पाद १ - खण्ड ४

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ५८ - किमर्थम् इदम् उच्यते ।

२ - ५८ - सति अन्यस्मिन् आद्यन्तवद्भावात् एकस्मिन् आद्यन्तवद्वचनम् ।

३ - ५८ - सति अन्यस्मिन् यस्मात् पूर्वम् न अस्ति परम् अस्ति सः आदिः इति उच्यते ।

४ - ५८ - सति अन्यस्मिन् यस्मात् परम् न अस्ति पूर्वम् अस्ति सः अन्तः इति उच्यते ।

५ - ५८ - सति अन्यस्मिन् आद्यन्तवद्भावात् एतस्मात् कारणात् एकस्मिन् आद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति ।

६ - ५८ - इष्यन्ते च स्युः इति ।

७ - ५८ - तानि अन्तरेण यत्नम् न सिध्यन्ति इति एकस्मिन् आद्यन्तवद्वचनम् ।

८ - ५८ - एवमर्थम् इदम् उच्यते ।

९ - ५८ - अस्ति प्रयोजनम् एतत् ।

१० - ५८ - किम् तर्हि इति ।

११ - ५८ - तत्र व्यपदेशिवद्वचनम् ।

१२ - ५८ - तत्र व्यपदेशिवद्भावः वक्तव्यः ।

१३ - ५८ - व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् ।

१४ - ५८ - किम् प्रयोजनम् ।

१५ - ५८ - एकाचः द्वे प्रथमार्थम् ।

१६ - ५८ - वक्ष्यति एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः इति ।

१७ - ५८ - तस्मिन् क्रियमाणे इह एव स्यात् पपाच पपाठ ।

१८ - ५८ - इयाय , आर इति अत्र न स्यात् ।

१९ - ५८ - व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

२० - ५८ - षत्वे च आदेशसम्प्रत्ययार्थम् ।

२१ - ५८ - वक्ष्यति आदेशप्रत्यययोः इति अवयवषष्ठी एव इति ।

२२ - ५८ - एतस्मिन् क्रियमाणे इह एव स्यात् करिष्यति हरिष्यति ।

२३ - ५८ - इह न स्यात् इन्द्रः मा वक्षत् , सः देवन् यक्षत् ।

२४ - ५८ - व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

२५ - ५८ - सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।

२६ - ५८ - न वक्तव्यः ।

२७ - ५८ - अवचनात् लोकविज्ञानात् सिद्धम् ।

२८ - ५८ - अन्तरेण एव वचनम् लोकविज्ञानात् सिद्धम् एतत् ।

२९ - ५८ - तत् यथा लोके शालासमुदायः ग्रामः इति उच्यते ।

३० - ५८ - भवति च एतत् एकस्मिन् अपि एकशालः ग्रामः इति ।

३१ - ५८ - विषमः उपन्यासः ।

३२ - ५८ - ग्रामशब्दः अयम् बह्वर्थः ।

३३ - ५८ - अस्ति एव शालासमुदाये वर्तते ।

३४ - ५८ - तत् यथा ग्रामः दग्धः इति ।

३५ - ५८ - अस्ति वाटपरिक्षेपे वर्तते ।

३६ - ५८ - तत् यथा ग्रामम् प्रविष्टः ।

३७ - ५८ - अस्ति मनुष्येषु वर्तते ।

३८ - ५८ - तत् यथा ।

३९ - ५८ - ग्रामः गतः , ग्रामः आगतः इति ।

४० - ५८ - अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते ।

४१ - ५८ - तत् यथा ग्रामः लब्धः इति ।

४२ - ५८ - तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते एकशालः ग्रामः इति ।

४३ - ५८ - यथा तर्हि वर्णसमुदायः पदम् पदसमुदायः ऋक् ऋक्समुदायः सूक्तम् इति उच्यते ।

४४ - ५८ - भवति च एतत् एकस्मिन् अपि एकवर्णम् पदम् एकपदा ऋक् एकर्चम् सूक्तम् इति ।

४५ - ५८ - अत्र अपि अर्थेन युक्तः व्यपदेशः ।

४६ - ५८ - पदम् नाम अर्थः सूक्तम् नम अर्थः ।

४७ - ५८ - यथा तर्हि बहुषु पुत्रेषु एतत् उपपन्नम् भवति अयम् मे ज्येष्ठः अयम् एव मे मध्यमः अयम् एव मे कनीयान् इति ।

४८ - ५८ - भवति च एतत् एकस्मिन् अपि अयम् एव मे ज्येष्ठः अयम् मे मध्यमः अयम् मे कनीयान् इति ।

४९ - ५८ - तथा असूतायाम् असोष्यमाणायाम् च भवति प्रथमगर्भेण हता इति ।

५० - ५८ - तथा अनेत्य अनाजिगमिषुः आह इदम् मे प्रथमम् आगमनम् इति ।

५१ - ५८ - आद्यन्तवद्भावः च शक्यः अवक्तुम् ।

५२ - ५८ - कथम् ।

५३ - ५८ - अपूर्वानुत्तरलक्षणत्वात् आद्यन्तयोः सिद्धम् एकस्मिन् ।

५४ - ५८ - अपूर्वलक्षणः आदिः अनुत्तरलक्षणः अन्तः ।

५५ - ५८ - एतत् च एकस्मिन् अपि भवति ।

५६ - ५८ - अपूर्वानुत्तरलक्षणत्वात् एतस्मात् कारणात् एकस्मिन् अपि आद्यन्तापदिष्टनि कार्याणि भविष्यन्ति ।

५७ - ५८ - न अर्थः आद्यन्तवद्भावेन ।

५८ - ५८ - गोनर्दीयः तु आह सत्यम् एतत् सति तु अन्यस्मिन् इति ।

१ - ३९ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ३९ - आदिवत्त्वे प्रयोजनम् प्रत्ययञ्निदाद्युदात्तत्वे ।

३ - ३९ - प्रत्ययस्य आदिः उदात्तः भवति इति इह एव स्यात् कर्तव्यम् , तैत्तिरीयः ।

४ - ३९ - औपगवः , कापटवः इति अत्र न स्यात् ।

५ - ३९ - ञ्निति आदिः नित्यम् इति इह एव स्यात् अहिचुम्बकायनिः , अग्निवेश्यः ।

६ - ३९ - गर्ग्यः , कृतिः इति अत्र न स्यात् ।

७ - ३९ - वलादेः आर्धधातुकस्य इट् ।

८ - ३९ - वलादेः आर्धधातुकस्य इट् प्रयोजनम् ।

९ - ३९ - आर्धधातुकस्य इट् वलादेः इह एव स्यात् करिष्यति हरिष्यति ।

१० - ३९ - जोषिषत् , मनिद्षत् इति अत्र न स्यात् ।

११ - ३९ - यस्मिन् विधिः तदादित्वे ।

१२ - ३९ - यस्मिन् विधिः तदादित्वे प्रयोजनम् ।

१३ - ३९ - वक्ष्यति यस्मिन् विधिः तदादौ अल्ग्रहणे इति ।

१४ - ३९ - तस्मिन् क्रियमाणे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इह एव स्यात् श्रियः , भ्रुवः ।

