( १)
स्तम्भः कडकडशद्धैः सुरकुलभय भीतम्
पुलकित विव्हल मानस ब्रह्मादिक जातम् ।
भूधर कम्पित शिखरं गुरगुर शब्दयुतम् ।
सागर सरिता उदकं समये सन्तप्तम् ॥
जयदेव जयदेव लक्ष्मीनरसिंहम्
भगनग नाशन वज्रं सुखदायक देवम् ॥धृ॥
कांचनमणि भूषं रणशोभित देहं
कण्ठेशोभित शुभ्रं अतिसुन्दर हारम् ।
जगद्वने मण्डित स्वच्छं चपला इव वस्त्रम्
दशनखछिद्यं स्थूलं दुर्धर अरिउदरम् ॥२॥धृ . ॥
प्रह्रादोत्तम भक्तः स्पर्शित द्वे चरणे
नानागीतै र्वाद्यैः स्तुतदेवस्तवनम् ।
सागरतनुजा सहितं यस्याति श्रीवदनम्
खद्याक्षर सुतवरदं नित्यमहोरात्रम् ॥३॥धृ . ॥
( २)
कडकडकडशब्दै स्फाटितमिव स्तम्भम्
चंचलचपलोद्भव गडगड घोषनभम् ।
भडभड प्रचण्डमारुत सरिताब्धिस्तब्धम्
स्वर्गे विबुधप्रेरित तेजोमय अभ्रम् ।
जयदेव जयदेव श्री लक्ष्मीनरसिंहम्
भवभयहारकनामं अमराधिपदेवम् ॥धृ . ॥
स्तम्भोभ्दवावतारं प्रकटितहरिवदनम्
जिह्रारक्ता लबथब शशिरिव रदनम् ।
अकुलितकेशं थरथर कम्पितत्रैलोक्यम् ॥२॥धृ . ॥
कण्ठे रत्नविभूषितमौक्तिक बहुहारम् ।
मित्रोदयसमकुंडलकांचनमिवदेहम् ।
करधृतशंखं चक्रं तेजोमयसारम्
फणीन्द्रमुकुटे छायादृढछत्राकारम् ॥३॥धृ . ॥
कटिशोभितपीतंपीतांबरवस्त्रम्
वज्रनखादशनाति तीक्ष्णाः एवम् ।
हिरण्यकशिपोदरछेदितअतिरोषम्
भक्ताग्रजपदवन्दितमानससन्तोषम् ॥४॥धृ . ॥
ब्रह्मादिकसुरस्तवितं नानाध्वनिवाद्यम्
प्रसन्नवदनं देवं श्रीलक्ष्मीसहितम् ।
दर्शनमात्रे नाशितकृताघसमुदायम्
विठ्ठल तनयं पालय कुलस्वामिन्सदय ॥५॥धृ . ॥
( ३)
प्रह्रादं निजदासं कृतवह्रिग्रासम्
विषगिरिपतनक्लेशं अचलितपदभासम् ।
ज्ञात्वा भक्तक्लेशं अतीव क्रोधयुतम्
स्तम्भे चकार वासं भयदाहाहासम् ॥१॥
जयदेव जयदेव जय श्री नरसिंहा ।
ममह्रतकाननषड्वारणासिंहा ।
यस्मिन्गर्जति चण्डं सकलं ब्रह्माण्डम् ।
ब्रह्मा कलयति खण्डं पतितं करिगण्डम् ।
आखण्डलकोदण्डं गलितं शशिखण्डम्
रविमण्डलत्कुण्डं कुण्डलभूखण्डम् ॥२॥धृ . ॥
यत्कोपानलदहनं संचारितगगनम्
हिरण्यकशिपु स्वाङ्के कारितवरशयनम् ।
ददार वक्षः सदनं करजैः सुरकदनम्
तद्रक्तांकितवदनं ध्याये हरिवदनम् ॥३॥
जयदेव जयदेव .... ॥धृ . ॥
( ४)
स्तम्भस्फोटितप्रकटितविकटाकृतिघटनम्
चम्पाज्झम्पितगर्जितप्रलयाम्बुदरवणम् ।
दंष्ट्रांकुरललजिह्राज्वनोज्वलनयनम्
अद्भुततममहमीडे कण्ठीरववदनम् ॥१॥
जयदेव जयदेव जय कमलाजाने ।
त्वामेवाखिलशरणं करुणालय जाणे ॥धृ . ॥
अ किमिचित्रासदं वा लिंगित पुरहरणम् ।
चल जलजोछलदं अधिपतिबलिहरणम् ।
चिंकृतिसंकोचितश्री दिग्गजगजवरणम्
सिम्हध्वनिना अग्रे आंदोलितभवनम् ॥२॥धृ . ॥
छत्रितफणिपतिमिंदुभमर्कमहःपिंडम्
चक्रपिनाकवराभयमंडितभुजदण्डम् ।
त्रयक्षमलाक्षचरित्रं चित्राकृतिचण्डम् ॥३॥धृ . ॥
भक्तांतरभवलोकितसगुणोदरदारम्
शम्भोत्तर खरनखरैरसरोदर दारम् ।
भक्तः भ्रातत्तया तत् पूरित कृत हारम्
प्रह्रादप्रिय मीडे कृतदनुदोद्धारम् ॥४॥धृ . ॥
लक्ष्मीवरगुणपावन पावनगुणसिंधो ।
खिर्डामाणिकमानसुखकरबंधो ।
देहिसदांबुदवर्षं भवतिभवबंधो
बध्दांजलिरिति नाथं नाथ दयासिंधो ॥५॥धृ . ॥
( ५)
त्रातुं दितिजत्रस्तं त्रिभुवनमसहायम् ।
धृतवानसि परमाद्भुत कण्ठीरवकायम् ॥
ध्यात्वा मनुजो भक्त्या त्वा प्रातः सायम् ।
हित्वोघौघं लभते स्थानं निरपायम् ॥१॥
जयदेव जयदेव जय भगवन् नृहरे परमात्मन् नृहरे ।
नित्य्म वासं कल्पय मच्चेतः कुहरे ॥ जयदेव जयदेव ॥धृ . ॥
कुरुतेऽनन्यमना यदि तव चरणस्मरणम् ।
तीर्त्वा विपदं धत्तेऽन्तक मूर्धनिचरणम् ॥
बाल्यात्प्रभृतिगतो यस्त्वां भगवन् शरणम् ।
न्सोऽसुखंशविभूषण मत्रोदाहरणम् ॥२॥
सर्वान्तर्याम्यहमिति बोदयितुं स्तम्भम् ।
भित्वाऽऽविरभूत बिभ्रत् गुरुतरसंरभम् ॥
दारित दनुजोरस्कं लालित तड्डिंभम् ॥
कस्त्वां स्तोतुमलं जितवेदवचोदम्भम् ॥३॥
दृष्टा रुपं घोरं व्यथिताखिललोकम् ॥
तुष्टावामरनिकरो विरचितसुश्लोकम् ॥
नतिमात्रेण रुपं तेऽशमयद्रिपुतोकम् ।
रुपं तत्तिष्ठतुमे ह्रदिसदयाऽऽलोकम् ॥४॥
( कै. म. म. केशव गोपाल ताह्मनकृत )