पाद १ - खण्ड २२
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - २८ - विधिः इति कः अयम् शब्दः ।
२ - २८ - विपूर्वात् धाञः कर्मसाधनः इकारः ।
३ - २८ - विधीयते विधिः इति ।
४ - २८ - किम् पुनः विधीयते ।
५ - २८ - समासः विभक्तिविधानम् पराङ्गवद्भावः च ।
६ - २८ - किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा ।
७ - २८ - कः पुनः अधिकारपरिभाषयोः विशेषः ।
८ - २८ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।
९ - २८ - परिभाषा पुनः एकदेशस्था सती सर्वम् शास्त्रम् अभिज्वलयति प्रदीपवत् ।
१० - २८ - तत् यथा प्रदीपः सुप्रज्वलितः एकदेशस्थः सर्वम् वेश्म अभिज्वलयति ।
११ - २८ - कः पुनः अत्र प्रयत्नविशेषः ।
१२ - २८ - अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् ।
१३ - २८ - तथा इदम् अपरम् द्वैतम् भवति ।
१४ - २८ - एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति ।
१५ - २८ - तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः सङ्गृहीतः भवति बिभक्तिविधानम् पराङ्गवद्भावः च असङ्गृहीतः ।
१६ - २८ - व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् पराङ्गवद्भावः च सङ्गृहीतः समासः तु एकः असङ्गृहीतः ।
१७ - २८ - अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति ।
१८ - २८ - क्व अन्यत्र ।
१९ - २८ - इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति ।
२० - २८ - व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः सङ्गृहीतः भवति समासः तु एकः असङ्गृहीतः ।
२१ - २८ - तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति ।
२२ - २८ - एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते ।
२३ - २८ - अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति ।
२४ - २८ - कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति ।
२५ - २८ - ननु च गम्यते तत्र सामर्थ्यम् ।
२६ - २८ - कुम्भकारः नगरकारः इति ।
२७ - २८ - सत्यम् गम्यते उत्पन्ने तु प्रत्यये ।
२८ - २८ - सः एव तावत् समर्थात् उत्पाद्यः ।
१ - ९६ - अथ समर्थग्रहणम् किमर्थम् ।
२ - ९६ - वक्ष्यति द्वितीया श्रितादिभिः समस्यते ।
३ - ९६ - कष्टश्रितः नरकश्रितः इति ।
४ - ९६ - समर्थग्रहणम् किमर्थम् ।
५ - ९६ - पश्य देवदत्त कष्टम् ।
६ - ९६ - श्रितः विष्णुमित्रः गुरुकुलम् ।
७ - ९६ - तृतीया तत्कृतार्थेन गुणवचनेन ।
८ - ९६ - शङ्कुलाखण्डः किरिकाणः ।
९ - ९६ - समर्थग्रहणम् किमर्थम् ।
१० - ९६ - तिष्ठ त्वम् शङ्कुलया ।
११ - ९६ - खण्डः धावति मुसलेन ।
१२ - ९६ - चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।
१३ - ९६ - गोहितम् अश्रहितम् ।
१४ - ९६ - समर्थग्रहणम् किमर्थम् ।
१५ - ९६ - सुखम् गोभ्यः ।
१६ - ९६ - हितम् देवदत्ताय ।
१७ - ९६ - पञ्चमी भयेन ।
१८ - ९६ - वृकभयम् दस्युभयम् चोरभयम् ।
१९ - ९६ - समर्थग्रहणम् किमर्थम् ।
२० - ९६ - गच्छ त्वम् मा वृकेभ्यः ।
२१ - ९६ - भयम् देवदत्तस्य यज्ञदत्तात् ।
२२ - ९६ - षष्ठी सुबन्तेन समस्यते ॒ राजपुरुषः , ब्राह्मणकम्बलः ।
२३ - ९६ - समर्थग्रहणम् किमर्थम् ।
२४ - ९६ - भार्या राज्ञः ।
२५ - ९६ - पुरुषः देवदत्तस्य ।
२६ - ९६ - सप्तमी शौण्डैः ॒ अक्षशौण्डः , स्त्रीशौण्डः ।
२७ - ९६ - समर्थग्रहणम् किमर्थम् ।
२८ - ९६ - कुशलः देवदत्तः अक्षेषु ।
२९ - ९६ - शौण्डः पिबति पानागारे ।
३० - ९६ - अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् श्रितः इति ।
३१ - ९६ - न वा भवति महाकष्टश्रितः इति ।
३२ - ९६ - भवति यदा एतत् वाक्यम् भवति ॒ महत् कष्टम् महाकष्टम् , महाकष्टम् श्रितः महाकष्टश्रितः इति ।
३३ - ९६ - यदा तु एतत् वाक्यम् भवति ॒ महत् कष्टम् श्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति ।
३४ - ९६ - तदा कस्मात् न भवति ।
३५ - ९६ - कस्य कस्मात् न भवति ।
३६ - ९६ - किम् द्वयोः आहोस्वित् बहूनाम् ।
३७ - ९६ - बहूनाम् कस्मात् न भवति ।
३८ - ९६ - सुप् सुपा इति वर्तते ।
३९ - ९६ - ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।
४० - ९६ - तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति ।
४१ - ९६ - सत्यम् एतत् ।
४२ - ९६ - आकृतिः तु प्रत्येकम् परिसमाप्यते ।
४३ - ९६ - यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।
४४ - ९६ - प्रत्येकम् च एतत् परिसमाप्यते न समुदाये ।
४५ - ९६ - एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् ।
४६ - ९६ - द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु ।
४७ - ९६ - द्वयोः तर्हि कस्मात् न भवति ।
४८ - ९६ - असामर्थ्यात् ।
४९ - ९६ - कथम् असामर्थ्यम् ।
५० - ९६ - सापेक्षम् असमर्थम् भवति इति ।
५१ - ९६ - यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः न प्राप्नोति ।
५२ - ९६ - न एषः दोषः ।
५३ - ९६ - प्रधानम् अत्र सापेक्षम् ।
५४ - ९६ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।
५५ - ९६ - यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।
५६ - ९६ - न एषः दोषः ।
५७ - ९६ - समुदायपेक्षा अत्र षष्ट्ःी सर्वम् गुरुकुलम् अपेक्षते ।
५८ - ९६ - यत्र तर्हि न समुदायपेक्षा षष्ट्ःी तत्र वृत्तिः न प्राप्नोति ॒ किम् ओदनः शालीनाम् ।
