
सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥
अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं ते पिबतीव चन्द्रः ॥२८॥
शिखरिणी
असाराः सन्त्वेते विरसविरसाश्चैव विषया
जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति ॥
तथाप्यन्तस्तत्त्वे प्रणिहितधियामप्यनबलः
तदीयो नाख्येयः स्फुरति हृदये कोऽपि महिमा ॥२९॥
वसंततिलका
विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ॥
येनाचिरात्तदधरामिषलोलमर्त्य-
मत्स्याद्विकृष्य स पचत्यनुरागवह्नौ ॥३०॥