वेतालपञ्चविंशति - कथा ७

बेताल पचीसी  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


ततः गत्वा पुनः प्राप्य वेतालम् शिंशपातरोः ।
सः त्रिविक्रमसेनः तम् स्कन्धे जग्राह भूपतिः ॥१॥

गृहीत्वा प्रस्थितम् तम् च वेतालः सः अब्रवीत् पथि ।
राजन् श्रमविनोदार्थम् कथाम् आख्यामि ते शृणु ॥२॥

अस्ति इह ताम्रलिप्ती इति पुरी पूर्वाम्बुधेः तटे ।
चण्डसेनाभिधानः च राजा तस्याम् अभूत् पुरि ॥३॥

पराङ्मुखः परस्त्रीषु यः न सङ्ग्रामभूमिषु ।
हर्ता च शत्रुलक्ष्मीणाम् न परद्रव्यसंपदाम् ॥४॥

तस्य एकदा दाक्षिणात्यः राजपुत्रः जनप्रियः ।
आययौ सत्त्वशील- आख्यः सिंहद्वारे अत्र भूपतेः ॥५॥

तत्र च आत्मानम् आवेद्य नैर्धन्य- आत्तम् नृपम् प्रति ।
कपटम् पाटयामास राजपुत्रैः सहापरैः ॥६॥

ततः कार्पटिकः भूत्वा बहूनि अब्दानि तत्र सः ।
तस्थौ कुर्वन् सदा सेवान् न एव प्राप फलम् नृपात् ॥७॥

यदि राजान्वये जन्म निःधनत्वम् किम् ईदृशम् ।
निःधनत्वे अपि किम् धात्रा कृता इयम् मे महा- इच्छता ॥८॥

अयम् हि सेवमानम् माम् एवम् क्लिष्टपरिच्छदम् ।
चिरम् क्षुधा- अवसीदन्तम् राजा न अद्य अपि वीक्षते ॥९॥

इति यावत् च सः ध्यायति अत्र कार्पटिकः ततः ।
तावत् आखेटकार्थम् सः निरगात् एकदा नृपः ॥१०॥

तस्मिन् कार्पटिके धावति अग्रे लगुडवाहिनि ।
जगाम च अश्वपादातयुतः सः अथ मृगाटवीम् ॥११॥

कृत- आखेटः च तत्र आरात् महान्तम् मत्तसूकरम् ।
अनुधावन् क्षणात् प्रापत् अतिदूरम् वनान्तरम् ॥१२॥

तत्र पर्णतृणछन्नमार्गे हारितसूकरः ।
श्रान्तः महावने सः अथ राजा दिक्मोहम् आययौ ॥१३॥

एकः कार्पटिकः च अथ सः तम् वाताश्वपृष्ठगम् ।
प्रानानपेक्षः अनुययौ पदातिः क्षुत्तृषा- अर्दितः ॥१४॥

तम् च दृष्ट्वा तथाभूतम् अन्वायातम् सः भूपतिः ।
सस्नेहम् अवदत् कच्चिद् वेत्सि मार्गम् यथा- आगतम् ॥१५॥

तदा आकर्ण्य अञ्जलिम् बद्ध्वा सः तम् कार्पटिकः अभ्यधात् ।
वेद्मि किम् च क्षणम् तावत् इह विश्राम्यतु प्रभुः ॥१६॥

द्युवधूमेखलामध्यमणिः एषः हि संप्रति ।
देदीप्यते स्फुरत्रश्मिशिखाजालः अब्जिनीपतिः ॥१७॥

एतत् श्रुत्वा सः राजा तम् सौपरोधम् अभाषत ।
तर्हि क्व अपि इह पानीयम् भवता प्रेक्ष्यताम् इति ॥१८॥

तथा इति आरुह्य सः ततः तुङ्गम् कार्पटिकः तरुम् ।
नदीम् दृष्ट्वा अवरुह्य अथ नृपम् तत्र निनाय तम् ॥१९॥

तत् वाहम् च विपर्यानीकृतम् कृतविवर्तनम् ।
दत्ताम्बुशष्पकवलम् विदधे विगतश्रमम् ॥२०॥

कृतस्नानाय राज्ञे च प्रोन्मुच्य वसनाञ्चलात् ।
प्रक्षाल्य उपानयत् तस्मै हृद्यानि आमलकानि सः ॥२१॥

एतानि कुतः इति एतम् पृच्छन्तम् सः च भूपतिम् ।
एवम् व्यजिज्ञपत् जानुस्थितः स- आमलकाञ्जलिः ॥२२॥

एतत्वृत्तिः अहम् नित्यम् व्यतीतदशवत्सरः ।
चरामि आराधयन् देवम् अनेकान्तमुनिव्रतम् ॥२३॥

तत् श्रुत्वा सत्यनामा त्वम् सत्त्वशीलः किम् उच्यते ।
इति उक्त्वा सः कृपा- आक्रान्तः ह्रीतः च अचिन्तयत् नृपः ॥२४॥

धिक् नृपान् क्लिष्टम् अक्लिष्टम् ये भृत्येष न जानते ।
धिक् च तम् परिवारम् यः न ज्ञापयति तान् तथा ॥२५॥

इति संचिन्त्य जग्राह सः राजा आमलकद्वयम् ।
हस्तात् कार्पटिकस्य अथ कथम्चित् अनुबध्नतः ॥२६॥

भुक्त्वा च तत् निपीय अम्बु विशश्राम अत्र सः क्षणम् ।
जग्ध- आमलकसंपीतजलकार्पटिकान्वितः ॥२७॥

ततः सज्जीकृतम् तेन वाहम् कार्पटिकेन सः ।
आरुह्य अग्रेसरे तस्मिन् एव मार्गप्रदर्शिनि ॥२८॥

पश्चात्भागम् अनारूढे हयस्य अभ्यर्थिते अपि अलम् ।
ययौ सः राजा स्वपूरिम् पथि प्राप्त- आत्मसैनिकः ॥२९॥

तत्र प्रख्याप्य तत्भक्तिम् वसुभिः विषयैः च तम् ।
अपूरयत् कार्पटिकम् न च अमन्यत निष्कृतिम् ॥३०॥

ततः कृतार्थः पार्श्वे अस्य चण्डसिंहस्य भूपतेः ।
मुक्तकार्पटिक- आचारः सत्त्वशीलः सः तस्थिवान् ॥३१॥

एकदा तेन राज्ञा च सः सिंहलपतेः सुताम् ।
याचितुम् सिंहलद्वीपम् आत्मार्थम् प्रेषितः अभवत् ॥३२॥

तत्र अप्धिवर्त्मना गच्छन् अर्चिताभीष्टदेवतः ।
आरुरोह प्रवहणम् राज- आदिष्टैः सह द्विजैः ॥३३॥

गते तस्मिन् प्रवहणे मध्यभागम् अशङ्कितम् ।
उत्तस्थौ जलधेः तस्मात् ध्वजः जनितविस्मयः ॥३४॥

अभ्रम्लिहाग्रः सुमहान् जाम्बूनदविनिर्मितः ।
विचित्रवर्णविचलत्वैजयन्तीविराजितः ॥३५॥

तत्कालम् च अत्र सहसा समुन्नम्य घन- आवली ।
भृशम् वर्षितुम् आरेभे ववौ तीव्रः च मारुतः ॥३६॥

तैः वर्षवातैः सः बलात् आकृष्य आधोरनैः इव ।
आसज्यत ध्वजस्तम्भे तस्मिन् प्रवहणद्विपः ॥३७॥

तावत् च सः ध्वजः तस्मिन् वारिधौ वीचिविप्लुते ।
वहनेन समम् तेन प्रावर्तत निमज्जितुम् ॥३८॥

ततः द्विजाः ते तत्रस्थाः चण्डसिंहम् स्वभूपतिम् ।
उद्दिश्य उद्घोषयामासुः अभ्रह्मण्यम् भय- आकुलाः ॥३९॥

