काव्यमीमांसा - षोडशो ऽध्यायः
संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।
स्वर्ग्यपातालीयकविरहस्य (समय)स्थापना भौमवत्स्वर्ग्यो ऽपि कविसमयः, विशेषस्तु चन्द्रमसि शशहरिणयोरैक्यम् ।
यथा- "मा भैः शशाङ्क? मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि ।
प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्" ॥
यथा च - "अङ्काधारोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्टुरक्षित्पमृगयूतो मृगाधिपः" ॥
कामकेतने मकरमत्स्ययोरैक्यं यथा- "चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतोलक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते ।
दग्धा कापि तवाकृतेः प्रतिकृतिः कामो ऽसि किं गूहसे रुपं दर्शय नात्र शङ्करभयं सर्वे वयं वैष्णवाः" ॥
यथा च- "मीनध्वजस्त्वमसि नो न च षुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि ।
इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः" ॥
यथा च - "आपातमारुतविलोडितसिन्धुनाथो हात्कारभीतपरिवर्त्तितमत्स्यचिह्वाम् ।
उल्लङ्घ्य यादवमहोदधिभीमवेलां द्रोणाचलं पवनसूनुरिवोद्धरामि" ॥
अत्रिनेत्रसमुद्रोत्पन्नचन्द्रयोरैक्यम् - "वन्द्या विश्वसृजो युगादिगुरवः स्वायम्भुवाः सत्प ये तत्रात्रिर्दिवि सन्दधे नयनजं ज्योतिः स चन्द्रो ऽभवत् ।
एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्यो ऽमृतमाप्नुवन्ति च सदा स्वाहास्वधाजीविनः" ॥
बहुकालजन्मनो ऽपि शिवचन्द्रमसो वालत्वम् ।
"मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुमं भवस्य ।
दाक्षायणीविभ्रमदर्पणश्रि बालेन्दुखण्डं भवतः पुनीतात्" ॥
कामस्य मूर्त्तत्वं च यथा- "अयं स भुवनत्रयप्रथितसंयमः शङ्करो बिभर्त्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः" ॥
यथा च - "धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला मनो भेद्यं शब्दप्रभृति य इमे पञ्च विशिखाः ।
इयान् जेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः" ॥
द्वादशानामप्यादित्यानामैक्यम् - "यस्याधो ऽधस्तथोपर्युपरि निरवधि भ्राभ्यतो विश्वमश्वैर् आवृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः ।
सो ऽव्यादुत्तत्पकार्त्तस्वरसरलशरस्पर्द्धिभिर्द्धामदण्डैर् उद्दण्डैः प्रापयन्वः प्रयुरतमतमः स्तोममस्तं समस्तम्" ॥
नारायणमाधवयोश्च यथा- "येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधे ऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सो ऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः" ॥
एवं दामोदरशेषकूर्मादेः ।
कमलासम्पदेश्च यथा- "दोर्मन्देरितमन्दरेण जलधेरुत्थापिता या स्वयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तभ्भयत् ।
तां लक्ष्यीं पुरुषोत्तमः पुनरसौ लीलाञ्चितभ्रूलता-निर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम्" ॥
भौमस्वर्ग्यवत्पातालीयो ऽपि कविसमयः ।
तत्र नागसर्पयोरैक्यम् - "हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः ।
सोढाविषह्यवृषवाहनयोगलीला-पर्यङ्कबन्धनविधेस्तव को ऽतिभारः" ॥
दैत्यदानवासुराणामैक्यम्, यथा तत्र हिरण्याक्षहिरण्यकशिप्रुप्रह्लादविरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोमप्रभृतयो दानवाः, वलवृत्रविक्षुरस्तवृषपर्वादयासुराः ।
तेषामैक्यं यथा- "जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः" ॥
यथा च - "तं शम्बरासुरशराशनिशल्यसारं केयूररत्नकिरणारुणबाहुदण्डम् ।
पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्त्रितयं जयेत्कः" ॥
यथा च- "अस्ति दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ।
प्रथयन्ति बलं बाह्वो सितच्छत्रस्मिताः श्रियः" ॥
यथा च-हयग्रीवं प्रति- "दानवाधिपतेः भूयो भुजो ऽयं किं न नीयते ।
सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु" ॥
यथा च- "महासुरसमाजे ऽस्मिन् न चैको ऽप्यस्ति सो ऽसुरः ।
यस्य नाशनिनिष्पेषनीराजितमुरः स्थलम्" ॥
एवमन्ये ऽपि भेदाः - "सो ऽयं कवीनां समयः काव्ये सुत्प इव स्थितः ।
स साम्प्रतमिहास्माभिर्यथाबुद्धि बिबोधितः" ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे स्वर्ग्यपातालीयकविसमयस्थापना षोडशो ऽध्यायः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP