अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं च नान्येन नोक्तं विप्रकतिं नयेत् ॥९॥
कुर्यत्प्रत्यभियोगं च कलहे साहसेषु च ।
उभयोः प्रतिभूग्राह्यः समर्थः कार्यनिर्णय ॥१०॥
निन्हवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥११॥
साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मतः ॥१२॥
देशाद्देशान्तरं याति सक्किणी परिलोढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमति च ॥१३॥
परिशुष्यत्स्व्लद्वाक्यो विरुद्धं बहु भाषते ।
वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्यपि ॥१४॥
स्व्भावाद्विकतिं गच्देन्मनोवाक्कायकर्मभिः ।
अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥१५॥
संदिग्धार्थ स्वतन्त्रो यः साधयेद्यश्र्च निष्पतेत् ।
न चाहूतो वदेत्किंचऋीनो दण्ड्यश्र्च स स्मतः ॥१६॥
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥१७॥
सपणश्र्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनमेव च ॥१८॥
छलं निरस्य भूतेन व्यवहारान्नयेन्नपः ॥
भूत४मप्यनुपन्यस्तं हीयतं व्यवहारतः ॥१९॥
निन्हुते लिखितं नैकमेकदेशे विभावितः
दाप्यं सर्व नपेणार्थो न ग्राह्यस्त्यनिवेदितः ॥२०॥
स्मत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥२१॥
प्रमाणं लिखितं भुक्तिः साक्षिणश्र्चोति कीर्तितम् ।
एषामन्यतमाभोव दिव्यान्यममुच्यते ॥२२॥
सर्वेष्वर्थविवादेषु वलवत्युत्तरा क्रिया ।
आर्धो प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥२३॥
पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥२४॥
आधिसीमोपनिक्षेपजडबालधनौर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥२५॥
आध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥२६॥
आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् ।
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥२७॥
आगमस्तु कतो येन सोऽभियुक्तस्तमुद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥२८॥
योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विनाकता ॥२९॥
नपेणाधिकताः पूगाः श्रेणयोऽथ कुलानि च ।
पूर्व पूर्व गुरु व्यवहारविधौ नणाम् ॥३०॥
बलोपाधिविनिर्वत्तान् व्यवहारान्निवर्तयेत् ।
स्त्रीनक्तमन्तरागारबहिःशत्रुकतांस्तथा ॥३१॥
मत्तोन्मत्तार्तव्यसनिबालभीतादयो जिताः ।
असंबन्धकतश्र्चैव व्यवहारो न सिध्यति ॥३२॥
प्रनष्टाधिगतं देयं नपेण धनिने धनम् ।
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥३३॥
राजा लध्वा निधिं दद्याद्द्विजेभ्योऽर्द्धं द्विजःपुनः ।
विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥३४॥
इतरेण निधौ लब्धे राजा पष्ठांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥३५॥
देय चौरहतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥३६॥