अनुगतममरीणामम्बरालम्बिनीनां
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् ।
व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्
त्रिभुवनसुकुमारं देवकैशोरकं नः ॥५१॥
आपादमाचूडमतिप्रसक्तै-
रापीयमाना यमिनां मनोभिः ।
गोपीजनज्ञातरसाऽवतान्नो
गोपलभूपालकुमारमूर्तिः ॥५२॥
दिष्ट्या बृन्दावनमृगदृशां विप्रयोगाकुलानां
प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः ।
लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान्
पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥५३॥
जयति गुहशिखीन्द्रपिञ्छमौलिः
सुरगिरिगौरिककल्पिताङ्गरागः ।
सुरयुवतिविकीर्णसूनवर्ष-
स्नपितविभूषितकुन्तलः कुमारः ॥५४॥
मधुरमन्दशुचिस्मितमञ्जुलं
वदनपङ्कजमङ्गजवेल्लितम् ।
विजयतां व्रजबालवधूजन-
स्तनतटीविलुठन्नयनं विभोः ॥५५॥
अलसविलससन्मुग्धस्निग्धस्मितं व्रजसुन्दरी-
मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् ।
तरुणमरुणज्योत्स्ना कार्त्स्न्या स्मितस्नपिताधरं
जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥५६॥
राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनस्वादीयसस्तेजसः ।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण-
त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥५७॥
स्मितस्नुतसुधाधरामदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः ।
मनोज्ञमुखपङ्कजा मधुरवेणूनादद्रवा
जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥५८॥
जीयादसौ शिखिशिखण्डकृतावतंसा
संसिद्धिकी सरसकान्तिसुधासमृद्धिः ।
यद्बिन्दुलेशकणीकापरिमाणभाग्य-
सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥५९॥
आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित-
च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः ।
आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु-
र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥६०॥
स्कन्धावारसदो प्रजाः कतिपये गोपास्सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः ।
शृङ्गारा गिरिगौरिकं शिव शिव श्रीमन्ति बर्हाणि च
शृङ्गप्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥६१॥
श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे ।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥६२॥
आपाटलाधरमधीरविलोलनेत्र-
मामोदनिर्भरितमद्भुतकान्तिपूरम् ।
आविस्मितामृतमनुस्मृतिलोभनीय-
मामुद्रिताननं महो मधुरं मुरारेः ॥६३॥
जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः ।
अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥६४॥
चरणयोररुणं करुणार्द्रयोः
कचभरे बहुलं विपुलं दृशोः ।
वपुषि मञ्जुलमञ्जनमेचके
वयसि बालमहो मधुरं महः ॥६५॥
मालाबर्हमनोज्ञकुन्तलभरं वन्यप्रसूनोक्षितां
शैलेयद्रवकॢप्तचित्रतिलकं शाश्वन्मनोहारिणीम् ।
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥६६॥
गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले
नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले ।
मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने
बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥६७॥
जिहानं जिहानं सुजानेन मौग्ध्यं
दुहानं दुहानं सुधां वेणुनादैः ।
लिहानं लिहानं सुधीर्घैरपाङ्गै-
र्महानन्दसर्वस्वमेतन्नमस्ताम् ॥६८॥
लसद्बर्हापीडं ललितललितस्मेरवदनं
भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् ।
नवाम्भोदश्यामं निजमधुरिमाभोगभरितं
परं देवं वन्दे परिमलितकैशोरकरसम् ॥६९॥
सारस्यसामग्र्यमिवाननेन
माधुर्यचातुर्यमिव स्मितेन ।
कारुण्यतारुण्यमिवेक्षितेन
चापल्यसाफल्यमिदं दृशोर्मे ॥७०॥
यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि ।
निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥७१॥
रागान्धगोपीजनवन्दिताभ्यां
योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् ।
आताम्रपङ्केरुहविभ्रमाभ्यां
स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥७२॥
अर्थानुलापान्व्रजसुन्दरीणा-
मकृत्रिमाणाञ्च सरस्वतीनाम् ।
आर्द्राशयेन श्रवणाञ्चलेन
संभावयन्तं तरुणं गृणीमः ॥७३॥
मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा ।
करकलितललितवंशा कापि किशोरा कृपालहरी ॥७४॥
रक्षन्तु नः शिक्षितपाशुपाल्या
बाल्यावृता बर्हिशिखावतंसाः ।
प्राणप्रियाः प्रस्तुतवेणुगीताः
शीतादृशोः शीतलगोपकन्याः ॥७५॥