तत् आकर्ण्य असहिष्णुः च स्वामिभक्तेः अनुध्वजम् ।
सः सत्त्वशीलः निःत्रिंशहस्तः बद्धौत्तरीयकः ॥४०॥

आत्मानम् अक्षिपत् तत्र निःअपेक्षः महा- उदधौ ।
उदधेः कारण- आशङ्की वीरः प्रतिविधित्सया ॥४१॥

मग्ने च तस्मिन् वात- ऊर्मिदूरौत्क्षिप्तम् अभज्यत ।
वहनम् तत् च तत्स्ताः च निपेतुः यादसाम् मुखे ॥४२॥

सः च मग्नः अम्बुधौ तत्र सत्त्वशीलः निरीक्षते ।
यावत् तावत् ददर्श अत्र पुरीम् दिव्याम् न वारिधिम् ॥४३॥

तस्मिन् मणिमयस्थम्भैः भास्वरे हेममन्दिरे ।
सत्रत्नबद्धसोपानवापीकौद्यानशोभिनि ॥४४॥

नानामणिशिलाभित्तिरत्नचित्रौच्छ्रितध्वजम् ।
कात्यायनीदेवगृहम् मेरुप्रोन्नतम् ऐक्षत ॥४५॥

तत्र प्रणम्य देवीम् ताम् स्तुत्या अभ्यर्च्य ततग्रतः ।
इन्द्रजालम् किम् एतत् स्यात् इति आश्चर्याद् उपाविशत् ॥४६॥

तावत् च देवि- अग्रगतप्रभामण्डलकान्तरात् ।
अकस्मात् निरगात् कन्या दिव्या उद्घाट्य कवाटकम् ॥४७॥

इन्दी वराक्षी फुल्लाप्जवदना कुसुमस्मिता ।
मृणालनालमृदुअङ्गी जङ्गमा इव सरोजिनी ॥४८॥

स्त्रीसहस्रपरीवारा देवीगर्भगृहम् च सा ।
विवेश सत्त्वशीलस्य हृदयम् च ततः समम् ॥४९॥

निरगात् कृतपूजा च देवीगर्भगृहात् ततः ।
न पुनः सत्त्वशीलस्य हृदयात् सा कथम् चन ॥५०॥

प्राविशत् सा च तत्र एव प्रभामण्डलकान्तरे ।
सत्त्वशीलः अपि असौ तस्याः पश्चात् तत्र प्रविष्टवान् ॥५१॥

प्रविश्य च ददर्श अन्तः अन्यत् एव उत्तमम् पुरम् ।
संकेतौद्यानम् इव यत् सर्वासाम् भोगसंपदाम् ॥५२॥

तत्र अन्तःमणिपर्यङ्कनिषण्णाम् ताम् विलोक्य सः ।
कन्याम् उपेत्य तत्पार्श्वे सत्त्वशीलः उपाविशत् ॥५३॥

आसीत् च तत्मुख- आसक्तलोचनः लिखितः यथा ।
अङ्गैः सौत्कम्पपुलकैः वदन् आलिङ्गनौत्कताम् ॥५४॥

दृष्ट्वा च तम् स्मर- आविष्टम् चेटीनाम् अत्र सा मुखम् ।
अद्राक्षीत् ताः च तत्कालम् इङ्गितज्ञाः तम् अब्रुवन् ॥५५॥

अतिथिः त्वम् इह प्राप्तः तत् अस्मत्स्वामिनीकृतम् ।
भजस्व आतिथ्यम् उत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम् ॥५६॥

तत् श्रुत्वा सः अवलम्ब्य आशाम् खतम् अपि उत्थितः ततः ।
ययौ प्रदर्शिताम् ताभिः एकाम् उद्यानवापिकाम् ॥५७॥

तस्याम् निमग्नः च उत्तस्थौ ताम्रलिप्त्याम् सः तत्क्षणात् ।
चण्डसिंहनृपौद्यानवापीमध्यात् ससंभ्रमः ॥५८॥

तत्र प्राप्तम् अकस्मात् च विक्ष्य आत्मानम् अचिन्तयत् ।
अहो किम् एतत् क्व उद्यानम् इदम् दिव्यम् क्व तत् पुरम् ॥५९॥

तत्र अमृत- आसारसमम् क्व तत् तस्याः च दर्शनम् ।
क्व च अनन्तरम् एव इदम् तत्विश्लेषमहाविषम् ॥६०॥

स्वप्नः च न अयम् सुस्पष्टः विनिद्रः अनुभवः हि मे ।
ध्रुवम् पातालकन्याभिः ताभिः मूढः अस्मि वञ्चितः ॥६१॥

इति ध्यायन् विना ताम् सः कन्याम् उन्मादवान् इव ।
उद्याने तत्र बभ्राम काम- आर्तः विललाप च ॥६२॥

ततवस्थम् च तम् दृष्ट्वा पिशङ्गैः पुष्परेणुभिः ।
वातौद्धूतैः परीताङ्गम् विप्रयोगानलैः इव ॥६३॥

उद्यानपालाः गत्वा एव चण्डसिंहमहीभृतम् ।
व्यजिज्ञपन् सः च उद्भ्रान्तः स्वयम् एत्य ददर्श तम् ॥६४॥

सान्त्वयित्वा च पप्रच्छ किम् इदम् ब्रूहि नः सखे ।
क्व प्रस्थितः त्वम् क्व प्राप्तः क्व अस्तः क्व पतितः शरः ॥६५॥

तत् श्रुत्वा सः स्ववृत्तान्तम् तस्मै सर्व शशंस तम् ।
सत्त्वशीलः नृपतये सः अपि अथ एवम् अचिन्तयत् ॥६६॥

हन्त वीरः अपि मत्पुण्यैः कामेन एषः विडम्बितः ।
आनृण्यम् गन्तुम् एतस्य लब्धः हि अवसरः मया ॥६७॥

इति अन्तः चिन्तयित्वा सः वीरः राजा जगाद तम् ।
तह्रि मुञ्च मुधा शोकम् अहम् त्वाम् प्रापयामि ताम् ॥६८॥

नीत्वा तेन एव मार्गेण प्रियाम् असुरकन्यकाम् ।
इति च अश्वासयामास तम् सः स्नान- आदिना नृपः ॥६९॥

अन्येद्युः मन्त्रिविन्यस्तराज्यः तेन समम् च सः ।
प्रायात् प्रवहण- आरूढः तत्दर्शितपथः अम्बुधिम् ॥७०॥

प्राप्य तत्मध्यभागम् च दृष्ट्वा तम् प्राग्वत् उत्थितम् ।
सपताकम् ध्वजम् सत्त्वशीलः तम् नृपम् अभ्यधात् ॥७१॥

सः अयम् अभ्युत्थितः दिव्यप्रभावः अत्र महाध्वजः ।
मयि मग्ने अत्र मङ्क्तव्यम् देवेन एतम् अनु ध्वजम् ॥७२॥

इति उक्त्वा निकटम् प्राप्य ध्वजस्य अस्य निमज्जतः ।
मार्गे सः सत्त्वशीलः असौ पूर्वम् आत्मानम् अक्षिपत् ॥७३॥

ततः राजा अपि चिक्षेप तत्र आत्मानम् तथा एव सः ।
अन्तः मग्नौ च तौ क्षिप्रम् तत् दिव्यम् प्रापतुः पुरम् ॥७४॥

तत्र दृष्ट्वा सः स- आश्चर्यः राजा देवीम् प्रणम्य ताम् ।
पार्वतीम् सत्त्वशीलेन सहितः समुपाविशत् ॥७५॥

तावत् च निरगात् तत्र सा सखीजनसंगता ।
रूपिनी इव प्रभा कन्या प्रभामण्डलकात् ततः ॥७६॥