५९ - ९६ - सक्त्वाढकम् आपणीयानाम् ।
६० - ९६ - कुतः भवान् पाटलिपुत्रकः ।
६१ - ९६ - इह च अपि ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ॒ यदि एषा समुदायपेक्षा षष्ट्ःी स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति ।
६२ - ९६ - किम् तर्हि ।
६३ - ९६ - अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत ।
६४ - ९६ - यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःी इति ।
६५ - ९६ - अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति ।
६६ - ९६ - क्व अन्यत्र ।
६७ - ९६ - इसुसोः सामर्थ्ये ।
६८ - ९६ - ब्राहमणस्य सर्पिः करोति इति ।
६९ - ९६ - तस्मात् न अएत शक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति ।
७० - ९६ - वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् श्रितः इति ।
७१ - ९६ - सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।
७२ - ९६ - यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति ।
७३ - ९६ - अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् ।
७४ - ९६ - तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति ।
७५ - ९६ - न वक्तव्यम् ।
७६ - ९६ - वृत्तिः तर्हि कस्मात् न भवति ।
७७ - ९६ - अगमकत्वात् ।
७८ - ९६ - इह समानार्थेन वाक्येन भवितव्यम् समासेन च ।
७९ - ९६ - यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् श्रितः इति न जातु चित् समासेन असौ गम्यते महत् कष्टश्रितः इति ।
८० - ९६ - एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।
८१ - ९६ - न ब्रूमः अपशब्दः स्यात् इति ।
८२ - ९६ - यत्र गमकः भवति भवति तत्र वृत्तिः ।
८३ - ९६ - तत् यथा ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।
८४ - ९६ - यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन ।
८५ - ९६ - इह अपि भार्या राज्ञः पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति ।
८६ - ९६ - तस्मात् न अर्थः समर्थग्रहणेन ।
८७ - ९६ - इदम् तर्हि प्रयोजनम् ।
८८ - ९६ - अस्ति असमर्थसमासः नञ्समासः गमकः ।
८९ - ९६ - तस्य साधुत्वम् मा भूत् ।
९० - ९६ - अकिञ्चित् कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् इति ।
९१ - ९६ - एतत् अपि न अस्ति प्रयोजनम् ।
९२ - ९६ - अवश्यम् कस्य चित् नञ्समासस्य गमकस्य साधुत्वम् वक्तव्यम् ।
९३ - ९६ - असूर्यम्पश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी अलवणभोजी ब्राह्मणः ।
९४ - ९६ - सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति ।
९५ - ९६ - एतस्य एव असमर्थसमासस्य नञ्समासस्य गमकस्य साधुत्वम् भवति न अन्यस्य इति ।
९६ - ९६ - तस्मान् न अर्थः समर्थग्रहणेन ।
१ - १०९ - अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम ।
२ - १०९ - पृथगर्थानाम् एकार्थीभावः समर्थवचनम् ।
३ - १०९ - पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते ।
४ - १०९ - वाक्ये पृथगर्थानि राज्ञः पुरुषः इति ।
५ - १०९ - समासे पुनः एकार्थानि राजपुरुषः इति ।
६ - १०९ - किम् उच्यते पृथगर्थानि इति यावता राज्ञः पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव ।
७ - १०९ - न अपि ब्रूमः अन्यस्य आनयनम् भवति इति ।
८ - १०९ - कः तर्हि एकार्थीभावकृतः विशेषः ।
९ - १०९ - सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः ।
१० - १०९ - सुपः अलोपः भवति वाक्ये ।
११ - १०९ - राज्ञः पुरुषः इति ।
१२ - १०९ - समासे पुनः न भवति ।
१३ - १०९ - राजपुरुषः इति ।
१४ - १०९ - व्यवधानम् च भवति वाक्ये ।
१५ - १०९ - राज्ञः ऋद्धस्य पुरुषः इति ।
१६ - १०९ - समासे न भवति ।
१७ - १०९ - राजपुरुषः इति ।
१८ - १०९ - यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये ।
१९ - १०९ - रज्ञः पुरुषः पुरुषः राज्ञः इति ।
२० - १०९ - समासे न भवति ।
२१ - १०९ - राजपुरुषः इति ।
२२ - १०९ - द्वौ स्वरौ भवतः वाक्ये ।
२३ - १०९ - रज्ञः पुरुषः ।
२४ - १०९ - समासे पुनः एकः एव ।
२५ - १०९ - राजपुरुषः इति ।
२६ - १०९ - न एते एकार्थीभावकृताः विशेषाः ।
२७ - १०९ - किम् तर्हि ।
२८ - १०९ - वाचनिकानि एतानि ।
२९ - १०९ - आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति ।
३० - १०९ - इमे तर्हि एकार्थीभाव्कृताः विशेषाः ।
३१ - १०९ - सङ्ख्याविशेषः व्यक्ताभिदानम् ल्कुपसर्जनविशेषणम् चयोगः इति ।
३२ - १०९ - सङ्ख्याविशेषः भवति वाक्ये ।
३३ - १०९ - राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञाम् पुरुषः इति ।
३४ - १०९ - समासे न भवति ।
३५ - १०९ - राजपुरुषः इति ।
३६ - १०९ - अस्ति कारणम् येन एतत् एवम् भवति ।
३७ - १०९ - किम् कारणम् ।
३८ - १०९ - यः असौ विशेषवाची शब्दः तदसान्निध्यात् ।
३९ - १०९ - अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः ।
४० - १०९ - ननु च न एतेन एवम् भवितव्यम् ।
४१ - १०९ - न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।
४२ - १०९ - अर्थकृतेन नाम शब्देन भवितव्यम् ।
४३ - १०९ - तत् एतत् एवम् दृश्यताम् ।
४४ - १०९ - अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति ।
४५ - १०९ - अवश्यम् च एतत् एवम् विज्ञेयम् ।
४६ - १०९ - यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह तस्य विशेषः गम्येत ॒ अप्सुचरः गोषुचरः वर्षासुजः इति ।
४७ - १०९ - व्यक्ताभिधानम् भवति वाक्ये ।
४८ - १०९ - ब्राह्मणस्य कम्बलः तिष्ठति इति ।
४९ - १०९ - समासे पुनः अव्यक्तम् ।
५० - १०९ - ब्राह्मणकम्बलः तिष्ठति इति ।
५१ - १०९ - सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति ।
५२ - १०९ - एषः अपि अविशेषः ।
५३ - १०९ - भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् ।
५४ - १०९ - वाक्ये तावत् अव्यक्तम् ।
५५ - १०९ - अर्धम् पशोः देवदत्तस्य इति ।
५६ - १०९ - सन्देहः भवति पशुगुणस्य वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ सञ्ज्ञीभूतः पशुः नाम तस्य यत् अर्धम् इति ।
५७ - १०९ - तत् च समासे व्यक्तम् भवति ।
५८ - १०९ - अर्ध्हपशुः देवदत्तस्य इति ।
५९ - १०९ - उपसर्जनविशेषणम् भवति वाक्ये ।
६० - १०९ - ऋद्धस्य राज्ञः पुरुषः इति ।
६१ - १०९ - समासे न भवति ।
६२ - १०९ - राजपुरुषः इति ।
६३ - १०९ - एषः अपि अदोषः ।
६४ - १०९ - समासे अपि उपसर्जनविशेषणम् भवति ।
६५ - १०९ - तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति ।
६६ - १०९ - चयोगः भवति वाक्ये ।
६७ - १०९ - स्वचयोगः स्वामिचयोगः च ।
६८ - १०९ - स्वचयोगः राज्ञः गौः च अश्वः च पुरुषः च इति ।
६९ - १०९ - समासे न भवति ।
७० - १०९ - राज्ञः गवाश्वपुरुषाः इति ।
७१ - १०९ - स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौः इति ।
७२ - १०९ - समासे न भवति ।
७३ - १०९ - देवदत्तयज्ञदत्तविष्णुमित्राणाम् गौः इति ।
७४ - १०९ - अथ एतस्मिन् एकार्थीभाव्कृते विशेषे किम् स्वाभाविकम् शब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् ।
७५ - १०९ - स्वाभाविकम् इति आह ।
७६ - १०९ - कुतः एतत् ।
७७ - १०९ - अर्थानादेशात् ।
७८ - १०९ - न हि अर्थाः आदिश्यन्ते ।
७९ - १०९ - कथम् पुनः अर्थान् आदिशन् एवम् ब्रूयात् न अर्थाः आदिश्यन्ते इत् ।
८० - १०९ - यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति ।
८१ - १०९ - न एतानि अर्थादेशनानि ।
८२ - १०९ - स्वभावतः एतेषाम् शब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते ।
८३ - १०९ - तत् यथा ।
८४ - १०९ - कूपे हस्तदक्षिणः पन्थाः ।
८५ - १०९ - अभ्रे चन्द्रमसम् पश्य इति ।
८६ - १०९ - स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते ।
८७ - १०९ - एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति ।
८८ - १०९ - किम् पुन कारणम् न आदिश्यन्ते ।
८९ - १०९ - तत् च लघ्वर्थम् ।
९० - १०९ - लघ्वर्थम् हि अर्थाः न आदिश्यन्ते ।
९१ - १०९ - अवश्यम् हि अनेन अर्थान् आदिशता केन चित् शब्देन निर्देशः कर्तव्यः स्यात् ।
९२ - १०९ - तस्य च तावत् केन कृतः येन असौ क्रियते ।
९३ - १०९ - अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था ।
९४ - १०९ - असम्भवः खलु अपि आदेशः तस्य ।
९५ - १०९ - कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् ।
९६ - १०९ - न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति ।
९७ - १०९ - भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः ।
९८ - १०९ - तत् यथा शुक्लः कृष्णः इति ।
९९ - १०९ - विषमः उपन्यासः ।
१०० - १०९ - सामान्यशब्दाः एते एवम् स्युः ।
१०१ - १०९ - सामन्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।
१०२ - १०९ - यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव विशेषे वृक्षशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।
१०३ - १०९ - न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते ।
१०४ - १०९ - अप्रवृत्तिः खलु अपि अर्थादेशनस्य ।
१०५ - १०९ - बहवः हि शब्दाः येषाम् अर्थाः न विज्ञायन्ते ।
१०६ - १०९ - जर्भरी तुर्फरीतू ।
१०७ - १०९ - अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।
१०८ - १०९ - न खलु अपि निर्ज्ञातस्य अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति ।
१०९ - १०९ - यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति पश्चात् अस्तम् एति मधुरः गुडः कटुकम् शृङ्गवेरम् इति किम् तेन कृतम् स्यात् ।
१ - ९ - वावचनानर्थक्यम् च स्वभावसिद्धत्वात् ।
२ - ९ - वावचनानर्थक्यम् ।
३ - ९ - किम् कारणम् ।
४ - ९ - स्वभावसिद्धत्वात् ।
५ - ९ - इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।
६ - ९ - स्वभावतः च एतत् भवति वाक्यम् च समासः च ।
७ - ९ - तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।
८ - ९ - न च सञ्ज्ञायाः भावाभावौ इष्येते ।
९ - ९ - तस्मात् न अर्थः वा वचनेन
१ - ६५ - अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः ।
२ - ६५ - परार्थाभिधानम् वृत्तिः इति आहुः ।
३ - ६५ - अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था ।
४ - ६५ - किम् च अतः ।
५ - ६५ - यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य ।
६ - ६५ - अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।
७ - ६५ - का पुनः वृत्तिः न्याय्या ।
८ - ६५ - जहत्स्वार्था ।