१५ - ३९ - श्रियौ भ्रुवौ इति अत्र न स्यात् ।

१६ - ३९ - अजाद्याट्त्वे । अजाद्याट्त्वे प्रयोजनम् ।

१७ - ३९ - आट् अजादीनाम् इह एव स्यात् ऐहिष्ट , ऐक्षिष्ट ।

१८ - ३९ - ऐत् , अध्यैष्ट इति अत्र न स्यात् ।

१९ - ३९ - अथ अन्तवत्त्वे कानि प्रयोजनानि ।

२० - ३९ - अन्तवत् द्विवचनान्तप्रगृह्यत्वे । अन्तवत् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम् ।

२१ - ३९ - ईदूदेत् द्विवचनम् प्रगृह्यम् इह एव स्यात् पचेते इति पचेथे इति ।

२२ - ३९ - खट्वे इति माले इति इति अत्र न स्यात् ।

२३ - ३९ - मित् अचः अन्त्यात् परः ।

२४ - ३९ - मित् अचः अन्त्यात् परः प्रयोजनम् ।

२५ - ३९ - इह एव स्यात् कुण्डानि वनानि ।

२६ - ३९ - तानि यानि इति अत्र न स्यात् ।

२७ - ३९ - अचः अन्त्यादि टि ।

२८ - ३९ - अचः अन्त्यादि टि प्रयोजनम् ।

२९ - ३९ - टितः आत्मनेपदानाम् टेः ए इति इह एव स्यात् कुर्वाते कुर्वाथे ।

३० - ३९ - कुरुते कुर्वे इति अत्र न स्यात् ।

३१ - ३९ - अलः अन्त्यस्य ।

३२ - ३९ - अलः अन्त्यस्य प्रयोजनम् ।

३३ - ३९ - अतः दीर्घः यञि सुपि च इह एव स्यात् घटाभ्यम् , पटाभ्याम् ।

३४ - ३९ - आभ्याम् इति अत्र न स्यात् ।

३५ - ३९ - येन विदिः तदन्तत्वे ।

३६ - ३९ - येन विदिः तदन्तत्वे प्रयोजनम् ।

३७ - ३९ - अचः यत् इह एव स्यात् चेयम् , जेयम् ।

३८ - ३९ - एयम् अध्येयम् इति अत्र न स्यात् ।

३९ - ३९ - आद्यन्तवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

१ - २६ - घसञ्ज्ञायाम् नदीतरे प्रतिषेधः ।

२ - २६ - घसञ्ज्ञायाम् नदीतरे प्रतिषेधः वक्तव्यः ।

३ - २६ - नद्याः तरः नदीतरः इति ।

४ - २६ - घसञ्ज्ञायाम् नदीतरे अप्रतिषेधः ।

५ - २६ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

६ - २६ - घसञ्ज्ञा कस्मात् न भवति ।

७ - २६ - तरब्ग्रहणम् हि औपदेशिकम् ।

८ - २६ - औपदेशिकस्य तरपः ग्रहणम् ।

९ - २६ - न च एषः उपदेशे तरप्शब्दः ।

१० - २६ - किम् वक्तव्यम् एतत् ।

११ - २६ - न हि ।

१२ - २६ - कथम् अनुच्यमानम् गंस्यते ।

१३ - २६ - इह हि व्याकरणे सर्वेषु एव सानुबन्धकेषु ग्रहणेषु रूपम् आश्रीयते यत्र एतत् रूपम् इति ।

१४ - २६ - रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् ।

१५ - २६ - तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते ।

१६ - २६ - कः असौ ।

१७ - २६ - उपदेशः नाम ।

१८ - २६ - न च एषः उपदेशे तरप्शब्दः ।

१९ - २६ - अथ वा अस्तु अस्य घसञ्ज्ञा ।

२० - २६ - कः दोषः ।

२१ - २६ - घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।

२२ - २६ - समानाधिकरणेषु घादिषु इति एवम् तत् ।

२३ - २६ - यदा तर्हि सा एव नदी सः एव तरः तदा प्राप्नोति ।

२४ - २६ - स्त्रीलिङ्गेषु एव घादिषु इति एवम् तत् ।

२५ - २६ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

२६ - २६ - समानाधिकरणेषु घादिषु इति उच्यमाने इह प्रसज्येत महिषी रूपम् इव ब्राह्मणी रूपम् इव ।

१ - ९१ - सङ्ख्यासञ्ज्ञायाम् सङ्ख्याग्रहणम् ।

२ - ९१ - सङ्ख्यासञ्ज्ञायाम् सङ्ख्याग्रहणम् कर्तव्यम् ।

३ - ९१ - बहुगण्वतुडतयः सङ्ख्यासञ्ज्ञाः भवन्ति ।

४ - ९१ - सङ्ख्या च सङ्ख्यासञ्ज्ञा भवति इति वक्तव्व्यम् ।

५ - ९१ - किम् प्रयोजनम् ।

६ - ९१ - सङ्ख्यासम्प्रत्ययार्थम् ।

७ - ९१ - एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्या इति एषः सम्प्रत्ययः यथा स्यात् ।

८ - ९१ - ननु च एकादिका सङ्ख्या लोके सङ्ख्या इति प्रतीता ।

९ - ९१ - तेन अस्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः भविष्यति ।

१० - ९१ - एवम् अपि कर्तव्यम् ।

११ - ९१ - इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके ।

१२ - ९१ - अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्या इति सम्प्रत्ययः न स्यात् ।

१३ - ९१ - किम् कारणम् ।

१४ - ९१ - अकृत्रिमत्वात् ।

१५ - ९१ - बह्वादीनाम् कृत्रिमा सञ्ज्ञा ।

१६ - ९१ - कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः भवति यथा लोके ।

१७ - ९१ - तत् यथा लोके गोपालकम् आनय कटजकम् आनय इति यस्य एषा सञ्ज्ञा भवति सः आनीयते न यः गाः पालयति यः वा कटे जातः ।

१८ - ९१ - यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति नदीपौर्णमास्याग्रहायणीभ्यः इति अत्र अपि प्रसज्येत ।

१९ - ९१ - पौर्णमास्याग्रहायणीग्रहणसामर्थ्यात् न भविष्यति ।

२० - ९१ - तद्विशेषेभ्यः तर्हि प्राप्नोति गङ्गा यमुना इति ।

२१ - ९१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न तद्विशेषेभ्यः भवति इति यत् अयम् विपाट्शब्दम् शरत्प्रभृतिषु पठति ।

२२ - ९१ - इह तर्हि प्राप्नोति नदीभिः च इति ।

२३ - ९१ - बहुवचननिर्देशात् न भविष्यति ।

२४ - ९१ - स्वरूपविधिः तर्हि प्राप्नोति ।

२५ - ९१ - बहुवचननिर्देशात् एव न भविष्यति ।

२६ - ९१ - एवम् न च इदम् अकृतम् भवति कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः इति न च कः चित् दोषः ।

२७ - ९१ - उत्तरार्थम् च ।

२८ - ९१ - उत्तरार्थम् च सङ्ख्याग्रहणम् कर्तव्यम् ।

२९ - ९१ - ष्णान्ता षट् ।

३० - ९१ - षकारनकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञा यथा स्यात् ।

३१ - ९१ - इह मा भूत् पामानः , विप्रुषः इति ।

३२ - ९१ - इहार्थेन तावत् न अर्थः सङ्ख्याग्रहणेन ।

३३ - ९१ - ननु च उक्तम् इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके इति ।

३४ - ९१ - न एषः दोषः ।

३५ - ९१ - अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।

३६ - ९१ - अर्थः वा अस्य एवंसङ्ज्ञकेन भवति प्रकृतम् वा तत्र भवति इदम् एवंसङ्ज्ञकेन कर्तव्यम् इति. आतः च अर्थात् प्रकरणात् वा ।

३७ - ९१ - अङ्ग हि भवान् ग्राम्यम् पांसुरपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु गोपालकम् आनय कटजकम् आनय इति ।

३८ - ९१ - उभयगतिः तस्य भवति साधीयः वा यष्टिहस्तम् गमिष्यति ।

३९ - ९१ - यथा एव तर्हि अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति एवम् इह अपि प्राप्नोति ।

४० - ९१ - जानाति हि असौ बह्वादीनाम् इयम् सञ्ज्ञा कृता इति ।

४१ - ९१ - न यथा लोके तथा व्याकरणे ।

४२ - ९१ - उभयगतिः पुनः इह भवति ।

४३ - ९१ - अन्यत्र अपि न अवश्यम् इह एव ।

४४ - ९१ - तत् यथा कर्तुः ईप्सिततमम् कर्म इति कृत्रिमा सञ्ज्ञा ।

४५ - ९१ - कर्मप्रदेशेषु च उभयगतिः भवति ।

४६ - ९१ - कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम् कर्तरि कर्मव्यतिहारे इति अकृत्रिमस्य ।

४७ - ९१ - तथा साधकतमम् करणम् इति कृत्रिमा करणसञ्ज्ञा ।

४८ - ९१ - करणप्रदेशेषु च उभयगतिः भवति ।

४९ - ९१ - कर्तृकरणयोः तृतीया इति कृत्रिमस्य ग्रहणम् शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे इति अकृत्रिमस्य ।

५० - ९१ - तथा आधारः अधिकरणम् इति कृत्रिमा अधिकरणसञ्ज्ञा ।

५१ - ९१ - अधिकरणेप्रदेशेषु च उभयगतिः भवति ।

५२ - ९१ - सप्तमी अधिकरणे च इति कृत्रिमस्य ग्रहणम् विप्रतिषिद्धम् च अनधिकरणवाचि इति अकृत्रिमस्य ।

५३ - ९१ - अथ वा न इदम् सञ्ज्ञाकरणम् ।

५४ - ९१ - तद्वदतिदेशः अयम् बहुगणवतुडतयः सङ्ख्यावत् भवन्ति इति ।

५५ - ९१ - सः तर्हि वतिनिर्देशः कर्तव्यः ।

५६ - ९१ - न हि अन्तरेण वतिम् अतिदेशः गम्यते ।

५७ - ९१ - अन्तरेण अपि वतिम् अतिदेशः गम्यते ।

५८ - ९१ - तत् यथा एषः ब्रह्मदत्तः ।

५९ - ९१ - अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।

६० - ९१ - ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति ।

६१ - ९१ - एवम् इह अपि असङ्ख्याम् सङ्ख्या इति आह ।

६२ - ९१ - सङ्ख्यावत् इति गम्यते ।

६३ - ९१ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः इति यत् अयम् सङ्ख्यायाः अतिशदन्तायाः कन् इति तिशदन्तायाः प्रतिषेधम् शास्ति ।

६४ - ९१ - कथम् कृत्वा ज्ञापकम् ।

६५ - ९१ - न हि कृत्रिमा त्यन्ता शदन्ता वा सङ्ख्या अस्ति ।

६६ - ९१ - ननु च इयम् अस्ति डतिः ।

६७ - ९१ - यत् तर्हि शदन्तायाः प्रतिषेधम् शास्ति ।

६८ - ९१ - यत् च अपि त्यन्तायाः प्रतिषेधम् शास्ति ।

६९ - ९१ - ननु च उक्तम् डत्यर्थम् एतत् स्यात् इति ।

७० - ९१ - अर्थवद्ग्रहणे न अनर्थकस्य इति अर्थवतः तिशब्दस्य ग्रहणम् ।

७१ - ९१ - न च डतेः तिशब्दः अर्थवान्. अथ वा महती इयम् सञ्ज्ञा क्रियते ।

७२ - ९१ - सञ्ज्ञा च नाम यतः न लघीयः ।

७३ - ९१ - कुतः एतत् ।

७४ - ९१ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

७५ - ९१ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथ विज्ञायेत ।

७६ - ९१ - सङ्ख्यायते अनया सङ्ख्या इति ।

७७ - ९१ - एकादिकया च अपि सङ्ख्यायते ।

७८ - ९१ - उत्तरार्थेन च अपि न अर्थः सङ्ख्याग्रहणेन ।

७९ - ९१ - इदम् प्रकृतम् अनुवर्तिष्यते ।

८० - ९१ - इदम् वै सञ्ज्ञार्थम् उत्तरत्र च सञ्ज्ञिविशेषणार्थः ।

८१ - ९१ - न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।

८२ - ९१ - न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

८३ - ९१ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।

८४ - ९१ - यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति ।

८५ - ९१ - तत् यथा शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।

८६ - ९१ - यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

८७ - ९१ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।

८८ - ९१ - भवेत् द्रव्येषु एतत् एवम् स्यात् ।

८९ - ९१ - शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।

९० - ९१ - अथ वा सापेक्षः अयम् निर्देशः क्रियते न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति ।