इयम् सा सुमुखी इति उक्ते सत्त्वशीलेन ताम् नृपः ।
दृष्ट्वा युक्तम् अभिष्वङ्गम् तस्य तस्याम् अमन्यत ॥७७॥

सा अपि तम् वीक्ष्य राजानम् शुभशारीरलक्षणम् ।
पुरुषातिशयः अपूर्वः कः अयम् स्यात् इति अचिन्तयत् ॥७८॥

विवेश च अम्बिकाधाम पूजायै सा नृपः अपि सः ।
जगाम उद्यानम् आदाय सत्त्वशीलम् अवज्ञया ॥७९॥

क्षणात् च कृतपूजा सा निरगात् दैत्यकन्यका ।
याचित्वा सत्पतिप्राप्तिम् देव्याः गर्भगृहान्तरात् ॥८०॥

निर्गत्य सा जगाद एकाम् सखीम् सखि गवेष्यताम् ।
यः असौ इह मया दृष्टः महा- आत्मा क्व सः तिष्ठति ॥८१॥

आतिथ्यम् गृह्यताम् एत्य प्रसादः क्रियताम् त्वया ।
इति च एषः अर्थ्यताम् पूज्यः पुमान् कः अपि उत्तमः हि असौ ॥८२॥

एवम् सखी तया उक्ता सा विचित्य उद्यानवर्तिने ।
स्वस्वामिनीनिदेशम् तम् प्रह्वा तस्मै न्यवेदयत् ॥८३॥

तत् श्रुत्वा सः नृपः वीरः सावहेलम् उवाच ताम् ।
एषैव आतिथ्यम् अस्माकम् अन्यत् किम् उपयुज्यते ॥८४॥

एतत् श्रुत्वा तया गत्वा सख्या सा श्राविता तदा ।
मेने मान्यम् उदारम् तम् सर्वथा दैत्यकन्यका ॥८५॥

ततः च आकृष्यमाना इव धैर्यपाशेन तेन सा ।
नृपेण मानुषायोग्ये अपि आतिथ्ये निःस्पृहा- आत्मना ॥८६॥

पति- अर्थम् पार्वतीसेवापरिपाकसमर्पितम् ।
मत्वा तत् स्वयम् उद्यानम् विवेश असुरपुत्रिका ॥८७॥

विचित्रशकुन- आलापैः वाताञ्चितलताभुजैः ।
विकीर्णकुसुमैः आरात् नन्द्यमाना इव पादपैः ॥८८॥

उपगम्य च सा तत्र यथावत् प्रश्रय- आनता ।
आतिथ्यग्रहणार्थम् तम् प्रार्थयामास पार्थिवम् ॥८९॥

ततः सः सत्त्वशीलम् तम् उद्दिश्य उवाच ताम् नृपः ।
अनेन कथिताम् देवीम् इह अहम् द्रष्टुम् आगतः ॥९०॥

गौरीम् ध्वजपथप्राप्यपरमाद्भुतकेतनाम् ।
सा दृष्टा तदनु त्वम् च का अन्या आतिथ्यार्थिता अत्र नः ॥९१॥

तत् श्रुत्वा सा अब्रवीत् कन्या कौतुकात् तर्हि वीक्षितुम् ।
आगम्यताम् द्वितीयम् मे पुरम् त्रिजगतद्भुताम् ॥९२॥

एवम् उक्तवतीम् ताम् च सः विहस्य नृपः अब्रवीत् ।
तत् अपि अनेन एव उक्तम् मे यत्र सा स्नानवापिका ॥९३॥

ततः सा कन्यका अवादीत् देव मा स्म एवम् आदिश ।
न विडम्बनशीला अहम् का वा पूज्ये विडम्बना ॥९४॥

अहम् हि सत्त्वौत्कर्षेण युष्माकम् किम्करीकृता ।
तन्मम प्रार्थनाभङ्गम् न एव एवम् कर्तुम् अर्हथ ॥९५॥

एतत् श्रुत्वा तथा इति उक्त्वा सत्त्वशीलसखः सः तत् ।
प्रभामण्डलकौपान्तम् ययौ राजा तया सह ॥९६॥

अपावृतकवाटे च तस्मिन् अन्तः तथा एव सः ।
प्रवेशितः ददर्श अस्याः तत् दिव्यम् अपरम् पुरम् ॥९७॥

नित्य संनद्धसर्वऋतु सदापुष्पफलद्रुमम् ।
मेरुपृष्ठम् इव अशेषम् निर्मितम् रत्नकाञ्चनैः ॥९८॥

रत्न- आसने महा- अर्हे तम् राजानम् उपवेश्य सा ।
यथा- उचित उपनीतार्घ्या दैत्यराजसुता अब्रवीत् ॥९९॥

कन्या अहम् असुरैन्द्रस्य कालनेमेः महा- आत्मनः ।
चक्रायुधेन च सः मे स्वःगतिम् प्रापितः पिता ॥१००॥

विश्वकर्मकृतम् च इदम् पैतृकम् मे पुरद्वयम् ।
न जरा अत्र न मृत्युः च बाधते सर्वकामदे ॥१०१॥

इदानीम् च पिता त्वम् मे सपुरा अहम् वशे तव ।
इति अर्पित- आत्मसर्वस्वाम् ताम् उवाच सः भूपतिः ॥१०२॥

यदि एवम् तत् सुते हि अस्मै मया दत्ता असि अनिन्दिते ।
सत्त्वशीलाय वीराय सुहृदे बान्धवाय च ॥१०३॥

एवम् देवीप्रसादेन मूर्तेन इव नृपेण सा ।
उक्ता गुणज्ञा विनता तत् तथा इति अन्वमन्यत ॥१०४॥

ततः कृतार्थम् तम् तस्याः कृतपाणिग्रहम् नृपः ।
दत्तासुरपुराइश्वर्यम् सत्त्वशीलम् उवाच सः ॥१०५॥

बुक्तयोः आमलकयोः तयोः एकम् मया तव ।
संशोधितम् असंशुद्धाद् ऋणी ते अहम् द्वितीयतः ॥१०६॥

इति प्रणतम् उक्त्वा तम् दैत्यपुत्रीम् जगाद ताम् ।
मार्गः मे दर्श्यताम् येन स्वपुरीम् प्राप्नुयाम् इति ॥१०७॥

ततः अपराजितम् नाम खड्गम् भक्ष्यम् फलम् च सा ।
एकम् जरामृत्युहरम् तस्मै दैत्यसुता ददौ ॥१०८॥

ताभ्याम् युक्तः तया उक्तायाम् वाप्यम् मग्नः स्वदेशतः ।
उत्थाय सर्वसंसिद्धकामः अभूत् सः क्रमात् नृपः ॥१०९॥

सत्त्वशीलः अपि दैत्यस्त्रीपुरराज्यम् शशास सः ।
तत् ब्रूहि कः अप्धिपतने द्वयोः सत्त्वाधिकः अनयोः ॥११०॥

इति श्रुत्वा तथा प्रश्नम् वेतालात् शपभीतितः ।
सः त्रिविक्रमसेनः तम् भूपतिः प्रत्यभाषत ॥१११॥

एतयोः सत्त्वशीलः अत्र सः मे सत्त्वाधिकः मतः ।
सः हि अविज्ञाततत्त्वार्थः निरास्थः पतितः अम्बुधौ ॥११२॥

राजा तु तत्त्वम् विज्ञाय विवेश अम्भःधिम् आस्थया ।
दैत्यकन्याम् च न अवञ्छत् असाध्या स्पृहया इति सः ॥११३॥

इति तस्य आकर्ण्य वचः निरस्तमौनस्य भूपतेः स्कन्धात् ।
सः जगाम पूर्ववत् तम् वेतालः शिंशपातरुम् स्वपदम् ॥११४॥

राजा अपि तथा एव सः तम् पुनः अपि आनेतुम् अनुजगाम जवात् ।
प्रारब्धे हि असमाप्ते कार्ये शिथिलीभवन्ति किम् सुधियः ॥११५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP