अतःपरं प्रक्ष्यामि गृहाणां वेधनिर्णयम । अन्धकं रुधिरञ्चैव कुब्जं काणं बधीरकम ॥१॥
दिग्वक्रं चिपिटञ्चैव व्यंगजं मुरजं तथा । कुटिलं कुट्टकञ्चैव तुप्तश्च शंखपालकम ॥२॥
विघटञ्च तथा कंकं कैंकरं षोडशं स्मृतम । अन्धकं छिद्रहीनञ्च विच्छिद्रं दिशि कानकम ॥३॥
हीनांगं कुब्जकञ्चैव पृथ्वीद्वारं बधीरकम । रन्ध्रं विकीर्णं दिग्वक्रं रुधिरञ्चाविपदतम ॥४॥
तुंगहीनञ्च चिपिटं व्यंगं चानर्थदर्शनम । पार्श्चोन्नत च मुरजं कुटिलं तालहीनकम ॥५॥
शंखपालं जंघहीनं दिग्वक्रं विकटं स्मृतम । पार्श्वहीनं तथा ककं कैंकरं च हलोन्नतम ॥६॥
इत्येते अधमाः प्रोक्ता वर्जनीयाः प्रयत्नतः । अन्धके रोगमतुलं रुधिरेऽतीसारजां भयम ॥७॥
कुब्जे कुष्ठादिरोगः स्यात काणेऽन्धत्वं प्रजायते । पृथ्वीद्वारे सर्वदु:खं मरणं वा प्रजायते ॥८॥
दिग्वक्रे गर्भनाशः स्याच्चिपिटे नीचसंगतिः । व्यंगे च व्यंगता नैःस्वं मुरजे कुटिले क्षयः ॥९॥
कुट्टके भूतदोषः स्यास्तुप्ते गृहपतेः दारौ गृहान्तस्थे मृतेर्भयम पाषाणान्तर्गतं गेहं शुभं सौख्यविवर्द्धनम ॥१४॥
गेहमध्यस्थितं यच्च सर्वदोषकरं भवेत । विस्तीर्णमानं यद्गेहं उदूर्ध्वं परिकीर्तितम ॥१५॥
शेषाश्चैव त्रिभागं तु तदगृहं चोत्तमं स्मृतम । तुंगामूनाधिकं रोगभयं करोति विस्तृतम ॥१६॥
त्रिकोणं निधनं शीघ्रं गृहं दीर्घं निरर्थकम । अथान्यान्दशवेधांश्च कथयामि बहिःस्थितान ॥१७॥
कोणदृक्छिदृक्छायाऋजु वंशाग्रभूमिकाः । संघातदन्तयोश्चैव भेदाश्च दशधा स्मृताः ॥१८॥
कोणाग्रे वान्यगेहे च कोणात्कोणान्तरं पुरः । तथा गृहार्ध संलग्न कोण न शुभदं स्मृतम ॥१९॥
कोणवेधे भवेव्द्याधिर्धननाशोऽरिविग्रहः । एकं प्रधानद्वारस्याभिमुखेऽन्यत्प्रधानकम ॥२०॥