वेतालपञ्चविंशति - कथा १८

`बेताल पचीसी'  पच्चीस कथाओं से युक्त एक ग्रन्थ है । इसके रचयिता बेतालभट्ट बताये जाते हैं जो न्याय के लिये प्रसिद्ध राजा विक्रम के नौ रत्नों में से एक थे । ये कथायें राजा विक्रम की न्याय-शक्ति का बोध कराती हैं ।


ततः पितृवने तस्मिन् क्रव्यभक्षिभिः आवृते ।
ज्वालाविलोलरसनैः भूतैः इव चिता- अग्निभिः ॥१॥

गत्वा एव तस्याम् अक्षोभ्यः क्षपायाम् शिंशपातरुम् ।
सः त्रिविक्रमसेनः तम् आससाद पुनः नृपः ॥२॥

तत्र अपश्यत् च वेतालविकृतान् सदृश- आकृतीन् ।
उल्लम्बमानान् सुबहून् प्रेतकायान् अशङ्कितम् ॥३॥

अहो किम् एतत् किम् वा अन्यत् मायी कालम् क्षिपति अयम् ।
वेतालः मे न वेद्मि एषाम् ग्राह्यम् येन इह भूयषाम् ॥४॥

असिद्धार्थस्य चेत् रात्रिः इयम् मम गमिष्यति ।
ततः वह्निम् प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ॥५॥

इति चिन्तयतः तस्य राज्ञः विज्ञाय निश्चयम् ।
सत्त्वतुष्टः सः वेतालः स्वमायाम् संजहार ताम् ॥६॥

ततः दृष्ट्वा एकम् एव अत्र वेतालम् नृकलेवरे ।
अवतीर्य गृहीत्वा अंसे सः प्रतस्थे पुनः नृपः ॥७॥

प्रक्रामन्तम् च तम् भूयः सः वेतालः अभ्यभाषत ।
राजन् न उद्विजसे चित्रम् तत् इमाम् मे कथाम् सृणु ॥८॥

अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।
असामान्यगुणौत्कर्षलुब्धेन इव स्वयम्वृता ॥९॥

भोगवती अमरावत्योः तृतीय उज्जयिनी पुरी ।
उदारसुकृतप्राप्यनानाभोगौपबृंहिता ॥१०॥

यस्याम् स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् ।
तासाम् एव भ्रुवोः भङ्गः लोचनेषु च चापलम् ॥११॥

तमः निशासु वक्रत्वम् यस्याम् कविवरौक्तिषु ।
मदः दन्तिषु जाड्यम् च मुक्तामलयजैन्दुषु ॥१२॥

तस्याम् चन्द्रप्रभ- आख्यस्य राज्ञः अमात्यः बहुश्रुतः ।
देवस्वामी इति अभूत् विप्रः भूरियज्ञः महाधनः ॥१३॥

तस्य कालेन तनयः चन्द्रस्वामी इति अजायत ।
सः अधीतविद्यः अपि युवा द्यूतएकव्यसनः अभवत् ॥१४॥

एकदा च द्विजसुतः चन्द्रस्वामी सः कांचन ।
द्यूतकारमहाठिण्ठाम् द्यूतेन क्रीडितुम् ययौ ॥१५॥

आश्लिष्यामः कम् अत्र इति विपद्भिः इव वीक्षितुम् ।
विक्षिप्तैः कृष्णशार- आभैः नेत्रैः अक्षैः निरन्तराम् ॥१६॥

कः सः अस्ति न श्रियम् यस्य हरामि अपि अलकापतेः ।
इति इव तन्वतीम् नादान् द्यूतकृत्कलहस्वनैः ॥१७॥

ताम् प्रविश्य क्रमात् दीव्यन् अक्षैः सः कितवैः सह ।
वस्त्र- आदि हारयित्वा अपि धनम् अन्यत् अहारयत् ॥१८॥

मृग्यमाणम् च यत् न आदात् सः तत् धनम् असंभवि ।
तद् अवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ॥१९॥

लगुड- आहतसर्वाङ्गः पाषाणम् इव निःचलम् ।
कृत्वा मृतम् इव आत्मानम् तस्थौ विप्रसुतः अथ सः ॥२०॥

तथा एव दिवसान् द्वित्रान् तत्र तस्मिन् अवस्थिते ।
क्रुद्धः सः सभ्यः ठिण्ठायाम् कितवान् स्वान् अभाषत ॥२१॥

श्रिता अनेन अश्मता तावत् तत् एतम् क्षिपत क्वचित् ।
नीत्वा अन्धकूपे निःसत्त्वम् धनम् दास्यामि अहम् तु वः ॥२२॥

इति उक्ताः तेन कितवाः तम् चन्द्रस्वामिनम् ततः ।
अरण्यम् निन्युः उत्क्षिप्य दूरम् कूपगवेषिणः ॥२३॥

तत्र एकः वृद्धकितवः तान् अन्यान् एवम् अभ्यधात् ।
मृतः अयम् प्रायशः तत् किम् कूपे क्षिप्तेन नः अमुना ॥२४॥

तत् इह एव एनम् उज्झित्वा वक्ष्यामः कूपे उज्झितम् ।
इति ते तत्वचः सर्वे तथा इति प्रतिपेदिरे ॥२५॥

ततः त्यक्त्वा गतेषु एषु कितवेषु सः उत्थितः ।
चन्द्रस्वामी विवेश अत्र शून्यम् एकम् शिव- आलयम् ॥२६॥

तत्र किम्चित् समाश्वस्य चिन्तयामास दुःखितः ।
विश्वस्तः मायया कष्टम् मुषितः कितवैः अहम् ॥२७॥

तत् ईदृशः क्व गच्छामि नाग्नौपहतपांशुलः ।
पिता बन्धुः सुहृत् वा अपि दृष्ट्वा किम् हि वदेत् मम ॥२८॥

तत् संप्रति स्थितः अस्मि इह नक्तम् च क्षुत्प्रशान्तये ।
पश्यामि निर्गत्य कथम् यतिष्ये भोजनम् प्रति ॥२९॥

इति आलोचयतः तस्य क्लान्तस्य अनम्बरस्य च ।
मन्दीकृत- आतपः अस्ताद्रिम् रविः त्यक्ताम्बरः ययौ ॥३०॥

तावत् च भूतिदिग्धाङ्गः तत्र आयाति स्म तापसः ।
महाव्रती जटाशूलधरः हरः इव अपरः ॥३१॥

सः चन्द्रस्वामिनम् दृष्ट्वा कः असि इति परिपृच्छ्य च ।
स्रुत्वा तस्मात् च वृत्तान्तम् प्रह्वम् तम् तापसः अब्रवीत् ॥३२॥

त्वम् मम इह आश्रमम् प्राप्तः क्षुत्क्लान्तः अचिन्तितः अतिथिः ।
तत् उत्तिष्ठ कृतस्नानः भिक्षाभागम् मम आहर ॥३३॥

इति उक्तः व्रतिना सः अथ चन्द्रस्वामी जगाद तम् ।
विप्रः अहम् भगवन् भोक्ष्ये भिक्षाभागम् कथम् तव ॥३४॥

तत् श्रुत्वा सः व्रती सिद्धः प्रविश्य मठिकाम् निजाम् ।
इष्टसंपादिनीम् विद्याम् सस्मार अतिथिवल्लभः ॥३५॥

संस्मृतौपस्थिताम् ताम् च किम् करोमि इति वादिनीम् ।
अमुष्य आतिथ्यम् अतिथेः कुरुष्व इति शशास ताम् ॥३६॥

तथा इति उक्ते तया तत्र सौद्यानम् साङ्गनाजनम् ।
पुरम् सौवर्णम् उत्पन्नम् चन्द्रस्वामी ददर्श सः ॥३७॥

विस्मितम् च तम् अभ्येत्य तस्मात् वाराङ्गनाः पुरात् ।
ऊचुः उत्तिष्ठ भद्र एहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ॥३८॥

इति उक्त्वा अभ्यन्तरम् नीत्वा स्नापयित्वा अनुलिप्य च ।
ताभिः सः दत्तसत्वस्त्रः निन्ये अन्यत् वासकौत्तमम् ॥३९॥

तत्र अन्तः सः ददर्श एकाम् प्रधानयुवतिम् युवा ।
सर्वाङ्गसुन्दरीम् धात्रा कौतुकात् इव निर्मिताम् ॥४०॥

तया सः सौत्कया उत्थाय स्व- आसनार्धौपवेशितः ।
बुभुजे दिव्यम् आहारम् तया एव अत्र समम् ततः ॥४१॥

भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।
पर्यङ्कशयने भेजे तत्संभोगसुखम् निशि ॥४२॥

प्रातः प्रबुद्धः च अपश्यत् तत् एव अत्र शिव- आयलम् ।
न अपि दिव्याङ्गनाम् न अपि पुरम् तत् न परिच्छदम् ॥४३॥

ततः सः विग्नः निर्यातम् मठिकातः स्मित- आननम् ।
पृष्टरात्रिसुखम् प्रातः तापसम् तम् व्यजिज्ञपत् ॥४४॥

तत्प्रसादात् अहम् रात्रौ उषितः भगवन् सुखम् ।
किम् तु यास्यन्ति मे प्राणाः तया दिव्यस्त्रिया विना ॥४५॥

तत् श्रुत्वा सः तपस्वी तम् हसन् कारुणिकः अब्रवीत् ।
इह एव आस्स्व पुनः नक्तम् भविष्यति तथा एव ते ॥४६॥

इति उक्ते व्रतिना तेन तत्युक्त्य एव प्रतिक्षपम् ।
चन्द्रस्वामी अत्र सः अभुङ्क्त भोगान् तान् तत्प्रसादतः ॥४७॥

बुद्ध्वा च तम् शनैः विद्याप्रभावम् विधिचोदितः ।
एकदा तापसैन्द्रम् तम् सः प्रसाद्य अन्वयाचत ॥४८॥

सत्यम् कृपा चेत् भगवन् मयि ते शरण- आगते ।
तत् एताम् देहि मे विद्याम् यत्प्रभावः अयम् ईदृशः ॥४९॥

इति ब्रुवाणम् निर्बन्धात् तम् प्रत्याह सः तापसः ।
असाध्या तव विद्या इयम् साध्यते अन्तर्जले हि असौ ॥५०॥

तत्र च एषा सृजति आशु जपतः साधकस्य तत् ।
मायाजालम् विमोहाय येन सिद्धिम् न सः अश्नुते ॥५१॥

सः हि तत्र पुनः जातम् बालम् आत्मानम् ईक्षते ।
ततः युवानम् उद्व्यूढदारम् जात- आत्मजम् तथा ॥५२॥

सुहृत् मे अयम् अयम् शत्रुः इति मिथ्या सः मुह्यति ।
न च स्मरति जन्म इदम् न विद्यासाधने क्रियाम् ॥५३॥

यः तु त्रिःअष्टवर्षः सन् गुरुविद्याप्रबोधितः ।
जन्म स्म्र्त्वा विदित्वा तत् धीरः मायाविजृम्भितम् ॥५४॥

तत्वशः अपि अत्र कुरुते तथा एव अग्निप्रवेशनम् ।
परमार्थम् जलौत्तीर्णः सिद्धविद्यः सः पश्यति ॥५५॥

अन्यस्य न परम् विद्या शिष्यस्य एषा हि सिध्यति ।
अस्थानार्पणतः यावत् गुरोः अपि विनश्यति ॥५६॥

मत्सिद्ध्या एव फले सिद्धे किम् ग्रहेण अमुना तव ।
मत्सिद्धिहान्या मा जातु तव एतत् अपि नङ्क्ष्यति ॥५७॥

एवम् तपस्विना उक्ते अपि चन्द्रस्वामी ग्रहेण सः ।
शिक्ष्यामि सर्वम् मा भूत् वः चिन्ता अत्र इति तम् अब्रवीत् ॥५८॥

ततः अस्मै प्रतिपेदे ताम् विद्याम् दातुम् सः तापसः ।
बत आश्रितानुरोधेन किम् न कुर्वन्ति साधवः ॥५९॥

ततः नीत्वा नदीतीरम् सः तम् स्म आह महाव्रती ।
वत्स विद्याम् जपन् मायाम् यदि द्रक्ष्यसि ताम् तदा ॥६०॥

माया- अग्निम् एव प्रविशेः विध्यया बोधितः मया ।
अहम् च तावत् स्थास्यामि तव इह एव नदीतटे ॥६१॥

इति उक्त्वा अध्यापयामास तम् आचान्तम् शुचिम् शुचिः ।
सः चन्द्रस्वामिनम् विद्याम् सम्यक् ताम् व्रतिनाम् वरः ॥६२॥

ततः तीरे स्थिते तस्मिन् गुरौ मूर्ध्ना प्रणम्य तम् ।
चन्द्रस्वामी सः रभसात् नदीम् अवततार ताम् ॥६३॥

तस्याम् अन्तःजले विद्याम् ताम् जपन् सहसा एव सः ।
तत्मायामोहितः मिथ्या सर्वम् विस्मृत्य जन्म तत् ॥६४॥

वीक्षते यावत् अन्यस्याम् उत्पन्नः स्व- आत्मना पुरि ।
पुत्रः विप्रस्य कस्य अपि बुद्धिम् सः शनकैः गतः ॥६५॥

कृतौपनयनः अधीतविद्यः दारान् अवाप्य च ।
तत्दुःखसुखसंमूढः संपूर्णः अपत्यवान् क्रमात् ॥६६॥

ततः च अत्र सुतस्नेहस्वीकृतः तत् तत् आचरत् ।
स्थितः बद्धरतिः सार्धम् पितृभ्याम् बन्धुभिः तथा ॥६७॥

एवम् जन्मान्तरम् मिथ्या तस्य अनुभवतः अत्र सः ।
काले प्रबोधिनीम् विद्याम् गुरुः प्रायुङ्क्त तापसः ॥६८॥

सः तत्विद्याप्रयोगेण सद्यः तेन प्रबोधितः ।
स्मृत्वा आत्मानम् गुरुम् तम् च मायाजालम् अवेत्य तत् ॥६९॥

उद्यतः अग्निप्रवेशाय दिव्यासाध्यफल- आप्तये ।
पर्यवारि निषेधद्भिः वृद्ध- आप्तगुरुबन्धुभिः ॥७०॥

बहुधा बोध्यमानः अपि तैः दिव्यसुखलोलुपः ।
सः सज्जितचितम् प्रायात् नदीतीरम् सबान्धवः ॥७१॥

दृष्ट्वा अत्र वृद्धौ पितरौ भार्याम् च मरणौद्यताम् ।
क्रन्दन्ति बालापत्यानि सः अथ मोहात् अचिन्तयत् ॥७२॥

कष्टम् म्रियन्ते स्वजनाः सर्वे मे विशतः अनलम् ।
न च जानामि किम् सत्यम् गुरोः तत् वचनम् न वा ॥७३॥

तत् किम् नु प्रविशामि अग्निम् उत न प्रविशामि किम् ।
अथवा तत् कथम् मिथ्या स्यात् संवादि गुरोः वचः ॥७४॥

तत् विशामि अनलम् कामम् इति अन्तः प्रविमृश्य सः ।
अग्निप्रवेशम् विदधे चन्द्रस्वामी किल द्विजः ॥७५॥

अनुभूतहिमस्पर्शः वह्नेः च सः सविस्मयः ।
शान्तमायः नदीतीरात् उत्थाय उपययौ तटम् ॥७६॥

तत्र स्थितम् च दृष्ट्वा तम् गुरुम् नत्वा च पादयोः ।
पृच्छन्तम् च अग्निशैत्यान्तम् स्वम् उदन्तम् अबोधयत् ॥७७॥

ततः तम् सः गुरुः प्राह वत्स शङ्के कृतः त्वया ।
अपचारः अत्र शीतः ते कथम् जातः अग्निः अन्यथा ॥७८॥

अदृष्टम् एतत् एतस्याः विद्यायाः साधने यतः ।
एतत् गुरोः वचः श्रुत्वा चन्द्रस्वामी जगाद सः ॥७९॥

न अपचारः मया कःचित् विहितः भगवन् इति ।
ततः सः तत्गुरुः विद्याम् जिज्ञासुः ताम् समस्मरत् ॥८०॥

न च सा आविःअभूत् तस्य न तत्शिष्यस्य तस्य वा ।
नष्टविद्यौ अथ उभौ तौ विषण्णौ जग्मतुः ततः ॥८१॥

इति आख्याय कथाम् अथ वेतालः पृष्टवान् सः तम् भूयः ।
पृथ्वीपतिम् त्रिविक्रमसेनम् समयम् निगद्य पूर्वौक्तम् ॥८२॥

राजन् संशयम् एतम् छिन्द्धि मम ब्रूहि हेतुना केन ।
विहिते अपि यथा उद्दिष्टे कर्मणि विद्या उभयोः तयोः नष्टा ॥८३॥

एतत् सः वेतालवचः निशम्य तम् प्रत्यवोचत् मनुजैन्द्रवीरः ।
जाने भवान् मे क्षिपति इह कालम् योग- ईश्वर एवम् तत् अपि ब्रवीमि ॥८४॥

न दुष्करेण अपि हि कर्मण एव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
यावत् न निष्क्रम्य विकल्पशुद्धम् धीरम् मनः निर्मलसत्त्ववृत्ति ॥८५॥

तस्य अत्र मन्दस्य तु विप्रयूनः चित्तम् प्रबुध्य अपि विकल्पते स्म ।
विद्या न सा तेन गता अस्य सिद्धिः अस्थानदानात् च गुरोः विनष्टा ॥८६॥

इति तस्य नृपस्य सृष्टवाचः बत वेतालवरः अंसतः सः भूयः ।
निजम् एव पदम् ययौ अलक्ष्यः नृपतिः तम् तथा एव सः अन्वयासीत् ॥८७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP