रथोद्धता
किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथाऽपि किम् ॥
इत्युदीर्य नवमेघदर्शने
न प्रयाति पथिकः स्वमन्दिरम् ॥१०१॥
हरिणी
विरमत बुधा योषित्सङ्गात् सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ॥
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥१०२॥
शिखरिणी
यदा योगाभ्यासव्यसनवशयोरात्ममनसो-
रविच्छिन्ना मैत्री स्फुरति यमिनस्तस्य किमु तैः ॥
प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः
सनिःश्वासामोदैः सकुचकलशाश्लेषसुरतैः ?॥१०३॥
शिखरिणी
सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरसश्चातिसुरभिः ॥
स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तःक्षोभं न तु विषयसंसर्गविमुखे ॥१०४॥
मंदाक्रान्ता
बाले लीलामुकुलितममी सुंदरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥
सम्प्रत्यन्त्ये वयसि विरतं बाल्यमास्था वनान्ते
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥१०५॥
शिखरिणी
इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ? ॥
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वलज्ज्वालाः शांतास्तदपि न वराकी विरमति ॥१०६॥
शार्दूलविक्रीडित
किं कन्दर्प !शरं कदर्थयसि रे कोदण्डझङ्कारितै ?
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ॥
मुग्धे !स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं
चेतः सम्प्रति चंद्रचूडचरणध्यानामृते वर्तते ॥१०७॥
शिखरिणी
यदाऽऽसीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा सर्वं नारीमयमिदमशेषं जगदभूत् ॥
इदानीमस्माकं पटुतरविवेकाञ्जनदृशां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥१०८॥
॥भर्तृहरिकृत शृंगारशतकः॥