विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य ॥१॥
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः )
विरक्तस्य तत्सिद्धेः ॥२॥
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः )
न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् ॥३॥
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः )
बहुभृत्यवद्वा प्रत्येकं ॥४॥
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः )
प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः ॥५॥
(पुरुषे स्रष्टृत्वनिराकरणं )
कार्यतस्तत्सिद्धेः ॥६॥
(पुरुषे स्रष्टृत्वनिराकरणं )
चेतनोद्देशान्नियमः कण्टकमोक्षवत् ॥७॥
(पुरुषे स्रष्टृत्वनिराकरणं )
अन्ययोगे ऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् ॥८॥
(पुरुषे स्रष्टृत्वनिराकरणं )
रागविरागयोः योगः सृष्टिश्च ॥९॥
(सृष्टिं प्रति मुख्यं निमित्तकारणं )
महदादिक्रमेण पञ्चभूतानां ॥१०॥
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः )
आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः ॥११॥
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः )
दिक्कालावाकाशादिभ्यः ॥१२॥
(दिक्कालयोः सृष्टिः )
अध्यवसायो बुद्धिः ॥१३॥
(महत्तत्व स्वरूप कार्यादिः )
तत्कार्यं धर्मादि ॥१४॥
(महत्तत्व स्वरूप कार्यादिः )
महदुपरागाद्विपरीतं ॥१५॥
(महत्तत्व स्वरूप कार्यादिः )
अभिमानो ऽहङ्कारः ॥१६॥
(अहङ्कारतत्वस्वरूपकार्यादिः )
एकादश पञ्चतन्मात्रं तत्कार्यं ॥१७॥
(अहङ्कारतत्वस्वरूपकार्यादिः )
सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात् ॥१८॥
(अहङ्कारतत्वस्वरूपकार्यादिः )
कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं ॥१९॥
(इन्द्रियाणां स्वरूपं )
आहङ्कारिकत्वश्रुतेः न भौतिकानि ॥२०॥
(इन्द्रियाणां स्वरूपं )
देवतालयश्रुतिर्नारम्भकस्य ॥२१॥
(इन्द्रियाणां स्वरूपं )
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च ॥२२॥
(इन्द्रियाणां अनित्यता )
अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने ॥२३॥
(गोलकानामेवेन्द्रियत्व निराकरणं )
शक्तिभेदे ऽपि भेदसिद्धौ नैकत्वं ॥२४॥
(एकेन्द्रियवादनिरासः )
न कल्पनाविरोधः प्रमाणदृष्टस्य ॥२५॥
(एकेन्द्रियवादनिरासः )
उभयात्मकं च मनः ॥२६॥
(मनसः ज्ञानकर्मोभयात्मकत्वं )
गुणपरिणामभेदान्नानात्वमवस्थावत् ॥२७॥
(मनसः ज्ञानकर्मोभयात्मकत्वं )
रूपादिरसमलान्त उभयोः ॥२८॥
(इन्द्रियाणां विषयाः )
द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां ॥२९॥
(इन्द्रियाणां आत्मोकारकत्वं )
त्रयाणां स्वालक्षण्यं ॥३०॥
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः )
सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च ॥३१॥
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः )
क्रमशो ऽक्रमशश्चेन्द्रियवृत्तिः ॥३२॥
(इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः )
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥३३॥
(पञ्चविधाः धीवृत्तयः )
तन्निवृत्तावुपशान्तोपरागः स्वस्थः ॥३४॥
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः )
कुसुमवच्च मणिः ॥३५॥
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः )
पुरुषार्थं करणोद्भवो ऽप्यदृष्टोल्लासात् ॥३६॥
(इन्द्रियप्रवृत्त्युपाधिः )
धेनुवद्वत्साय ॥३७॥
(इन्द्रियप्रवृत्त्युपाधिः )
करणं त्रयोदशाविधं अवान्तरभेदात् ॥३८॥
(करणानां त्रयोदशत्वं )
इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् ॥३९॥
(करणानां त्रयोदशत्वं )
द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु ॥४०॥
(करणेषु गौणमुख्यभावव्यवस्था )
अव्यभिचारात् ॥४१॥
(करणेषु गौणमुख्यभावव्यवस्था )
तथाशेषसंस्काराधारत्वात् ॥४२॥
(करणेषु गौणमुख्यभावव्यवस्था )
स्मृत्यानुमानाच्च ॥४३॥
(करणेषु गौणमुख्यभावव्यवस्था )
सम्भवेन्न स्वतः ॥४४॥
(करणेषु गौणमुख्यभावव्यवस्था )
आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् ॥४५॥
(करणेषु गौणमुख्यभावव्यवस्था )
तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् ॥४६॥
(करणेषु गौणमुख्यभावव्यवस्था )
समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् ॥४७॥
(करणेषु गौणमुख्यभावव्यवस्था )