९१ - ९१ - ते सङ्ख्याम् एव अपेक्षिष्यामहे ।

१ - ३८ - अध्यर्धग्रहणम् च समासकन्विध्यर्थम् ।

२ - ३८ - अध्यर्धग्रहणम् च कर्तव्यम् ।

३ - ३८ - किम् प्रयोजनम् ।

४ - ३८ - समासकन्विध्यर्थम् ।

५ - ३८ - समासविध्यर्थम् कन्द्विध्यर्थम् च ।

६ - ३८ - समासविध्यर्थम् तावत् अध्यर्धशूर्पम् ।

७ - ३८ - कन्विध्यर्थम् अध्यर्धकम् ।

८ - ३८ - लुकि च अग्रहणम् ।

९ - ३८ - लुकि च अध्यर्धग्रहणम् न कर्तव्यम् भवति अध्यर्धपूर्वद्विगोः लुक् असञ्ज्ञायाम् इति ।

१० - ३८ - द्विगोः इति एव सिद्धम् ।

११ - ३८ - अर्धपूर्वपदः च पूरणप्रत्ययान्तः ।

१२ - ३८ - अर्धपूर्वपदः च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञः भवति इति वक्तव्यम् ।

१३ - ३८ - किम् प्रयोजनम् ।

१४ - ३८ - समासकन्विध्यर्थम् ।

१५ - ३८ - समासविध्यर्थम् कन्द्विध्यर्थम् च ।

१६ - ३८ - समासविध्यर्थम् तावत् अर्धपञ्चमशूर्पम् ।

१७ - ३८ - कन्विध्यर्थम् अर्धपञ्चमकम् ।

१८ - ३८ - अधिकग्रहणम् च अलुकि समासोत्तरपदवृद्ध्यर्थम् ।

१९ - ३८ - अधिकग्रहणम् च अलुकि कर्तव्यम् ।

२० - ३८ - किम् प्रयोजनम् ।

२१ - ३८ - समासोत्तरपदवृद्ध्यर्थम् ।

२२ - ३८ - समासवृद्ध्यर्थम् उत्तरवृद्ध्यर्तम् च ।

२३ - ३८ - समासवृद्ध्यर्थम् तावत् अधिकषाष्ठिकः , अधिकसाप्ततिकः ।

२४ - ३८ - उत्तरपदवृद्ध्यर्थम् अधिकषाष्ठिकः , अधिकसाप्ततिकः ।

२५ - ३८ - अलुकि इति किम् अर्थम् ।

२६ - ३८ - अधिकषाष्ठिकः , अधिकसाप्ततिकः ।

२७ - ३८ - बहुव्रीहौ च अग्रहणम् ।

२८ - ३८ - बहुव्रीहौ च अधिकशब्दस्य ग्रहणम् न कर्तव्यम् भवति सङ्ख्यया अव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति ।

२९ - ३८ - सङ्ख्या इति एव सिद्धम् ।

३० - ३८ - बह्वादीनाम् अग्रहणम् ।

३१ - ३८ - बह्वादीनाम् ग्रहणम् शक्यम् अकर्तुम् ।

३२ - ३८ - केन इदानीम् सङ्ख्याप्रदेशेषु सङ्ख्यसम्प्रत्ययः भविष्यति ।

३३ - ३८ - ज्ञापकात् सिद्धम् ।

३४ - ३८ - किम् ज्ञापकम् ।

३५ - ३८ - यत् अयम् वतोः इट् वा इति सङ्ख्यायाः विहितस्य कनः वत्वन्तात् इटम् शास्ति ।

३६ - ३८ - वतोः एव तत् ज्ञापकम् स्यात् ।

३७ - ३८ - न इति आह ।

३८ - ३८ - योगापेक्षम् ज्ञापकम् ।

१ - ४४ - षट्सञ्ज्ञायाम् उपदेशवचनम् ।

२ - ४४ - षट्सञ्ज्ञायाम् उपदेशग्रहणम् कर्तव्यम् ।

३ - ४४ - उपदेशे षकारनकारान्ता सङ्ख्या षट्सञ्ज्ञा भवति इति वक्तव्यम् ।

४ - ४४ - किम् प्रयोजनम् ।

५ - ४४ - शताद्यष्टनोः नुम्नुडर्थम् ।

६ - ४४ - शतानि सहस्राणि ।

७ - ४४ - नुमि कृते ष्णान्ता षट् इति षट्सञ्ज्ञा प्राप्नोति ।

८ - ४४ - उपदेशग्रहणात् न भवति ।

९ - ४४ - अष्टानाम् इति अत्र आत्वे कृते षट्सञ्ज्ञा न प्राप्नोति ।

१० - ४४ - उपदेशग्रहणात् भवति ।

११ - ४४ - उक्तम् वा ।

१२ - ४४ - किम् उक्तम् ।

१३ - ४४ - इह तावत् शतानि सहस्राणि इति ।

१४ - ४४ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

१५ - ४४ - अष्टनः अपि उक्तम् ।

१६ - ४४ - किम् उक्तम् ।

१७ - ४४ - अष्टनः दीर्घग्रहणम् षट्सञ्ज्ञाज्ञापकम् आकारान्तस्य नुडर्थम् इति ।

१८ - ४४ - अथ वा आकारः अपि अत्र निर्दिश्यते ।

१९ - ४४ - षकारान्ता नकारान्ता आकारान्ता च सङ्ख्या षट्सञ्ज्ञा भवति इति ।

२० - ४४ - इह अपि तर्हि प्राप्नोति सधमधः द्युम्नः एकाः तः एकाः इति ।

२१ - ४४ - न एषः दोषः ।

२२ - ४४ - एकशब्दः अयम् बह्वर्थः ।

२३ - ४४ - अस्ति एव सङ्ख्यापदम् ।

२४ - ४४ - तत् यथा एकः , द्वौ , बहवः इति ।

२५ - ४४ - अस्ति असहायवाची ।

२६ - ४४ - तत् यथा एकाग्नयः , एकहलानि , एकाकिभिः क्षुद्रकैः जितम् इति ।

२७ - ४४ - असहायैः इति अर्थः ।

२८ - ४४ - अस्ति अन्यार्थे वर्तते ।

२९ - ४४ - तत् यथा प्रजम् एका रक्षति उर्जम् एका इति ।

३० - ४४ - अन्या इति अर्थः ।

३१ - ४४ - सधमदः द्युम्नः एकाः तः ।

३२ - ४४ - अन्याः इति अर्थः ।

३३ - ४४ - तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।

३४ - ४४ - इह तर्हि प्राप्नोति द्वभ्याम् इष्टये विंशत्य च इति ।

३५ - ४४ - एवम् तर्हि सप्तमे योगविभागः करिष्यते ।

३६ - ४४ - अष्टाभ्यः औश् ।

३७ - ४४ - ततः षड्भ्यः षड्भ्यः च यत् उक्तम् अष्टाभ्यः अपि तत् भवति ।

३८ - ४४ - ततः लुक् लुक् च भवति षड्भ्यः इति ।

३९ - ४४ - अथ वा उपरिष्टात् योगविभागः करिष्यते ।

४० - ४४ - अष्टनः आ विभक्तौ ।

४१ - ४४ - ततः रायः रायः च विभक्तौ आकारादेशः भवति ।

४२ - ४४ - हलि इति उभयोः शेषः ।

४३ - ४४ - यदि एवम् प्रियाष्टौ प्रियाष्टाः इति न सिध्यति प्रियाष्टानौ प्रियाष्टानः इति च प्राप्नोति ।