९ - ६५ - युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् ।
१० - ६५ - बाढम् युक्तम् ।
११ - ६५ - एवम् हि दृश्यते लोके ।
१२ - ६५ - पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति ।
१३ - ६५ - तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति ।
१४ - ६५ - एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् ।
१५ - ६५ - ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति ।
१६ - ६५ - न एषः दोषः ।
१७ - ६५ - जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति ।
१८ - ६५ - यः परार्थविरोधी स्वार्थः तम् जहाति ।
१९ - ६५ - तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि ।
२० - ६५ - न च अयम् अर्थः परार्थविरोधी विशेषणम् नाम ।
२१ - ६५ - तस्मात् न हास्यति ।
२२ - ६५ - अथ वा अन्वयात् विशेषणम् भविष्यति ।
२३ - ६५ - तत् यथा ।
२४ - ६५ - घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् विशेषणम् भवति अयम् घृतघटः अयम् तैलघटः इति ।
२५ - ६५ - विषमः उपन्यासः ।
२६ - ६५ - भवति हि तत्र या च यावती च अर्थमात्रा ।
२७ - ६५ - अङ्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु ।
२८ - ६५ - न गंस्यते सः विशेषः ।
२९ - ६५ - यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् विशेषणम् भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति ।
३० - ६५ - अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते ।
३१ - ६५ - सामर्थम् नम भेदः संसर्गः वा ।
३२ - ६५ - अपरः आह ॒ भेदसंसर्गौ वा सामर्थ्यम् इति ।
३३ - ६५ - कः पुनः भेदः संसर्गः वा ।
३४ - ६५ - इह राज्ञः इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः ।
३५ - ६५ - इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः ।
३६ - ६५ - एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु ।
३७ - ६५ - न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति ।
३८ - ६५ - अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः ।
३९ - ६५ - युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् ।
४० - ६५ - बाढम् युक्तम् ।
४१ - ६५ - एवम् हि दृश्यते लोके ।
४२ - ६५ - भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति सञ्चयाय प्रवर्तते ।
४३ - ६५ - ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति ।
४४ - ६५ - कस्याः पुनः द्विवचनम् प्राप्नोति ।
४५ - ६५ - प्रथामायाः ।
४६ - ६५ - न प्रथमासमर्थः राजा ।
४७ - ६५ - षष्ठ्याः तर्हि ।
४८ - ६५ - न षष्ठीसमर्थः पुरुषः ।
४९ - ६५ - प्रथमायाः एव तर्हि प्राप्नोति ।
५० - ६५ - ननु च उक्तम् न प्रथमासमर्थः राजा इति ।
५१ - ६५ - अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।
५२ - ६५ - तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति ।
५३ - ६५ - सङ्घातस्य ऐकार्थ्यात् न अवयवसङ्ख्यातः सुबुत्पत्तिः ।
५४ - ६५ - सङ्घातस्य एकत्वम् अर्थः ।
५५ - ६५ - तेन अवयवसङ्ख्यातः सुबुत्पत्तिः न भविष्यति ।
५६ - ६५ - परस्परव्यपेक्षा सामर्थ्येम् एके ।
५७ - ६५ - परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति ।
५८ - ६५ - का पुनः शब्दयोः व्यपेक्षा ।
५९ - ६५ - न ब्रूमः शब्दयोः इति ।
६० - ६५ - किम् तर्हि ।
६१ - ६५ - अर्थयोः ।
६२ - ६५ - इह राज्ञः पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति ।
६३ - ६५ - पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति ।
६४ - ६५ - तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति ।
६५ - ६५ - तथा कष्टम् श्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति ।
१ - ९१ - अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।
२ - ९१ - गतम् इति आह ।
३ - ९१ - कथम् ।
४ - ९१ - समः अयम् अर्थशब्देन सह समासः ।
५ - ९१ - सम् च उपसर्गः ।
६ - ९१ - उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।
७ - ९१ - न च इह कः चित् क्रियावाची शब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् ।
८ - ९१ - तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः शब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति ।
९ - ९१ - तत् यथा ।
१० - ९१ - धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति ।
११ - ९१ - कः पुनः असौ प्रयोगार्हः शब्दः ।
१२ - ९१ - उच्यते ।
१३ - ९१ - सङ्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति ।
१४ - ९१ - तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सङ्गतार्थः संसृष्टार्थः समर्थः इति ।
१५ - ९१ - तत् यथा सङ्गतम् घृतम् सङ्गतम् तैलम् इति उच्यते ।
१६ - ९१ - एकीभूतम् इति गम्यते ।
१७ - ९१ - यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति ।
१८ - ९१ - कः पुनः इह बध्नात्यर्थः ।
१९ - ९१ - सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति ।
२० - ९१ - न अवश्यम् बध्नातिः व्यतिषङ्गे एव वर्तते ।
२१ - ९१ - किम् तर्हि ।
२२ - ९१ - अहानौ अपि वर्तते ।
२३ - ९१ - तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः ।
