ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो रजस्तमः सत्वविभक्तकर्मदृक ।
स एष सार्थोऽर्थपरः परिभ्रमन भवाटवीं याति न शर्म विन्दति ॥१॥
यस्मामिमे षण्नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात ।
गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यशोरणं वृकाः ॥२॥
प्रभुतवीरुत्तृणगुल्मगह्वरे कठोरंदशैर्मशकैरुपद्रतः ।
क्वचितु गन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्याशुरयोल्मुकग्रहम ॥३॥
निवासतोयद्रविणात्मबुद्धी स्ततस्ततो धावाति भो अटव्याम ।
क्वचिच्च वात्योत्थितपांसुधुम्रा दिशो न जानति रजस्वलाक्षः ॥४॥
अदृश्यझिल्लिस्वनकर्णशुल उलुकवाग्भिर्व्यथितानतरात्मा ।
अपूण्यवृक्षान श्रयते क्षुधार्दितो मरीचितोयान्याभिधावति क्वचित ॥५॥
क्वचिद्वितोयाः सरितोऽभियाति परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासुः ॥६॥
शुरैर्हृतस्वः क्व च निर्विण्णचेताः शोचन विमुह्यान्नुपयाति कश्मलम ।
क्वचिच्च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन्मुहुर्तम ॥७॥
चलन क्वचित्कण्टकशर्करांगध्रिर्नगारुरुक्षुर्विमनाः इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्याति वै जनाय ॥८॥
क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किंत्रिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशुकै रन्धोऽन्धकूपे पतितस्तमिस्रे ॥९॥
कर्हि स्म चित्क्षुद्ररसान विचिन्वंस्तन्माक्षिकाभिर्व्यथितो विमानः ।
तत्रातिकृच्छ्रात्प्रतिलब्धामानो बलाद्विलुम्पन्त्यथं तं ततोऽन्ये ॥१०॥
क्वचिच्च शीतातपवातवर्ष प्रतिक्रियां कर्तृमनीश आस्ते ।
क्वचिन्मिथो विपणन यच्च किंचिद विद्वेषमृच्छत्युत वित्तशाठ्यत ॥११॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन शय्यासनस्थानविहारहीनः ।
याचन परादप्रतिलब्धकामः पारक्यदृष्टिर्लभर्तेऽवमानम ॥१२॥
अन्योन्यवित्तव्यतिषंगवृद्ध वैराग्यबन्धो विवहन्मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त बाधोपसर्गैर्विहन विपन्नः ॥१३॥
तांस्तान विपन्नान हि तत्र तत्र विहाय जातं परिगृह्या सार्थः ।
आवर्ततेऽद्यापि न कंश्चिदत्र वीराध्वनः पारमुपैति योगम ॥१४॥
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन्न तु तदव्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति ॥१५॥
प्रसज्जति क्वापि लताभुजाश्रय स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन सख्यं विधत्ते बककंकगृधेः ॥१६॥
तैर्वत्र्चितो हंसकुलं समाविश न्नरोचयन शीलमुपैति वानरान ।
तज्जातिरासेन सुनर्वृतेन्द्रियः परस्परोद्वीक्षणाविस्मृतावधिः ॥१७॥
द्रुमेषु रंस्यन सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने ।
क्वचित्प्रमादद्गिरिकन्दरे पतन वल्लींगृहीत्वा गजभीत आस्थितः ॥१८॥
अतः कथत्रित्सं विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्पिन्नजया निवेशितो भ्रमत्र्जनोऽद्यापि न वेद कंचन ॥१९॥
रहुगण त्वमपि ह्याध्वनोऽस्य संन्यस्तदण्डः कृतभुतमैत्रः ।
असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम ॥२०॥
राजोवाच
अहो नृजन्माखिलजन्मशोभनं किं जन्म भिस्त्वपरैरप्यमुषिमन ।
न यदाधृषीकेशयनः कृतात्मनां महात्मनां वः प्रचुरः समागमः ॥२१॥
न ह्याद्भुतं त्वच्चरणाब्जरेणुभिर्हताहसो भक्तिरधोक्षजेऽमला ।
मौहुर्तिकाद्यस्य समागमाच्च मे दुसतर्कमुलोऽपहतोऽविवेकः ॥२२॥
नमो महदभ्योऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आबटुभ्यः ।
ये ब्राह्मणा गामवधुतलिंगाश्चरन्ति तेभ्यः शिवमस्तु राज्ञाम ॥२३॥
श्रीशुक उवाच
इत्येव्मुत्तरामातः स वै ब्रह्मार्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः
परमकारूणिकतयोपदिश्य रहुगणेन सकरुन मभिवन्दितचरण आपूर्णार्णव इव
निभृतकरणोर्म्याशयो धरणिमिमांविचचार ॥२४॥
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं
विससर्ज । एवं हि नृप भगवदाश्रितश्रितानुभावः ॥२५॥
राजोवाच
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा
स ह्यार्यमनीषया कल्पितविषयो नात्र्जसाव्युत्पन्नलोकसमाधिगमः ।
अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन निर्दिश्यतामिति ॥२६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे त्रयोदशोऽध्यायः ॥१३॥