द्वारं गृहाच्च द्विगुणं तादृग्वेधः प्रचक्षते । दृष्टिवेदेधे भवेन्नाशो धनस्य मरणं ध्रुवम ॥२१॥
समक्षुरं क्षुद्रवेधे पशुहानिकरं परम । द्वितीये तृतीये यामे छाया यत्र पतेद्गृहे ॥२२॥
छायावेधं तु तद्गेहं रोगदं पशुहानिदम । आदौ पूर्वोत्तरा पंक्तिः पश्चाद्दक्षिणपश्चिमे ॥२३॥
वास्त्वन्तरे भित्तिसमं शुभदं तत प्रकीर्तितम । विषमे दोषबहुलमृजुवेधं प्रजायते ॥२४॥
ऋजुवेधे महासत्रो जायते नात्र संशयः । वंशाग्रे चान्यवंशः स्यादग्रे वा भित्तिबाह्यगाः ॥२५॥
तद्वंशे वेधयेद्गेयं वंशहानिः प्रजायते । उक्षयोर्यत्रसंयोगो यूपाग्रेषु प्रजायते ॥२६॥
उक्षवेथं विजानीयाद्विनाशः कलहो भवेत । पूर्वोत्तरे वास्तुभूमौ विपरीतेऽथ निम्नका ॥२७॥
उच्चवेधो भवेन्नूनं तद्वेधे न शुभप्रदम । द्वयोर्गेहान्तरगतं गृहं तच्छुभदायकम ॥२८॥
गृहोच्चादर्द्धसंलग्ने तथा पाराग्रसंस्थितम । संघामेलनं यत्र गेह योर्भित्तिरेकतः ॥२९॥
विधिवश्यं शीघ्रमेव मरणं स्वामिनोर्द्वयोः । पर्वतान्निःसृतं चाश्मदन्तवद्भित्तिसम्मुखम ॥३०॥
तद्दन्तवेध मित्माहुः शोकं रोगं करोति तत । अधित्यकासु यद्गेहं तद्गेहं पर्वतादधः ॥३१॥
यद्गेहं चाश्मसंलग्नं घोरं पाषाणसंयुतम । धाराग्रसंस्थितं वापि संलग्नान्तरपर्वते ॥३२॥
नदीतीरस्थितं वापि श्रृंगान्तरगतं तथा । भित्तिभिन्नं तु यद्गेहं सदा जलसमीपगम ॥३३॥
रुदन्तं द्वारशब्दार्थ काकोलूकनिवासितम । कपाटहीनं च रात्रौ च शश नादितम ॥३४॥
स्थूलसर्पनिवासं च यच्च वज्राग्निदूषितम । जलस्त्रवान्वितं भीरु कुब्जं काणं बधीरकम ॥३५॥
यच्चोपघातादि भवं ब्रह्महत्यान्वितं तथा । शालविहिनं यच्चपि शिखाहीनं तथैव च ॥३६॥
भित्तिबाह्यगतैर्दारुकाष्ठै रुधिरसंयुतम । कृतं कण्टकिसयुक्तं चतुष्कोणं तथैव च ॥३७॥
श्मशानदूषितं यच्च यच्च चैत्यनिकास्थितम । वासहीनं तथा म्लेच्छचाण्डालैश्चाधि वासितम ॥३८॥
विवरान्तर्गतं वापि यच्च गोधाधिवासितम । तद्गृहे न वसेत्करर्त्ता न जीवते ॥३९॥
तस्मातत्सर्वप्रयत्नेन वर्जयेन्मतिमान्नरः । अन्यवेश्मस्थितं दारु नैवान्यस्मिन्प्रयोजते ॥४०॥