२४ - ९१ - अथ वा भवति च एवञ्जातीयकेषु बध्नातिः वर्तते ।
२५ - ९१ - तत् यथा ।
२६ - ९१ - अस्ति नः गर्गैः सम्बन्धः ।
२७ - ९१ - अस्ति नः वत्सैः सम्बन्धः ।
२८ - ९१ - संयोगः इति अर्थः ।
२९ - ९१ - अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः विशेषः स वक्तव्यः ।
३० - ९१ - तत्र नानाकारकात् निघातयुष्मदस्मदादेशेप्रतिषेधः ।
३१ - ९१ - तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति ।
३२ - ९१ - तेषाम् प्रतिषेधः वक्तव्यः ।
३३ - ९१ - निघातः ।
३४ - ९१ - अयम् दण्डः ।
३५ - ९१ - हर अनेन ।
३६ - ९१ - अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति ।
३७ - ९१ - युष्मदस्मदादेशाः ।
३८ - ९१ - ओदनम् पच ।
३९ - ९१ - तव भविष्यति ।
४० - ९१ - ओदनम् पच मम भविष्यति ।
४१ - ९१ - अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति ।
४२ - ९१ - तेषाम् प्रतिषेधः वक्तव्यः ।
४३ - ९१ - किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते ।
४४ - ९१ - न अपि ब्रूमः अन्येन आसज्य ह्रियते इति ।
४५ - ९१ - किम् तर्हि ।
४६ - ९१ - शब्दप्रमाणकाः वयम् ।
४७ - ९१ - यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।
४८ - ९१ - शब्दः च इह सत्ताम् आह ।
४९ - ९१ - अयम् दण्डः ।
५० - ९१ - अस्ति इति गम्यते ।
५१ - ९१ - सः दण्डः कर्ता भूत्वा अन्येन शब्देन अभिसम्बध्यमानः करणम् सम्पद्यते ।
५२ - ९१ - तत् यथा ।
५३ - ९१ - कः चित् कम् चित् पृच्छति ।
५४ - ९१ - क्व देवदत्तः इति ।
५५ - ९१ - सः तस्मै आचष्टे ।
५६ - ९१ - असौ वृक्षे इति ।
५७ - ९१ - कतरस्मिन् ।
५८ - ९१ - यः तिष्ठति इति ।
५९ - ९१ - सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।
६० - ९१ - प्रचये समासप्रतिषेधः ।
६१ - ९१ - प्रचये समासप्रतिषेधः वक्तव्यः ।
६२ - ९१ - राज्ञः गौः च अश्वः च पुरुषः च राजगवाश्वपुरुषाः इति ।
६३ - ९१ - समर्थतराणाम् वा ।
६४ - ९१ - समर्थतराणाम् वा पदानाम् समासः भविष्यति ।
६५ - ९१ - कानि पुनः समर्थतराणि ।
६६ - ९१ - यानि द्वन्द्वभावीनि ।
६७ - ९१ - कुतः एतत् ।
६८ - ९१ - एषाम् हि आशुतरा वृत्तिः प्राप्नोति ।
६९ - ९१ - तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते ।
७० - ९१ - आश्रुतरग्रन्थः इति गम्यते ।
७१ - ९१ - अपरः आह ॒ समर्थतराणाम् वा पदानाम् समासः भविष्यति ।
७२ - ९१ - कानि पुनः समर्थतराणि ।
७३ - ९१ - यानि द्वन्द्वभावीनि ।
७४ - ९१ - कुतः एतत् ।
७५ - ९१ - एतानि समानविभक्तीनि अन्यविभक्तिः राजा ।
७६ - ९१ - भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च ।
७७ - ९१ - समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् ।
७८ - ९१ - समुदायेन राज्ञः सामर्थ्यम् भवति न अवयवेन ।
७९ - ९१ - अपरः आह ।
८० - ९१ - समर्थतराणाम् वा समुदायसामर्थ्यात् ।
८१ - ९१ - समर्थतराणाम् वा पदानाम् समासः भवति ।
८२ - ९१ - कुतः एतत् ।
८३ - ९१ - समुदायसामर्थ्यात् एव ।
८४ - ९१ - अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति ।
८५ - ९१ - एतत् च समर्थितम् ।
८६ - ९१ - कथम् ।
८७ - ९१ - न एव वा पुनः अत्र राज्ञः अश्वपुरुषौ अपेक्षमाणस्य गवा सह समासः भवति ।
८८ - ९१ - किम् तर्हि ।
८९ - ९१ - गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति ।
९० - ९१ - प्रधानम् अत्र तद गौः भवति ।
९१ - ९१ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।
१ - ७९ - आख्यातम् साव्ययकारकविशेषणम् वाक्यम् ।
२ - ७९ - आख्यातम् साव्ययम् सकारकम् सकारकविशेषणम् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।
३ - ७९ - साव्ययम् ।
४ - ७९ - उच्चैः पठति ।
५ - ७९ - नीचैः पठति ।
६ - ७९ - सकारकम् ।
७ - ७९ - ओदनम् पचति ।
८ - ७९ - सकारकविशेषणम् ।
९ - ७९ - ओदनम् मृदु विशदम् पचति ।
१० - ७९ - सक्रियाविशेषणम् च इति वक्तव्यम् ।
११ - ७९ - सुष्ठु पचति ।
१२ - ७९ - दुष्ठु पचति ।
१३ - ७९ - अपरः आह ॒ आख्यातम् सविशेषणम् इति एव ।
१४ - ७९ - सर्वाणि हि एतानि क्रियाविशेषणानि ।
१५ - ७९ - एकतिङ् ।
१६ - ७९ - एकतिङ् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।
१७ - ७९ - ब्रूहि ब्रूहि ।
१८ - ७९ - समानवाक्ये निघातयुष्मदस्मदादेशाः ।
१९ - ७९ - समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः ।
२० - ७९ - किम् प्रयोजनम् ।
२१ - ७९ - नानावाक्ये मा भूवन् निघातादयः इति ।
२२ - ७९ - अयम् दण्डः ।
२३ - ७९ - हर अनेन ।
२४ - ७९ - ओदनम् पच ।
२५ - ७९ - तव भविष्यति ।
२६ - ७९ - ओदनम् पच ।
२७ - ७९ - मम भविष्यति ।
२८ - ७९ - योगे प्रतिषेधः चादिभिः ।
२९ - ७९ - चादिभिः योगे प्रतिषेधः वक्तव्यः ।
३० - ७९ - ग्रामः तव च स्वम् मम च स्वम् ।
३१ - ७९ - किमर्थम् इचम् उच्यते ।
३२ - ७९ - यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते ।
३३ - ७९ - इदम् अद्य अपूर्वम् क्रियते वाक्यसञ्ज्ञा समानवाक्याधिकारः च ।
३४ - ७९ - तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।
३५ - ७९ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति ।
३६ - ७९ - समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् असमर्थत्वात् ।