४४ - ४४ - यथालक्षणम् अप्रयुक्ते ।

१ - ८ - इदम् डतिग्रहणम् द्विः क्रियते सङ्ख्यासञ्ज्ञायाम् षट्सञ्ज्ञायाम् च ।

२ - ८ - एकम् शक्यम् अकर्तुम् ।

३ - ८ - कथम् ।

४ - ८ - यदि तावत् सङ्ख्यासञ्ज्ञायाम् क्रियते षट्सञ्ज्ञायाम् न करिष्यते ।

५ - ८ - कथम् ।

६ - ८ - ष्णान्ता षट् इति अत्र डति इति अनुवर्तिष्यते ।

७ - ८ - अथ षट्सञ्ज्ञायाम् क्रियते सङ्ख्यासञ्ज्ञायाम् न करिष्यते ।

८ - ८ - डति च इति अत्र सङ्ख्यासञ्ज्ञा अनुवर्तिष्यते ।

१ - ४६ - निष्ठासञ्ज्ञायाम् समानशब्दप्रतिषेधः ।

२ - ४६ - निष्ठासञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः कर्तव्यः ।

३ - ४६ - लोतः गर्तः इति ।

४ - ४६ - निष्ठासञ्ज्ञायाम् समानशब्दाप्रतिषेधः ।

५ - ४६ - निष्ठासञ्ज्ञायाम् समानशब्दप्रतिषेधः ।

६ - ४६ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

७ - ४६ - निष्ठासञ्ज्ञा कस्मात् न भवति ।

८ - ४६ - अनुबन्धः अन्यत्वकरः ।

९ - ४६ - अनुबन्धः क्रियते ।

१० - ४६ - सः अन्यत्वम् करिष्यति ।

११ - ४६ - अनुबन्धः अन्यत्वकरः इति चेत् न लोपात् ।

१२ - ४६ - अनुबन्धः अन्यत्वकरः इति चेत् तत् न ।

१३ - ४६ - किम् कारणम् ।

१४ - ४६ - लोपात् ।

१५ - ४६ - लुप्यते अत्र अनुबन्धः ।

१६ - ४६ - लुप्ते अत्र अनुबन्धे न अन्यत्वम् भविष्यति ।

१७ - ४६ - तत् यथा कतरत् देवदत्तस्य गृहम् ।

१८ - ४६ - अदः यत्र असौ काकः इति ।

१९ - ४६ - उत्पतिते काके नष्टम् तत् गृहम् भवति ।

२० - ४६ - एवम् इह अपि लुप्ते अनुबन्धे नष्टः प्रत्ययः भवति ।

२१ - ४६ - यदि अपि लुप्यते जानाति तु असौ सानुबन्धकस्य इयम् सञ्ज्ञा कृता इति ।

२२ - ४६ - तत् यथा इतरत्र अपि कतरत् देवदत्तस्य गृहम् ।

२३ - ४६ - अदः यत्र असौ काकः इति ।

२४ - ४६ - उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति ।

२५ - ४६ - सिद्धविपर्यासः च ।

२६ - ४६ - सिद्धः च विपर्यासः ।

२७ - ४६ - यदि अपि जानाति सन्देहः तस्य भवति अयम् सः तशब्दः लोतः गर्तः इति अयम् सः तशब्दः लूनः गीर्णः इति ।

२८ - ४६ - तत् यथा इतरत्र अपि कतरत् देवदत्तस्य गृहम् ।

२९ - ४६ - अदः यत्र असौ काकः इति ।

३० - ४६ - उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति ।

३१ - ४६ - सन्देहः तु तस्य भवति इदम् तत् गृहम् इदम् तत् गृहम् इति ।

३२ - ४६ - एवम् तर्हि ।

३३ - ४६ - कारककालविशेषात् सिद्धम् ।

३४ - ४६ - कारककालविशेषौ उपादेयौ ।

३५ - ४६ - भूते यः तशब्दः कर्तरि कर्मणि भावे च इति ।

३६ - ४६ - तत् यथा इतरत्र अपि ।

३७ - ४६ - यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः अध्रुवेण निमित्तेन ध्रुवम् निमित्तम् उपादत्ते वेदिकाम् पुण्डरीकम् वा ।

३८ - ४६ - एवम् अपि प्राकीर्ष्ट इति अत्र प्राप्नोति ।

३९ - ४६ - लुङि सिजादिदर्शनात् ।

४० - ४६ - लुङि सिजादिदर्शनात् न भविष्यति ।

४१ - ४६ - यत्र तर्हि सिजादयः न दृश्यन्ते प्राभित्त इति ।

४२ - ४६ - दृश्यन्ते अत्र अपि सिजादयः ।

४३ - ४६ - किम् वक्तव्यम् एतत् ।

४४ - ४६ - न हि ।

४५ - ४६ - कथम् अनुच्यमानम् गंस्यते ।

४६ - ४६ - यथा एव अयम् अनुपदिष्टान् कारककालविशेषान् अवगच्छति एवम् एतत् अपि अवगन्तुम् अर्हति यत्र सिजादयः न इति ।

१ - १५ - सर्वादीनि इति कः अयम् समासः ।

२ - १५ - बहुव्रीहिः इति आह ।

३ - १५ - कः अस्य विग्रहः ।

४ - १५ - सर्वशब्दः आदिः येषाम् तानि इमानि इति ।

५ - १५ - यदि एवम् सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति ।

६ - १५ - किम् कारणम् ।

७ - १५ - अन्यपदार्थत्वात् बहुव्रीहेः ।

८ - १५ - बहुव्रीहिः अयम् अन्यपदार्थे वर्तते ।

९ - १५ - तेन यत् अन्यत् सर्वशब्दात् तस्य सर्वनामस्ञ्ज्ञा प्राप्नोति ।

१० - १५ - तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः भवन्ति स आनीयते न गावः ।

११ - १५ - न एषः दोषः ।

१२ - १५ - भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि ।

१३ - १५ - तत् यथा चित्रवासम् आनय ।

१४ - १५ - लोहितोष्णीषाः ऋत्विजः प्रचरन्ति ।

१५ - १५ - तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

१ - ४७ - इह सर्वनामानि इति पूर्वपदात् सञ्ज्ञायाम् अगः इति णत्वम् प्राप्नोति ।

२ - ४७ - तस्य प्रतिषेधः वक्तव्यः ।

३ - ४७ - सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः ।

४ - ४७ - सर्वनामसञ्ज्ञायाम् निपातनात् णत्वम् न भविष्यति ।

५ - ४७ - किम् एतत् निपातनम् नाम ।

६ - ४७ - अथ कः प्रतिषेधः नाम ।

७ - ४७ - अविशेषेण किम् चित् उक्त्वा विशेषेण न इति उच्यते ।

८ - ४७ - तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते इदम् न भवति इति ।

९ - ४७ - निपातनम् अपि एवञ्जातीयकम् एव ।

१० - ४७ - अविशेषेण णत्वम् उक्त्वा विशेषेण निपातनम् क्रियते ।

११ - ४७ - तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते इदम् न भवति इति ।

१२ - ४७ - ननु च निपातनात् च अणत्वम् स्यात् यथाप्राप्तम् च णत्वम् ।

१३ - ४७ - किम् अन्ये अपि एवम् विधयः भवन्ति ।

१४ - ४७ - इह इकः यण् अचि इति वचनात् च यण् स्यात् यथाप्राप्तः च इक् श्रूयेत ।

१५ - ४७ - न एषः दोषः ।

१६ - ४७ - अस्ति अत्र विशेषः ।

१७ - ४७ - षष्ठ्या अत्र निर्देशः क्रियते ।

१८ - ४७ - षष्ठी च पुनः स्थानिनम् निवर्तयति ।

१९ - ४७ - इह तर्हि कर्तरि शप् दिवादिभ्यः श्यन् इति वचनात् च श्यन् स्यात् यथाप्राप्तः च शप् श्रूयेत ।

२० - ४७ - न एषः दोषः ।

२१ - ४७ - शबादेशाः श्यनादयः करिष्यन्ते ।

२२ - ४७ - तत् तर्हि शपः ग्रहणम् कर्तव्यम् ।

२३ - ४७ - न कर्तव्यम् ।

२४ - ४७ - प्रकृतम् अनुवर्तते ।

२५ - ४७ - क्व प्रकृतम् ।

२६ - ४७ - कर्तरि शप् इति ।

२७ - ४७ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

२८ - ४७ - दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य ।

२९ - ४७ - प्रत्ययविधिः अयम् ।

३० - ४७ - न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति ।

३१ - ४७ - न अयम् प्रत्ययविधिः ।

३२ - ४७ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

३३ - ४७ - इह तर्हि अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति ।

३४ - ४७ - वचनात् च अकच् स्यात् यथाप्राप्तः च कः श्रूयेत ।

३५ - ४७ - न एषः दोषः ।

३६ - ४७ - न अप्राप्ते हि के अकच् आरभ्यते ।

३७ - ४७ - सः बाधकः भविष्यति ।

३८ - ४७ - निपातनम् अपि एवञ्जातीयकम् एव ।

३९ - ४७ - न अप्राप्ते णत्वे निपातनम् आरभ्यते ।

४० - ४७ - तत् बाधकम् भविष्यति ।

४१ - ४७ - यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति समः तते दोषः भवति ।

४२ - ४७ - इह अन्ये वैयाकरणाः समः तते विभाषा लोपम् आरभन्ते समः हि ततयोः वा इति ।

४३ - ४७ - सततम् , सन्ततम् , सहितम् , संहितम् इति ।

४४ - ४७ - इह पुनः भवान् निपातनात् च मलोपम् इच्छति अपरस्पराः क्रियासातत्ये इति यथाप्राप्तम् च अलोपम् सन्ततम् इति ।

४५ - ४७ - एतत् न सिध्यति ।

४६ - ४७ - कर्तव्यः अत्र यत्नः ।

४७ - ४७ - बाधकानि एव हि निपातनानि भवन्ति ।

१ - ८४ - सञ्ज्ञोपसर्जनप्रतिषेधः ।

२ - ८४ - सञ्ज्ञोपसर्जनीभूतानाम् सर्वादीनाम् प्रतिषेधः वक्तव्यः ।

३ - ८४ - सर्वः नाम कः चित् ।

४ - ८४ - तस्मै सर्वाय देहि ।

५ - ८४ - अतिसर्वाय देहि ।

६ - ८४ - सः कथम् कर्तव्यः ।

७ - ८४ - पाठात् पर्युदासः पठितानाम् सञ्ज्ञाकरणम् ।

८ - ८४ - पाठात् एव पर्युदासः कर्तव्यः ।

९ - ८४ - शुद्धानाम् पठितानाम् सञ्ज्ञा कर्तव्या ।

१० - ८४ - सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति ।

११ - ८४ - सञ्ज्ञोपसर्जनीभूतानि न सर्वादीनि ।

१२ - ८४ - किम् अविशेषेण ।

१३ - ८४ - न इति आह ।

१४ - ८४ - विशेषेण च ।

१५ - ८४ - किम् प्रयोजनम् ।

१६ - ८४ - सर्वाद्यानन्तर्यकार्यार्थम् ।

१७ - ८४ - सर्वादीनाम् आनन्तर्येण यत् उच्यते कार्यम् तत् अपि सञ्ज्ञोपसर्जनीभूतानाम् मा भूत् इति ।

१८ - ८४ - किम् प्रयोजनम् ।

१९ - ८४ - प्रयोजनम् डतरादीनाम् अद्भावे ।

२० - ८४ - डतरादीनाम् अद्भावे प्रयोजनम् ।

२१ - ८४ - अतिक्रान्तम् इदम् बृआह्मणकुलम् कतरत् , अतिकतरम् ब्राह्मणकुलम् इति ।

२२ - ८४ - त्यदादिविधौ च ।

२३ - ८४ - त्यदादिविधौ च प्रयोजनम् ।

२४ - ८४ - अतिक्रान्तः अयम् ब्राह्मणः तम् अतितत् ब्राह्मणः इति ।

२५ - ८४ - सञ्जाप्रतिषेधः तावत् न वक्तव्यः ।

२६ - ८४ - उपरिष्टात् योगविभागः करिष्यते ।

२७ - ८४ - पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् ।

२८ - ८४ - ततः असञ्ज्ञायाम् इति ।

२९ - ८४ - सर्वादीनि इति एवम् यानि अनुक्रान्तानि असञ्ज्ञायाम् तानि द्रष्टव्यानि ।

३० - ८४ - उपसर्जनप्रतिषेधः च न कर्तव्यः ।

३१ - ८४ - अनुपसर्जनात् इति एषः योगः प्रत्याख्यायते ।

३२ - ८४ - तम् एवम् अभिसम्भन्त्स्यामः अनुपसर्जन अ अत् इति ।

३३ - ८४ - किम् इदम् अ अत् इति ।

३४ - ८४ - अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ ।

३५ - ८४ - यदि एवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति ।

३६ - ८४ - प्रश्लिष्टनिर्देशः अयम् अनुपसर्जन अ अ अत् इति ।

३७ - ८४ - अकारान्तात् अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ ।

३८ - ८४ - अथ वा अङ्गाधिकारे यत् उच्यते गृह्यमाणविभक्तेः तत् भवति ।

३९ - ८४ - यदि एवम् परमपञ्च परमसप्त षड्भ्यः लुक् इति लुक् न प्राप्नोति ।

४० - ८४ - न एषः दोषः ।

४१ - ८४ - षट्प्रधानः एषः समासः ।

४२ - ८४ - इह तर्हि प्रियसक्थ्ना ब्राह्मणेन अनङ् न प्राप्नोति ।

४३ - ८४ - सप्तमीनिर्दिष्टे यत् उच्यते प्रकृतविभक्तौ तत् भवति ।

४४ - ८४ - यदि एवम् अतितत् , अतितदौ , अतितदः इति अत्वम् प्राप्नोति ।

४५ - ८४ - तत् च अपि वक्तव्यम् ।

४६ - ८४ - न वक्तव्यम् ।

४७ - ८४ - इह तावत् अद्ड् डतरादिभ्यः पञ्चभ्यः इति पञ्चमी अङ्गस्य इति षष्ठी ।

४८ - ८४ - तत्र अशक्यम् विविभक्तित्वात् डतरादिभ्यः इति पञ्चम्या अङ्गम् विशेषयितुम् ।

४९ - ८४ - तत्र किम् अन्यत् शक्यम् विशेषयितुम् अन्यत् अतः विहितात् प्रत्ययात् ।

५० - ८४ - डतरादिभ्यः यः विहितः इति ।

५१ - ८४ - इह इदानीम् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति त्यदादीनाम् अः भवति इति अस्थ्यादीनाम् इति एषा षष्ठी अङ्गस्य इति अपि त्यदादीनाम् इति अपि षष्ठी अङ्गस्य इति अपि ।

५२ - ८४ - तत्र कामचारः गृह्यमाणेन वा विभक्तिम् विशेषयितुम् अङ्गेन वा ।

५३ - ८४ - यावता कामचारः इह तावत् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति अङ्गेन विभक्तिम् विशेषयिष्यामः अस्थ्यादिभिः अनङम् अङ्गस्य विभक्तौ अनङ् भवति अस्थ्यादीनाम् इति ।

५४ - ८४ - इह इदानीम् त्यदादीनाम् अः भवति इति गृह्यमाणेन विभक्तिम् विशेषयिष्यामः अङ्गेन अकारम् त्यदादीनाम् विभक्तौ अः भवति अङ्गस्य इति ।

५५ - ८४ - यदि एवम् अतिसः अत्वम् न प्राप्नोति ।

५६ - ८४ - न एषः दोषः ।

५७ - ८४ - त्यदादिप्रधानः एषः समासः ।

५८ - ८४ - अथ वा न इदम् सञ्ज्ञाकरणम् ।

५९ - ८४ - पाठविशेषणम् इदम् सर्वेषाम् यानि नामानि तानि सर्वादीनि ।

६० - ८४ - सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते ।

६१ - ८४ - यदि एवम् सञ्ज्ञाश्रयम् यत् कार्यम् तत् न सिध्यति सर्वनाम्नः स्मै , आमि सर्वनाम्नः सुट् इति ।

६२ - ८४ - अन्वर्थग्रहणम् तत्र विज्ञास्यते सर्वेषाम् यत् नाम तत् सर्वनाम ।

६३ - ८४ - सर्वनाम्नः उत्तरस्य ङेः स्मै भवति ।

६४ - ८४ - सर्वनाम्नः उत्तरस्य आमः सुट् भवति ।

६५ - ८४ - यदि एवम् सकलम् , कृत्स्नम् , जगत् इति अत्र अपि प्राप्नोति ।

६६ - ८४ - एतेषाम् च अपि शब्दानाम् एकैकस्य सः सः विषयः ।

६७ - ८४ - तस्मिन् तस्मिन् विषये यः यः शब्दः वर्तते तस्य तस्य तस्मिन् तस्मिन् वर्तमानस्य सर्वनामकार्यम् प्राप्नोति ।

६८ - ८४ - एवम् तर्हि उभयम् अनेन क्रियते ।

६९ - ८४ - पाठः च एव विशेष्यते सञ्ज्ञा च ।

७० - ८४ - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

७१ - ८४ - लभ्यम् इति आह ।

७२ - ८४ - कथम्. एकशेषनिर्देशात् ।

७३ - ८४ - एकशेषनिर्देशः अयम् सर्वादीनि च सर्वादीनि च सर्वादीनि ।

७४ - ८४ - सर्वनामानि च सर्वनामानि च सर्वनामानि ।

७५ - ८४ - सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति ।

७६ - ८४ - सर्वेषाम् यानि च नामानि तानि सर्वादीनि ।

७७ - ८४ - सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते ।

७८ - ८४ - अथ वा महती इयम् सञ्ज्ञा क्रियते ।

७९ - ८४ - सञ्ज्ञा च नाम यतः न लघीयः ।

८० - ८४ - कुतः एतत् ।

८१ - ८४ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

८२ - ८४ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

८३ - ८४ - सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति सर्वेषाम् नामानि इति च अतः सर्वनामानि ।

८४ - ८४ - सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते ।

१ - ४३ - अथ उभस्य सर्वनामत्वे कः अर्थः ।

२ - ४३ - उभस्य सर्वनामत्वे अकजर्थः ।

३ - ४३ - उभस्य सर्वनामत्वे अकजर्थः पाठः क्रियते उभकौ ।

४ - ४३ - किम् उच्यते अकजर्थः इति न पुनः अन्यानि अपि सर्वनामकार्याणि ।

५ - ४३ - अन्याभावः द्विवचनटाब्विषयत्वात् ।

६ - ४३ - अन्येषाम् सर्वनाम्कार्याणाम् अभावः ।

७ - ४३ - किम् कारणम् ।

८ - ४३ - द्विवचनटाब्विषयत्वात् ।

९ - ४३ - उभशब्दः अयम् द्विवचनटाब्विषयः ।

१० - ४३ - अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषु उच्यन्ते ।

११ - ४३ - यदा पुनः अयम् उभशब्दः द्विवचनटाब्विषयः कः इदानीम् अस्य अन्यत्र भवति ।

१२ - ४३ - उभयः अन्यत्र ।

१३ - ४३ - उभयशब्दः अस्य अन्यत्र बह्वति ।

१४ - ४३ - उभये देवमनुष्याः , उभयः मणिः इति ।

१५ - ४३ - किम् च स्यात् यदि अत्र अकच् न स्यात् ।

१६ - ४३ - कः प्रसज्येत ।

१७ - ४३ - कः च इदानीम् काकचोः विशेषः ।

१८ - ४३ - उभशब्दः अयम् द्विवचनटाब्विषयः इति उक्तम् ।

१९ - ४३ - तत्र अकचि सति अकचः तन्मध्यपतितत्वात् शक्यते एतत् वक्तुम् द्विवचनपरः अयम् इति ।

२० - ४३ - के पुनः सति न अयम् द्विवचनपरः स्यात् ।

२१ - ४३ - तत्र द्विवचनपरता वक्तव्या ।

२२ - ४३ - यथा एव तर्हि के सति न अयम् द्विवचनपरः एवम् आपि अपि सति न अयम् द्विवचनपरः स्यात् ।

२३ - ४३ - तत्र अपि द्विवचनपरता वक्तव्या ।

२४ - ४३ - अवचनात् अपि तत्परविज्ञानम् ।

२५ - ४३ - अन्तरेण अपि वचनम् आपि द्विवचनपरः अयम् भविष्यति ।

२६ - ४३ - किम् वक्तव्यम् एतत् ।

२७ - ४३ - न हि ।

२८ - ४३ - कथम् अनुच्यमानम् गंस्यते ।

२९ - ४३ - एकादेशे कृते द्विवचनपरः अयम् अन्तादिवद्भावेन ।

३० - ४३ - अवचनात् आपि तत्परविज्ञानम् इति चेत् के अपि तुल्यम् ।

३१ - ४३ - अवचनात् आपि तत्परविज्ञानम् इति चेत् के अपि अन्तरेण वचनम् द्विवचनपरः भविष्यति ।

३२ - ४३ - कथम् ।

३३ - ४३ - स्वार्थिकाः प्रत्ययाः प्रकृतितः अविशिष्टाः भवन्ति इति प्रकृतिग्रहणेन स्वार्थिकानाम् अपि ग्रहणम् भवति ।

३४ - ४३ - अथ भवतः सर्वनामत्वे कानि प्रोजनानि ।

३५ - ४३ - भवतः अकच्छेषात्वानि ।

३६ - ४३ - भवतः अकच्छेषात्वानि प्रयोजनानि ।

३७ - ४३ - अकच् भवकान् ।

३८ - ४३ - शेषः सः च भवान् च भवन्तौ ।

३९ - ४३ - आत्वम् भवादृक् इति ।

४० - ४३ - किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् ।

४१ - ४३ - उदाहरणमात्रम् इति आह ।

४२ - ४३ - तृतीयादयः अपि हि इष्यन्ते ।

४३ - ४३ - सर्वनाम्नः तृतीया च भवता हेतुना , भवतः हेतोः इति ।

१ - ३६ - दिग्ग्रहणम् किमर्थम् ।

२ - ३६ - न बहुव्रीहौ इति प्रतिषेधम् वक्ष्यति ।

३ - ३६ - तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेधः इति ।

४ - ३६ - दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

५ - ३६ - दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः ।

६ - ३६ - अथ समासग्रहणम् किमर्थम्. समासः एव यः बहुव्रीहिः तत्र यथा स्यात् ।

७ - ३६ - बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति दक्षिणदक्षिणस्यै देहि इति ।

८ - ३६ - अथ बहुव्रीहिग्रहणम् किमर्थम् ।

९ - ३६ - द्वन्द्वे मा भूत् दक्षिणोत्तरपूर्वाणाम् इति ।

१० - ३६ - न एतत् अस्ति प्रयोजनम् ।

११ - ३६ - द्वन्द्वे च इति प्रतिषेधः भविष्यति ।

१२ - ३६ - न अप्राप्ते प्रतिषेधे इयम् परिभाषा आरभ्यते ।

१३ - ३६ - सा यथा एव बहुव्रीहौ इति एतम् प्रतिषेधम् बाधते एवम् द्वन्द्वे च इति एतम् अपि बाधेत ।

१४ - ३६ - न बाधते ।

१५ - ३६ - किम् कारणम् ।

१६ - ३६ - येन न अप्राप्ते तस्य बाधनम् भवति ।

१७ - ३६ - न च अप्राप्ते न बहुव्रीहौ इति एतस्मिन् प्रतिषेधे इयम् परिभाषा आरभ्यते ।

१८ - ३६ - द्वन्द्वे च इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

१९ - ३६ - अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इयम् विभाषा न बहुव्रीहौ इति एतम् प्रतिषेधम् बाधिष्यते द्वन्द्वे च इति एतम् प्रतिषेधम् न बाधिष्यते ।

२० - ३६ - अथ वा इदम् तावत् अयम् प्रष्टव्यः ।

२१ - ३६ - इह कस्मात् न भवति या पूर्वा सा उत्तरा अस्य उन्मुग्धस्य सः अयम् पूर्वोत्तरः उन्मुग्धः , तस्मै पूर्वोत्तराय देहि ।

२२ - ३६ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

२३ - ३६ - यदि एवम् न अर्थः बहुव्रीहिग्रहणेन ।

२४ - ३६ - द्वन्द्वे कस्मात् न भवति ।

२५ - ३६ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

२६ - ३६ - उत्तरार्थम् तर्हि बहुव्रीहिग्रहणम् कर्तव्यम् ।

२७ - ३६ - न कर्तव्यम् ।

२८ - ३६ - क्रियते तत्र एव बहुव्रीहौ इति ।

२९ - ३६ - द्वितीयम् कर्तव्यम् ।

३० - ३६ - बहुव्रीहिः एव यः बहुव्रीहिः तत्र यथा स्यात् ।

३१ - ३६ - बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति एकैकस्मै देहि ।

३२ - ३६ - एतत् अपि न अस्ति प्रयोजनम्. समासे इति वर्तते ।

३३ - ३६ - तेन बहुव्रीहिम् विशेषयिष्यामः समासः यः बहुव्रीहिः इति ।

३४ - ३६ - इदम् तर्हि प्रयोजनम् ।

३५ - ३६ - अवयवभूतस्य अपि बहुव्रीहेः प्रतिषेधः यथा स्यात् ।

३६ - ३६ - इह मा भूत् वस्त्रम् अन्तरम् एषाम् ते इमे वस्त्रान्तराः वसनम् अन्तरम् एषाम् ते इमे वसनान्तराः वस्त्रान्तराः च वसनान्तराः च वस्त्रान्तरवसनान्तराः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP