व्यवहाराध्यायः - ऋणादानप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


अशीतिभागो वद्धिः स्यान्मासि मासि सबन्धके ।

वर्णक्रमाच्छताद्वित्रिचतुःपञ्चकमन्यथा ॥३७॥

कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।

दद्युर्वा स्वकतां वद्धिं सर्वे सर्वासु जातिषु ॥३८॥

संततिस्तु पशुस्त्रीणा रससयाष्टगुणा परा ।

वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥३९॥

प्रपन्नं साध्यन्नर्थ न वाच्यो नपतेर्भवेत् ।

साध्यमानो नपं गच्छन् दण्ड्यो दाप्यश्र्च तद्धनम् ॥४०॥

गहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः ।

दत्वा तु ब्राह्मणायैव नपतेस्तदनन्तरम् ॥४१॥

राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम् ।

पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥४२॥

हीनजाति परिक्षीणमणार्थ कर्म करायेत् ।

ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥४३॥

दीयमानं न गह्णाति प्रयुक्तं यः स्वकं धनम् ।

मध्यस्थस्थापितं चेत्स्याद्वर्धते न ततः परम् ॥४४॥

अविभक्तैः कुटुंबार्थे यद्दणं तु कतं भवेत् ।

दद्यस्तिद्रिक्थिनः प्रेते प्रोषिते वा कुटभ्बिनि ॥४५॥

न योषित्पतिपुत्राभ्यां न पुत्रेण कतं पिता ।

दद्यादते कुटंबार्थान्न पतिः स्त्रीकतं तथा ॥४६॥

सुराकामद्यूतकतं दण्डशुल्कावाशिष्टकम् ।

वथादानं तथैवैह पुत्रो दद्यान्न पैतकम् ॥४७॥

गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।

ऋणं दद्यात्पतिस्तासां यस्माद्वत्तिस्तदाश्रया ॥४८॥

प्रतिपन्न स्त्रिया देयं पत्या वा सह यत्कतम् ।

स्वयं कतं वा यदणं नान्यत्स्त्री दातुमर्हति ॥४९॥

पितरि प्रेषिते प्रेते व्यसनाभिप्लुतेऽपि वा ।

पुत्रपौत्रैर्ऋणं देयं निन्हवे साक्षिभावितम् ॥५०॥

रिक्थाग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च ।

पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥५१॥

भ्रातणामथ दम्पत्योः पितुः पुत्रस्य चैव हि ।

प्रातिभाव्यमणं साक्ष्यमाविभक्ते न तु स्मतम् ॥५२॥

दर्शने प्रत्यये दाने प्रतिभाव्यं विधीयेते ।

आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥५३॥

दर्शनप्रतिभूर्यत्र मतः प्रात्ययिकोऽपि वा ।

न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥५४॥

बहवः स्युर्यदि सवांशैर्दद्युः प्रतिभुवो धनम् ।

एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥५५॥

प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् ।

द्विगुणं प्रतिदातव्यमणिकैस्तस्य तद्भवेत् ॥५६॥

सन्ततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च ।

वस्त्रं चतुर्गुण प्रोक्तं रसश्र्चाष्टगुणस्तथा ॥५७॥

आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते ।

काले कालकतो नश्येत्फलभोग्यो न नश्यति ॥५८॥

गोप्याधिभोगे नो वद्धिः सोपकारेऽथ हापिते ।

नष्टो देयो विनष्टश्र्च दैवराजकताद्दते ॥५९॥

आधेः स्वीकरणात्सिद्धि रक्ष्यमाणेऽप्यसारताम् ।

यातश्र्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥६०॥

चारित्रबन्धककतं सवद्ध्य़ा दापयेद्धनम् ।

सत्यङ्काकतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥६१॥

उपस्थितस्य भोक्तव्य आधिस्तेनोऽन्यथा भवेत् ।

प्रयोजके सति धनं कुलेऽन्यस्याधिमान्पुयात् ॥६२॥

तत्कालकतमूल्यो वा तत्र तिष्ठेदवद्धिकः ।

विना धारणिकाद्धापि विक्रीणीत ससाक्षिकम् ॥६३॥

यदा तु द्विगुणीभूतमणमाधौ तदा खलु ।

मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP