संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| षष्ठो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - षष्ठो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत पदवाक्यविवेकः Translation - भाषांतर पदवाक्यविवेकः व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टस्तदभिधेयो ऽर्थस्तौ पदम् ।तस्य पञ्च वृत्तयः सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः, कृद्वृत्तिः, तिङ्वृत्तिश्च ।गौरश्वः पुरुषो हस्तीति जातिवाचिनः शब्दाः ।हरो हरिर्हरण्यगर्भः काल आकाशं दिगिति द्रव्यवाचिनः ।श्वेतः कृष्णो रक्तः पीत इति च गुणवाचिनुः ।पाचकः पाठक इति क्रियावाचिनः प्रादयश्चादयश्वासत्त्ववचनाः ।नगरमुप प्रस्थितः पन्थाः, वृक्षमनु द्योतते विद्युदिति कर्मप्रवचनीयाः ।"सेयं सुब्वृत्तिः पञ्चतय्यपि वाङ्मयस्य माता"इति विद्वांसः ।सुब्वृत्तिरेव समासवृत्तिः ।व्याससमासावेसानयोर्भेदहेतू ।सा च षोढा द्वन्दादिभेदेन ।तत्र पट्समासीसमाससूक्तम्- "द्वन्दो ऽस्मि द्विगुरस्मि च गृहे च मे सततमव्ययीभावः ।तत्पुरुष कर्म धारय येनाङ्गं स्यां बहुव्रीहिः" ॥तद्वितवृत्तिः पुनरनन्ता ।तद्धि शास्त्रप्रायोवादो यदुततद्धितमूढाः पाणिनीयाः ।माञ्जिष्टं रौचनिकं सौरं सैन्धवं वैयासीयमिति वद्धितान्ताः ।प्रातिपदिकविषया चेयम् ।कृद्वृत्तिश्च धातुविषया ।कर्त्ता हर्त्ता कुम्भकारो नगरकार इति कृदन्ताः ।तिङ्वृत्तिर्दशधा दशलकारीभेदेन ।द्विधा च सा धातुसुब्धातुविषयत्वेन ।अपाक्षीत् पचति पक्ष्यतीति धातवीयान्याख्यातानि ।अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौब्धातवीयानि ।तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्त्रीयमानमानन्त्याय कल्पते ।तज्जन्मा चैष विदुषां वादो यत्किल दिव्यं समासहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता तथापि नान्तः शब्दराशेरासीत् ।तत्र दयितसुब्वृत्तयो विदर्भाः ।वल्लभसमासवृत्तयो गौडाः ।प्रियतद्धिता दाक्षिणात्याः ।कृत्प्रयोगरुचय उदीच्याः ।अभीष्टतिङ्गवृत्तयः सर्वे ऽपि सन्तः ।तेषां च विशेषलक्षणानुसन्धानेनावर्द्धताख्यातगणः ।उक्तञ्च- "विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये ।आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते" ॥पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम् ।"तस्य च त्रिधाभिधाव्यापारः" इत्यौद्भटाः ।वैभक्तः शाक्तः शक्तिविभक्तिमयश्च ।प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः ।लुत्पास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ शाक्तः ।उभयात्मा च शक्तिविभक्तिमयः ।तत्र वैभक्तः- "नमस्तस्मै वराहाय लीलयोद्धरते महीम् ।खुरयोर्मध्यगो यस्य मेरुः खणखणायते" ॥शक्तिः- "वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः ।अधिष्टितौदार्यगुणो ऽसिपत्रजितावनिर्नास्ति नृपस्त्वदन्यः" ॥यथा वा- "कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः ।हरिभीत्याश्रिताशेषकालियाहिकुला इव" ॥शक्तिविभक्तिमयः- "अथागादेकदा स्पष्टचतुराशामुखद्युतिः ।तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः" ॥तत्र वाक्यं दशधा ।एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्यातम्, एकाभिधेयाख्यातं, परिणताख्यातम्, अनुवृत्ताख्यातं, समुचुताख्यातम्, अध्याहृताख्यातं, कृदभिहिताख्यातम्, अनपेक्षिताख्यातमिति ॥तत्रैकाख्यातम्- "जयत्येकपदाक्रान्तसमस्तभुवनत्रयः ।द्वितीयपदविन्यासव्याकुलाभिनयः शिवः" ॥अनेकाख्यातम्- तच्च द्विधा सान्तरं निरन्तरम् ॥तयोः प्रथमम्- "देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च ।प्राग्भेजिरे च परितो बहु मेनिरे च ट स्वाग्रेसरं विदधिरे च ववन्दिरे च" ॥द्वितीयम्- "त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि ।आःसे निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे ब्रुडसि मेघसि मोदसे च" ॥"आख्यातपरतन्त्रघा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः ।"एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्तेरेकमेवेदं वाक्यम्" इति यायावरीयः ।आवृत्ताख्यातम्- "जयत्यमलकौस्तुभस्तबकितांसपीठो हरिर् जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमः ।ततो जयति मल्लिका तदनु सर्वसंवेदना-विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः" ॥एकाभिधेयाख्यातम्- "हृष्यति चूतेषु चिरं तुष्यति बकुलेषु भोदते मरुति ।इह हि मधौ कलकूजुषु पिकेषु च प्रीयते रागी" ॥परिणताख्यातम्- "सो ऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः ।ते च चैत्रे विचित्रैलाकक्कोलीकेलयो ऽनिलाः" ॥अनुवृत्ताख्यातम्- "चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः ।चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते" ॥समुचिताख्यातम्- "परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् ।मनो गन्त्रीव कुपथे चीत्करोति च याति च" ॥यथा च- "स देवः सा दंष्ट्रा किटिकृतविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति च ।उदञ्चद्भियस्तरलितनिवेशा वसुमत्ती यदग्रे यच्छ्रवासैर्गिरिगुडकलीलामुदवहति" ॥अध्याहृताख्यातम्- "दोर्दण्डताण्डवभ्रष्टमुडुखण्डं बिभर्ति यः ।व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः" ॥कृदभिहिताख्यातम्- "अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथोदयं ।विनयवाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः" ॥अनपेक्षिताख्यातम्- "कियन्मात्रं जलं विप्र? जानुदध्नं नराधिप ।तथापीयमवस्था ते न सर्वत्रघ भवादृशाः" ॥गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् ॥"असत्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्"इत्येके ॥यथा- "स्तेमः स्तोको ऽपि नाङ्गे श्रसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुतमथ च वयं को ऽयमीदृक्प्रकारः ।इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ॥यथा च - "भ्रश्यद्भूग्नभोगीश्वरफणपवनाध्मातपातालतालुः त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः ।उद्यन्निरन्ध्रलीविधुरसुरवधूमुच्यमानोपशल्यः कल्योद्योगस्य यस्य त्रिभुवनदमनः सैन्यसंमर्द आसीत्" ॥आहुश्च- "दृष्टं किञ्चिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्डपुराणतः परिणतं किञ्चिञ्च शास्त्रश्रुतम् ।सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः" ॥"न" इति यायावरीयः- "नासत्यं नाम किञ्चन काव्ये यस्तु स्तुत्येष्वर्थवादः ।स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च" ॥तत्र श्रौतः- "पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः ।शेरे ऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हृताः" ॥शास्त्रीयः- "आपः पवित्रं प्रथमं पृथिव्यामपां पवित्रं परमं च मन्त्राः ।तेषां च सामर्ग्यजुषां पविघत्रं महर्षयो व्याकरणं निराहुः" ॥किञ्च- "यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्वयवहारकाले ।सो ऽनन्तमान्पोति जयं परघत्र वाग्योगविदुष्यति चापशब्दैः" ॥"कः? ।वाग्योगविदेव ।कुत एतत् ? ।योहि शब्दाञ्जानात्यपशब्दानप्यसौ जानाति ।यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञघानेप्यधर्मः ।अथवा भूयानधर्मः प्रान्पोति ।भूयांसो हृपशब्दा अल्पीयांसः शब्दाः ।एकैकस्य हि शब्दस्य बहवो ऽप्रभ्रंशाः ।तद्यथा ।गौरित्यस्य शब्दस्य गावो गोणी गोता गोपातलिकेत्येवमादयो ऽपभ्रंशाः ।अथ यो ऽवाग्योगविद् अज्ञानं तस्य शरणम् ।विषम उपन्यासः ।नात्यन्तायाज्ञानं शरणं भवितुमर्हति ।यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्से ऽपि मन्ये पतितः स्यात् ।एवं तर्हि सो ऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ।कः? ।अवाग्योगविदेव ।अथ यो वाग्योगविद् विज्ञघानं तस्य शरणम् ।क्व पुनरिदं पठितम्? ।भ्राजा नाम श्लोकाः ।किञ्च भोः श्लोका अपि प्रमाणम्? ।किञ्चातः? ।यदि प्रमाणमयमपि श्लोकः प्रमाणं भवितुमर्हति ।" "यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् ।पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्" ॥इति ।"प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव"इति गोनर्दीयः ।लौकिकः- "गुणानुरागमिश्रेण यशसा तव सर्पता ।दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" ॥"असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्" इत्यपरे ।यथा एवं- "वयं बाव्ये डिम्भांस्तरुणिमनि यूनः परिणताव् अपीच्छामो दृद्धान्परिणयविधेस्तु स्थितिरियम् ।त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोघत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्" ॥"अस्त्ययमुपदेशः किन्तु निषेध्यत्वेन न विधेत्वेन" इति यायावरीयः ।य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबुध्येतेति कवीनां भावः ।किञ्च कविवचनायत्ता लोकयात्रा ।"सा च निःश्रेयसमूलम्" इति महर्षयः ।यदाहुः- "काव्यमय्यो गिरो यावञ्चरन्ति विशदा भुवि ।तावत्सारस्वतं स्थानं कविरासाद्य मोदते" ॥किञ्च- "श्रीमन्ति राज्ञां चरितानि यानि प्रभुत्वलालाश्व सुधाशिनां याः ।ये च प्रभावास्तपसामृषीणां ताः सत्कविभ्यः श्रुतयः प्रसूताः" ॥उक्तञ्च- "ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।राज्ञा समो ऽस्ति न कवेः परमोपकारी राज्ञे न चास्ति कविना सदृशः सहायः" ॥"बल्मीकजन्मा स कविः पुराणः कवीश्वरः सत्यवतीसुतश्च ।यस्य प्रणेता तदिहानवद्यं सारस्वतं वर्त्म न कस्य वन्द्यम् ?" ॥"असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्" इति च केचित् ।यथा- "प्रसर्पन्प्रग्रीवैर्भृतभ्रुवनकुक्षिर्झणझणा-करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु ।विलासव्यत्यासाज्जघनफलकास्फालनघन-स्फुदच्छेदोत्सोक्तः कलकनककाञ्चीकलकालः" ॥अपि च- "नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-ताटङ्कतानविपण्डुरगण्डलेखाः ।स्निह्यन्तु रत्नरशनारणनाभिराम-कामार्तिनर्तितनितम्बतटास्तरुण्यः" ॥"प्रकमापन्नो निबन्धनीय एवायमर्थः" इति यायावरीयः ।यदिदं श्रुतौ शास्त्रे चोपलभ्यते ।तत्र याजुषः- "उपोप मे परामृश मा मे दभ्राणि मन्यथाः ।सर्वाहमस्ति रोमशा गान्धारीणामिवाविका" ॥शास्त्रीयः- "यस्याः प्रसन्नधवलं चश्रुः पर्यन्तपक्ष्मलम् ।नवनीतोपमं तस्या भवति स्मरमन्दिरम्" ॥पदवाक्यविवेको ऽयमिति किञ्चित्प्रञ्चितः ।अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे षष्ठो ऽध्यायः पदवाक्यविवेकः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP