पञ्चाभिबुद्धयः ॥१॥
पञ्च कर्मयोनयः ॥२॥
अञ्च वायवः ॥३॥
पञ्च कर्मात्मानः ॥४॥
पञ्चपर्वाविद्या ॥५॥
अष्टाविंशतिधाशक्तिः ॥६॥
नवधा तुष्टिः ॥७॥
अष्टधा सिद्धिः ॥८॥
दशमूलिकार्थाः ॥९॥
अनुग्रहः सर्गः ॥१०॥
चतुर्दशविधो भूतसर्गः ॥११॥
त्रिविधो बन्धः ॥१२॥
त्रिविधो मोक्षः ॥१३॥
त्रिविधं प्रमाणं ॥१४॥
त्रिविधं दुःखं ॥१५॥
एतत्परं याथातथ्यं ॥१६॥
एतत्ज्ञात्वा कृतकृत्यः स्यात् ॥१७॥
नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते ॥१८॥