आर्यभटीय - काल क्रिया पाद
आर्यभटीय नामक ग्रन्थाची रचना आर्यभट प्रथम (४७६-५५०) यांनी केली. आर्यभटीय, संस्कृत भाषेत काव्यरूपात रचिला गेला आहे. याची रचनापद्धति फारच वैज्ञानिक आणि भाषा संक्षिप्त आहे.
Aryabhata is the earliest Indian mathematician whom historians know by name. He lived from 476 to 550 C.E.
वर्षम् द्वादश-मासास् त्रिंशत्-दिवसस् भवेत् सस् मासस् तु ।
षष्टिस् नाड्यस् दिवसस् षष्टिस् च विनाडिका नाडी ॥१॥
गुरु-अक्षराणि षष्टिस् विनाडिका आर्क्षी षट् एव वा प्राणास् ।
एवम् काल-विभागस् क्षेत्र-विभागस् तथा भ-गणात् ॥२॥
भ-गणास् द्वयोस् द्वयोस् ये विशेष-शेषास् युगे द्वि-योगास् ते ।
रवि-शशि-नक्षत्र-गणास् सम्मिश्रास् च व्यतीपातास् ॥३॥
स्व-उच्च-भ-गणास् स्व-भ-गणैस् विशेषितास् स्व-उच्च-नीच-परिवर्तास् ।
गुरु-भ-गणास् राशि-गुणास् अश्वयुज-आद्यास् गुरोर् अब्दास् ॥४॥
रवि-भ-गणास् रवि-अब्दास् रवि-शशि-योगास् भवन्ति शशि-मासास् ।
रवि-भू-योगास् दिवसास् भ-आवर्तास् च अपि नाक्षत्रास् ॥५॥
अधिमासकास् युगे ते रवि-मासेभ्यस् अधिकास् तु ये चान्द्रास् ।
शशि-दिवसास् विज्ञेयास् भू-दिवस-ऊनास् तिथि-प्रलयास् ॥६॥
रवि-वर्षम् मानुष्यम् तत् अपि त्रिंशत्-गुणम् भवति पित्र्यम् ।
पित्र्यम् द्वादश-गुणितम् दिव्यम् वर्षम् विनिर्दिष्टम् ॥७॥
दिव्यम् वर्ष-सहस्रम् ग्रह-सामान्यम् युगम् द्वि-षट्क-गुणम् ।
अष्ट-उत्तरम् सहस्रम् ब्राह्मस् दिवसस् ग्रह-युगानाम् ॥८॥
उत्सर्पिणी युग-अर्धम् पश्चात् अपसर्पिणी युग-अर्धम् च ।
मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दु-उच्चात् ॥९॥
षष्टि-अब्दानाम् षष्टिस् यदा व्यतीतास् त्रयस् च युग-पादास् ।
त्रि-अधिका विंशतिस् अब्दास् तदा इह मम जन्मनस् अतीतास् ॥१०॥
युग-वर्ष-मास-दिवसास् समम् प्रवृत्तास् तु चैत्र-शुक्ल-आदेस् ।
कालस् अयम् अनादि-अन्तस् ग्रह-भैस् नुमीयते क्षेत्रे ॥११॥
षष्ट्या सूर्य-अब्दानाम् प्रपूरयन्ति ग्रहास् भ-परिणाहम् ।
दिव्येन नभस्-परिधिम् समम् भ्रमन्तस् स्व-कक्ष्यासु ॥१२॥
मण्डलम् अल्पम् अधस्तात् कालेन अल्पेन पूरयति चन्द्रस् ।
उपरिष्टात् सर्वेषाम् महत् च महता शनैश्चारी ॥१३॥
अल्पे हि मण्डले अल्पा महति महान्तस् च राशयस् ज्ञेयास् ।
अंशास् कलास् तथा एवम् विभाग-तुल्यास् स्व-कक्ष्यासु ॥१४॥
भानाम् अधस् शनैश्चर-सुरगुरु-भौम-अर्क-शुक्र-बुध-चन्द्रास् ।
एषाम् अधस् च भूमिस् मेधी-भूता ख-मध्य-स्था ॥१५॥
सप्त एते होरा-ईशास् शनैश्चर-आद्यास् यथा-क्रमम् शीघ्रास् ।
शीघ्र-क्रमात् चतुर्थास् भवन्ति सूर्य-उदयात् दिनपास् ॥१६॥
कक्ष्या-प्रतिमण्डल-गास् भ्रमन्ति सर्वे ग्रहास् स्व-चारेण ।
मन्द-उच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्र-उच्चात् ॥१७॥
कक्ष्या-मण्डल-तुल्यम् स्वम् स्वम् प्रतिमण्डलम् भवति एषाम् ।
प्रतिमण्डलस्य मध्यम् घन-भू-मध्यात् अतिक्रान्तम् ॥१८॥
प्रतिमण्डल-भू-विवरम् व्यास-अर्धम् स्व-उच्च-नीच-वृत्तस्य ।
वृत्त-परिधौ ग्रहास् ते मध्यम-चारात् भ्रमन्ति एवम् ॥१९॥
यस् शीघ्र-गतिस् स्व-उच्चात् प्रतिलोम-गतिस् स्व-वृत्त-कक्ष्यायाम् ।
अनुलोम-गतिस् वृत्ते मन्द-गतिस् यस् ग्रहस् भवति ॥२०॥
अनुलोम-गानि मन्दात् शीघ्रात् प्रतिलोम-गानि वृत्तानि ।
कक्ष्या-मण्डल-लग्न-स्व-वृत्त-मध्ये ग्रहस् मध्यस् ॥२१॥
क्षय-धन-धन-क्षयास् स्युर् मन्द-उच्चात् व्यत्ययेन शीघ्र-उच्चात् ।
शनि-गुरु-कुजेषु मन्दात् अर्धम् ऋणम् धनम् भवति पूर्वे ॥२२॥
मन्द-उच्चात् शीघ्र-उच्चात् अर्धम् ऋणम् धनम् ग्रहेषु मन्देषु ।
मन्द-उच्चात् स्फुट-मध्यास् शीघ्र-उच्चात् च स्फुटास् ज्ञेयास् ॥२३॥
शीघ्र-उच्चात् अर्ध-ऊनम् कर्तव्यम् ऋणम् धनम् स्व-मन्द-उच्चे ।
स्फुट-मध्यौ तु भृगु-बुधौ सिद्धात् मन्दात् स्फुटौ भवतस् ॥२४॥
भू-तारा-ग्रह-विवरम् व्यास-अर्ध-हृतस् स्व-कर्ण-संवर्गस् ।
कक्ष्यायाम् ग्रह-वेगस् यस् भवति सस् मन्द-नीच-उच्चे ॥२५॥
N/A
References : N/A
Last Updated : January 22, 2014
TOP