श्रीशुक उवाच
अथ कस्यचिद द्विजवरस्यांगिरः प्रवरस्य शमदमतपः
स्वाध्यायाधययनत्यागसन्तोषतितिक्षा
प्रश्रयविद्यानसुयात्मज्ञानन्दयुक्तस्यात्मसदृश
श्रुतशीलाचाररुपौआर्यगुणा नव सोदर्या आंगजा
बभुवुर्मिथुनं च यवीयस्या भार्यायाम ॥१॥
यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं
भरतमुत्सृष्टमृगशरीरं चरणशरीरेण विप्रत्वं गतमाहुः ॥२॥
तत्रापिस्वजनसंगाच्च भृशमुद्विजमानो भगवतः
कर्मबन्धविद्वसंनश्रवणस्मरणगुणविवरणः
चरणारविन्दयुगलं मनसा विदधदात्मनः प्रति
घातमाशंकमानो भग्वदनुग्रहेणानुस्मृत
स्वपुर्णजन्मावलिरत्मानमुन्मत्तजडान्धबधिर
स्वरुपेण दर्शयामास लोकस्य ॥३॥
तस्यापि ह वा आत्मजस्य विप्रः
पुत्रास्नेहानुबद्धमना आसमावर्तनात्सम्स्कारान
यथोपदेशं विदधान उपनीतस्य च पुनः
शौचचमानादीन कर्मनियमाननभिप्रेतानपि
समशिक्षयदनुशिष्टेनहि भव्य पितुः पुत्रेणति ॥४॥
स चापि तदु ह पितृसंनिधावेवासध्रीचीन मिव
स्म करोति छन्दांस्यध्यापयिष्यन सह
व्याह्रुतिभिःसप्रवशिरस्त्रिपदीं सावित्रीं ग्रैष्म वासन्तिकान्मासान
धीयानमप्यसमवेतरुपं ग्राहयमास ॥५॥
एवं स्वतनुज आत्मन्यनुरागावेशितचितः
शौचाध्ययनव्रतनियमगुर्वनलशु श्रुषनाद्यौप
कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं
तावदनधिगतमनोरथःकलेनाप्रमत्तेन स्वयं गृह
एव प्रमत्त उपसंहृतः ॥६॥
अथ यवीयसी द्विजसते स्वगर्भजातं मिथुनं
सपन्त्या उपन्यस्य स्वयमनुसंस्थाया पतिलोकमगात ॥७॥
पितर्युपरते भ्राअर एनमतत्प्रभवविदस्त्रय्यां
विद्यायामेव पर्यवसितमतयो न परिविद्यायां
जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यव्रुत्सन्त ॥८॥
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरे
त्यभिभाष्यमाणो यदा तदनुरुपाणि प्रभाषते कर्माणि च स कार्यमाणह
परिच्छया करोति विष्टितो वेतनतो वा यात्र्चया यदृच्छया वोपसदितमल्य बहु
मिष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तं ।
नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धनुभवानन्द स्वात्मलाभाधिगमः
सुखदुःखयोर्द्वन्द्वनिमित्तयो रसम्भावितदेहाभिमानः ॥९॥
शीतोष्णवातवर्षेषु वृष इवानावृतांगः पीनः संहननागः
स्थण्डिलसंवेशनानुन्मर्दनामज्जरजसा
महामणिरिवानभिव्यक्तब्रह्मावर्चसःकुपटावृतकटिरुपवीतेनोरुमषिणा
द्विजातिरित ब्रह्माबन्धुः इति संज्ञयाऽतज्झजनावमतो विचाचार ॥१०॥
यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातुभिरपि
केदारकर्मणि निरुपितस्तदपि
करोति किन्तु न समं विषमं न्युनमधिकामिति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादी
न्यप्यमृतवदभ्यवहरति ॥११॥
अथ कदाचित्कश्चिद वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकामः ॥१२॥
तस्य ह दैवमुक्तस्य पशो पदवीं तदनुचराः परिधावन्तो
निशी निशीथसमये तमसाऽऽवृतायामनधिगतपशव
आकस्मिकेन विधिना केदारान वीरासनेने मृगवराहादिभ्यःसंरक्षमाण
मंगिरः प्रवरसुतमश्यन ॥१३॥
अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म निष्पतिं मन्यमाना
बदध्वा रशनया चण्डिकागृहामनिन्युर्मुदा विकासितवदनाः ॥१४॥
अथ पणयस्तं स्वविधिनाभिषिच्याहतेन
वाससाऽच्छाद्य भुषणलेपस्रकतिलकदिभिरुपस्कृतं
भुक्तावन्तं धूपदीपमाल्यलाजकिसलयांकुरफलोपहारोपेतया
वैशसंसंस्थाया महता गीतस्तुतिमृदंगपणवघोषेण च पुरुषपशुं
भद्रकाल्याः पुरत उपवेशयामासुः ॥१५॥
अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीं
भद्रकालीं यक्ष्यमाणस्तदभिसम्न्त्रितम असिम
अतिकरालनिशितमुपाददे ॥१६॥
इति तेषां वृषलानां रजस्तमः प्रकृतींना धन मदरजौत्सिक्तमनसां
भगवत्कलावीरकुलं कदर्थी कुत्योप्तथेन स्वैरं विहरतां
हिंसाविहाराणां कर्मातिदारुनं यदब्रह्मभुतस्य सक्षाद
ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभुतसुहृदः
सुनायामप्यननुमतमालाम्भनं तदुपलभ्य ब्रह्मातेजसातिदुर्विषहेण
दन्दह्यामनेन वपुषा सहसोच्चचाट सैव देवी भ्रद्रकाली ॥१७॥
भृशममर्शरोषवेशरभसविलसितभ्रुकुटिविटपकुटिलंदंष्ट्रारुणे
क्षणाटोपतिभयानकवदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण
विमुत्चन्ती त्त उप्तत्यं पापीयसां दुष्टांना तेनैवासिना विवृक्णशीर्ष्णा
गलात्स्रवन्तमसृगास्रवमत्युष्णं सह गणेन निपीयातिपानमदविह्ललोच्चैतरां
स्वपार्षदैः सह जगौ ननर्तच विजहार च शिरः कन्दुकलीलया ॥१८॥
एवमेव खलु महदभिचारातिक्रमः कात्स्येनात्मने फलति ॥१९॥
न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः
स्वशिश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभाव
सुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैरानां
साक्षाद्भगव्तानिमिषारिवरायुधेनाप्रमत्तेन
तैस्तैर्भावैः परिरक्ष्यमाणानां तत्पादमुलमकुतश्चि
द्भयमुपसृतानां भागवतपरमहंसानाम ॥२०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमस्कन्धे जडभरतचरिते नवमोऽध्यायः ॥९॥