स्मितस्तबकिताधरं शिशिरवेणुनादामृतं
मुहुस्तरललोचनं मदकटाक्षमालाकुलम् ।
उरस्थलविलीनया कमलया समालिङ्गितं
भुवस्थलमुपागतं भुवनदैवतं पातु नः ॥७६॥
नयनाम्बुजे भजत कामदुघं
हृदयाम्बुजे किमपि कारुणिकम् ।
चरणाम्बुजे मुनिकुलैकधनं
वदनाम्बुजे व्रजवधूविभवम् ॥७७॥
निर्वासनं हन्त रसान्तराणां
निर्वाणसाम्राज्यमिवावतीर्णम् ।
अव्याजमाधुर्यमहानिधान-
मव्याद्व्रजानामधिदैवतं नः ॥७८॥
गोपीनामभिमतगीतवेषहर्षा-
दापीनस्तनभरनिर्भरोपगूढम् ।
केलीनामवतु रसैरुपास्यमानं
कालिन्दीपुलिनचरं परं महो नः ॥७९॥
खेलतां मनसि खेचराङ्घना-
माननीयमृदुवेणिनिस्वनैः ।
कानने किमपि नः कृपास्पदं
कालमेघकलहोद्वहं महः ॥८०॥
एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि-
र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः ।
पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै-
र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥८१॥
कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत्
तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः ।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि-
प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥८२॥
यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् ।
यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥८३॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥८४॥
यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि-
र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ ।
यत्पादाब्जविनःसृता सुरनदी शंभोः शिरोभूषणं
यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥८५॥
रक्षतु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसि हृदये मारबाणाः मुरारेः ।
हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥८६॥
दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रवृष्टः ।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः ॥८७॥
प्रातः स्मरामि दधिघोषविनीतनिद्रं
निद्रावसानरमणीयमुखारविन्दम् ।
हृद्यानवद्यवपुषं नयनाभिराम-
मुन्निद्रपद्मनयनं नवनीतचोरम् ॥८८॥
फुल्लहल्लकवतंसकोल्लसद्
गल्लमागमगन्वीं गवेषितम् ।
वल्लवीचिकुरवासिताङ्गुली-
पल्लवं कमपि वल्लवं भजे ॥८९॥
स्तेयं हरेर्हरति यन्नवनीतचौर्यं
जारत्वमस्य गुरुतल्पकृतापराधम् ।
हत्यां दशाननहतिर्मधुपानदोषं
यत्पूतनास्तनपयः स पुनातु कृष्णः ॥९०॥
मार मा वस मदीयमानसे
माधवैकनिलये यदृच्छया ।
श्रीरमापतिरिहागमेदसौ
कः सहेत निजवेश्मलङ्घनम् ॥९१॥
आकुञ्चितं जानु करं च वामं
न्यस्य क्षितौ दक्षिणहस्तपद्मे ।
आलोकयन्तं नवनीतखण्डं
बालं मुकुन्दं मनसा स्मरामि ॥९२॥
जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् ।
सुकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥९३॥
विहाय कोदण्डशरौ मुहूर्तं
गृहाण पाणौ मणिचारुवेणुम् ।
मायूरबर्हं च निजोत्तमाङ्गे
सीतापते त्वां प्रणमामि पश्चात् ॥९४॥
अयं क्षीराम्भोधिः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।
अनेन प्रत्यूहो व्यरचि सततं येन जननी-
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥९५॥
हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥९६॥
तमसि रविरिवोद्यन्मञ्चतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः ।
निधिरिव विधतानां दीर्घतीव्रामयानां
भिषगिव कुशलं नो दातुमायातु शौरिः ॥९७॥
कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं
हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्चारुणम् ।
कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं
गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥९८॥
सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां
त्रैलोक्याकर्षणाङ्कं सुरनरगणिकामोहनापाङ्गमूर्तिम् ।
सेव्यं शृङ्गारभावैर्नवरभरितैर्गोपकन्यासहस्रै-
र्वन्देऽहं रसकेलीरतमतिसुभगं वश्य गोपालकृष्णम् ॥९९॥
कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् ।
पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥१००॥
बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध-
श्रोणीजङ्घान्तयुग्मं विपुलगुरुणखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥१०१॥
वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।
नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥१०२॥
चक्रान्तध्वस्तवैरीव्रजमजितमपास्तावनीभारमाद्यै-
रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतहेतोः ।
सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं
मन्त्री विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम् ॥१०३॥
कोदन्डमैक्षवमखण्डमिषुं च पौष्पं
चक्राब्जपाशसृणिकाञ्चनवंशनालम् ।
विभ्राणमष्टविधबाहुभिरर्कवर्णं
ध्यायेद्धरिं मदनगोपविलासवेषम् ॥१०४॥
अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं धाराहिमार्द्री किमसि खगपतिर्नो हरिः किं कपीन्द्र
इत्येवं गोपकन्या प्रतिवचनजितः पातु वश्चक्रपाणिः
॥१०५॥
राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली ।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥१०६॥
या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते ।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥१०७॥
कृष्णानुस्मरणादेव पादसङ्घातपञ्चरः ।
शतधो भेदमायाति गिरिर्वज्रहतो यथा ॥१०८॥
यस्यात्मभूतस्य गुरोः प्रसादा-
दहं विमुक्तोऽस्मि शरीरबन्धात् ।
सर्वोपदेष्टुः पुरुषोत्तमस्य
तस्यांघ्रिपद्मं प्रणतोस्मि नित्यम् ॥१०९॥
॥ इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः ॥
॥ इति श्रीकृष्णकर्णामृतं समाप्तम् ॥