३७ - ७९ - समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् कर्तव्यम् स्यात् ।
३८ - ७९ - समानाधिकरणे ।
३९ - ७९ - पटवे ते दास्यामि ।
४० - ७९ - म्र्दवे ते दास्यामि ।
४१ - ७९ - समानाधिकरणे ।
४२ - ७९ - युक्तयुक्ते ।
४३ - ७९ - नद्याः तिष्ठति कूले ।
४४ - ७९ - वृक्षस्य लम्बते शाखा ।
४५ - ७९ - शालीनाम् ते ओदनम् ददामि ।
४६ - ७९ - शालीनाम् मे ओदनम् ददाति ।
४७ - ७९ - किम् पुनः कारणम् न सिध्यति ।
४८ - ७९ - असमर्थत्वात् ।
४९ - ७९ - राजगवीक्षीरे द्विसमासप्रसङ्गः द्विषष्ठीभावात् ।
५० - ७९ - राजगवीक्षीरे द्विसमासप्रसङ्गः ।
५१ - ७९ - किम् कारणम् ।
५२ - ७९ - द्विषष्ठीभावात् ।
५३ - ७९ - द्वे हि अत्र षष्ठ्यौ ।
५४ - ७९ - राज्ञः गोः क्षीरम् इति ।
५५ - ७९ - किम् उच्यते द्विसमासप्रसङ्गः इति यावता सुप् सह सुपा इति वर्तते ।
५६ - ७९ - द्विसमासप्रसङ्गः इति न एवम् विज्ञायते द्वयोः सुबन्तयोः समासप्रसङ्गः द्विसमासप्रसङ्गः इति ।
५७ - ७९ - कथम् तर्हि ।
५८ - ७९ - द्विप्रकारस्य समासस्य प्रसङ्गः द्विसमासप्रसङ्गः इति ।
५९ - ७९ - राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् ।
६० - ७९ - भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् राज्ञः गोक्षीरम् राजगोक्षीरम् इति ।
६१ - ७९ - यदा तु एतत् वाक्यम् भवति राज्ञः गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति ।
६२ - ७९ - तदा कस्मात् न भवति ।
६३ - ७९ - सिद्धम् तु राजविशिष्टायाः गोः क्षीरेण सामर्थ्यात् ।
६४ - ७९ - सिद्धम् एतत् ।
६५ - ७९ - कथम् ।
६६ - ७९ - राजविशिष्टायाः गोः क्षीरेण सह समासः भवति न केवलायाः ।
६७ - ७९ - किम् वक्तव्यम् एतत् ।
६८ - ७९ - न हि ।
६९ - ७९ - कथम् अनुच्यमानम् गंस्यते ।
७० - ७९ - यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते ।
७१ - ७९ - राज्ञः या गौः तस्याः यत् क्षीरम् इति ।
७२ - ७९ - न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति ।
७३ - ७९ - किम् कारणम् ।
७४ - ७९ - असामर्थ्यात् ।
७५ - ७९ - कथम् असामर्थ्यम् ।
७६ - ७९ - सापेक्षम् असमर्थम् भवति इति ।
७७ - ७९ - कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः राज्ञा सह समासः भवति ।
७८ - ७९ - प्रधानम् अत्र तद गौः भवति ।
७९ - ७९ - भवति च प्रधानस्य सापेक्षस्य अपि समासः
१ - ३० - अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते ।
२ - ३० - पदविधौ समर्थवचनम् वर्णाश्रये शास्त्रे आनन्तर्यविज्ञानात्. पदविधौ समर्थाधिकारः क्रियते वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यम् यथा विज्ञायेत ।
३ - ३० - तिष्ठतु दधि अशान त्वम् शाकेन ।
४ - ३० - तिष्ठतु कुमारी छत्रम् हर देवदत्त इति ।
५ - ३० - समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशानर्थक्यम् ।
६ - ३० - समर्थाधिकारः अयम् विधेयेन समानाधिकरणः ।
७ - ३० - किम् च विधेयम् ।
८ - ३० - समासः ।
९ - ३० - यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः ।
१० - ३० - न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि शक्यम् प्रवर्तयितुम् निवर्तयितुम् वा ।
११ - ३० - समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशः अनर्थकः ।
१२ - ३० - सिद्धम् तु समर्थानाम् इति वचनात् ।
१३ - ३० - सिद्धम् एतत् ।
१४ - ३० - कथम् ।
१५ - ३० - समर्थानाम् पदानाम् विधिः इति वक्तव्यम् ।
१६ - ३० - एवम् अपि द्व्येकयोः न प्राप्नोति ।
१७ - ३० - एकशेषनिर्देशात् वा ।
१८ - ३० - अथ वा एकशेषनिर्देशः अयम्. समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति ।
१९ - ३० - एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।
२० - ३० - षट्प्रभृतिषु हि एकशेषः परिसमाप्यते ।
२१ - ३० - न एषः दोषः ।
२२ - ३० - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।
२३ - ३० - एवम् अपि विविभक्तीनाम् न प्राप्नोति ।
२४ - ३० - समर्थात् समर्थे पदात् पदे इति ।
२५ - ३० - एवम् तर्हि समर्थपदयोः विधिशब्देन सर्वविभक्त्यन्तः समासः ॒ समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः ।
२६ - ३० - पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः ।
२७ - ३० - समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः ।
२८ - ३० - पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः ।
२९ - ३० - समर्थविधिः च पदविधिः च समर्थः पदविधिः ।
३० - ३० - पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः ।
१ - ९० - समानाधिकरणेषु उपसङ्ख्यानम् असमर्थत्वात् ।
२ - ९० - समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।
३ - ९० - वीरः पूरुषः वीरपुरुषः ।
४ - ९० - किम् पुनः कारणम् न सिध्यति ।
५ - ९० - असमर्थत्वात् ।
६ - ९० - कथम् असमर्थत्वम् ।
७ - ९० - द्रव्यम् पदार्थः इति चेत्. यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् ।
८ - ९० - अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् ।
९ - ९० - अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् ।
१० - ९० - न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति ।
११ - ९० - अन्यः हि देवदत्तः गोभ्यः अश्वेभ्यः च न च तस्य एतावता सामर्थम् भवति ।
१२ - ९० - कः वा विशेषः यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् ।
१३ - ९० - एषः विशेषः ।
१४ - ९० - एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् ।
१५ - ९० - द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति ।
१६ - ९० - अशक्यः द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः प्रतिज्ञातुम् ।
१७ - ९० - ननु च अभ्यन्तरः असौ भवति ।
१८ - ९० - यदि अपि अभ्यन्तरः न तु गम्यते ।
१९ - ९० - न हि गुडः इति उक्ते मधुरत्वम् गम्यते शृङ्गवेरम् इति वा कटुकत्वम् ।
२० - ९० - गुणपदार्थिकेन अपि तर्हि अशक्यः गुणस्य द्रव्यकृतः उपकारः प्रतिज्ञातुम् ।
२१ - ९० - अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते ।
२२ - ९० - एवम् अनयोः सामर्थ्यम् स्यात् वा न वा ।
२३ - ९० - क्व च तावत् इदम् स्यात् समानाधिकरणेन इति ।
२४ - ९० - यत्र सर्वम् समामन् ॒ इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।
२५ - ९० - कन्दुः कोष्ठः कुशूलः इति ।
२६ - ९० - न एवञ्जातीयकानाम् समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् ।
२७ - ९० - किम् कारणम् ।
२८ - ९० - अर्थगत्यर्थः शब्दप्रयोगः ।
२९ - ९० - अर्थम् प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।
३० - ९० - तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।
३१ - ९० - किम् कारणम् ।
३२ - ९० - उक्तार्थानाम् अप्रयोगः इति ।
३३ - ९० - न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति ।
३४ - ९० - न एतौ समानार्थौ ।
३५ - ९० - एकः अत्र शक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे ॒ शक्यः भर्तुम् भृत्यः ।
३६ - ९० - अर्हति भृतिम् भरणीयः ।
३७ - ९० - भृत्यः भरणीयः भृत्यभरणीयः इति ।
३८ - ९० - यदि तर्हि यत्र किम् चित् समानम् कः चित् विशेषः तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति ।
३९ - ९० - दर्शनीयायाः माता दर्शनीयमाता इति ।
४० - ९० - अत्र अपि किम् चित् समानम् कः चित् विशेषः ।
४१ - ९० - किम् पुनः तत् ।
४२ - ९० - सद्भावान्यभावौ ।
४३ - ९० - न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति ।
४४ - ९० - तत्र प्रकर्षगतिः विज्ञास्यते ॒ यत्र साधीयः सामानाधिकरण्यम् ।
४५ - ९० - क्व च साधीयः सामानाधिकरण्यम् ।
४६ - ९० - यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च. अथ वा समानाधिकरणेन इति तत् समानम् आश्रीयते यत् समानम् भवति न च भवति ।
४७ - ९० - न च एतत् समानम् क्व चित् अपि न भवति ।
४८ - ९० - अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति ।
४९ - ९० - द्रव्यम् हि लोके अधिकरणम् इति उच्यते ।
५० - ९० - तत् यथा ।
५१ - ९० - एकस्मिन् द्रव्ये व्युदितम् ।
५२ - ९० - एकस्मिन् अधिकरणे व्युदितम् इति ।
५३ - ९० - तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते ।
५४ - ९० - एवम् अपि इदम् अवश्यम् कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति ।
५५ - ९० - किम् प्रयोजनम् ।
५६ - ९० - सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् ।
५७ - ९० - यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति ।
५८ - ९० - अधात्वभिहितम् इति एवम् तत् ।
५९ - ९० - एवम् च कृत्वा समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।
६० - ९० - वीरः पूरुषः वीरपुरुषः ।
६१ - ९० - किम् कारणम् असमर्थत्वात् ।
६२ - ९० - न वा वचनप्रामाण्यात् ।
६३ - ९० - न वा कर्तव्यम् ।
६४ - ९० - किम् कारणम् ।
६५ - ९० - वचनप्रामाण्यात् ।
६६ - ९० - वचनप्रामाण्यात् अत्र समासः भविष्यति ।
६७ - ९० - किम् वचनप्रामाण्यम् ।
६८ - ९० - समानमध्यमध्यमवीराः च इति ।
६९ - ९० - लुप्ताख्यातेषु च ।
७० - ९० - लुप्ताख्यातेषु च उपसङ्ख्यानम् कर्तव्यम् ।
७१ - ९० - निष्कौशाम्बिः निर्वाराणसिः ।
७२ - ९० - लुप्ताख्यातेषु च ।
७३ - ९० - किम् ।
७४ - ९० - वचनप्रामाण्यात् ।
७५ - ९० - किम् वचनप्रामाण्यम् ।
७६ - ९० - कुगतिप्रादयः च इति ।
७७ - ९० - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।
७८ - ९० - किम् ।
७९ - ९० - सुराजा अतिराजा इति ।
८० - ९० - न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति ।
८१ - ९० - किम् तर्हि ।
८२ - ९० - वार्त्तिकवचनप्रामाण्यात् इति ।
८३ - ९० - सिद्धम् तु क्वाङ्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति ।
८४ - ९० - तदर्थगतेः वा ।
८५ - ९० - तदर्थगतेः वा पुनः सिद्धम् एतत् ।
८६ - ९० - किम् इदम् तदर्थगतेः इति ।
८७ - ९० - तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।
८८ - ९० - यस्य अर्थस्य कौशाम्ब्या सामर्थ्यम् सः निसा उच्यते ।
८९ - ९० - अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।
९० - ९० - यः अर्थः कौशाम्ब्या समर्थः सः निसा उच्यते ।
१ - ११० - अथ यत्र बहूनाम् समासप्रसङ्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् अविशेषेण ।
२ - ११० - कः च अत्र विशेषः ।
३ - ११० - समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् ।
४ - ११० - समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् ।
५ - ११० - चर्थे द्वन्द्वः ।
६ - ११० - अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् ।
७ - ११० - प्लक्षन्यग्रोधखदिरपलाशाः इति ।
८ - ११० - न एषः दोषः ।
९ - ११० - अत्र अपि द्वयोः द्वयोः समासः भविष्यति ।
१० - ११० - द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात् ।
११ - ११० - द्वयोः द्वयोः समासः इति चेत् तत् न ।
१२ - ११० - किम् कारणम् ।
१३ - ११० - बहुषु द्वित्वाभावात् ।
१४ - ११० - न बहुषु द्वित्वम् अस्ति ।
१५ - ११० - न अवश्यम् एवम् विग्रहः कर्तव्यः ॒ प्लक्षः च न्यग्रोधः च खदिरः च पलाशः च इति ।
१६ - ११० - किम् तर्हि एवम् विघ्रहः करिष्यते ॒ प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च पलाशः च खदिरपलाशौ प्लक्षन्यग्रोधौ च खदिरपलाशौ प्लक्षन्यग्रोधखदिरपलाशाः इति ।
१७ - ११० - होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति ।
१८ - ११० - होतापोतानेष्टोद्गातारः इति प्राप्नोति ।
१९ - ११० - न च एवम् भवितव्यम् ।
२० - ११० - भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति ।
२१ - ११० - होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति ।
२२ - ११० - समासान्तप्रतिषेधः च ।
२३ - ११० - समासान्तस्य च प्रतिषेधः वक्तव्यः ।
२४ - ११० - वाक्त्वक्स्रुग्दृषदम् इति ।
२५ - ११० - वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति ।
२६ - ११० - न एषः दोषः ।
२७ - ११० - अत्र अपि परेण परेण सह समासः भविष्यति ।
२८ - ११० - स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति ।
२९ - ११० - होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति ।
३० - ११० - इह च सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण द्वयोः वृत्तौ न सिध्यति ।
३१ - ११० - अस्तु तर्हि अविशेषेण ।
३२ - ११० - अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।
३३ - ११० - यदि अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।
३४ - ११० - तत्र कः दोषः ।
३५ - ११० - तत्र स्वरसमासान्तपुंवद्भावेषु दोषः ।
३६ - ११० - तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति ।
३७ - ११० - स्वर ।
३८ - ११० - पूर्वशालाप्रियः अपरशालाप्रियः ।
३९ - ११० - स्वर ।
४० - ११० - समासान्त ।
४१ - ११० - पञ्चगवप्रियः ।
४२ - ११० - समासान्त ।
४३ - ११० - पुंवद्भाव ।
४४ - ११० - खादिरेतरशम्यम् रौरवेतर्शम्यम् ।
४५ - ११० - न वा अवयवतत्पुरुषत्वात् । न वा एषः दोषः ।
४६ - ११० - किम् कारणम् ।
४७ - ११० - अवयवतत्पुरुषत्वात् ।
४८ - ११० - अवयवः अत्र तत्पुरुषसञ्ज्ञः तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः ।
४९ - ११० - स्वरः कथम् ।
५० - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् ।
५१ - ११० - अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन ।
५२ - ११० - न एषः युक्तः विप्रतिषेधः ।
५३ - ११० - विप्रतिषेधे परम् इति उच्यते ।
५४ - ११० - पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् ।
५५ - ११० - न परविप्रतिषेधम् ब्रूमः ।
५६ - ११० - किम् तर्हि ।
५७ - ११० - अन्तरङ्गविप्रतिषेधम् ।
५८ - ११० - निमित्तिस्वरबलीयस्त्वात् वा ।
५९ - ११० - अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् ।
६० - ११० - किम् पुनः निमित्तम् कः वा निमित्ती ।
६१ - ११० - बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती ।
६२ - ११० - तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।
६३ - ११० - न वक्तव्यम् ।
६४ - ११० - एकशितिपात्स्वरवचनम् तु ज्ञापकम् निमित्तिस्वरबलीयस्त्वस्य ।
६५ - ११० - यत् अयम् युक्तारोह्यादिषु एकशितिपच्छब्दम् पठति तत् ज्ञापयति आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।
६६ - ११० - कः पुनः अर्हति युक्तारोह्यादिषु एकशितिपच्छब्दम् पठितुम् ।
६७ - ११० - एवम् किल नाम पठ्यते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति ।
६८ - ११० - तत् च न ।
६९ - ११० - एवम् विग्रहः करिष्यते ।
७० - ११० - एकः शितिः एषु ते इमे एकशितयः एकशितयः पादाः यस्य इति ।
७१ - ११० - अथ अपि एवम् विग्रहः क्रियते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन ।
७२ - ११० - इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति ।
७३ - ११० - अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण इति ।
७४ - ११० - तत्र कः दोषः ।
७५ - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।
७६ - ११० - न एषः दोषः ।
७७ - ११० - न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते ।
७८ - ११० - किम् तर्हि ।
७९ - ११० - यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन ।
८० - ११० - ननु च अस्य अपि अस्ति किम् विशेषणम् विशेष्येण बहुलम् इति. बहुलवचनात् न भविष्यति ।
८१ - ११० - अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति ।
८२ - ११० - अधिकषष्टिवर्षः इति ।
८३ - ११० - तत्र कः दोषः ।
८४ - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।
८५ - ११० - न एषः दोषः ।
८६ - ११० - इगन्ते द्विगौ इति एषः स्वरः भविष्यति ।
८७ - ११० - यः तर्हि न इगन्तः अधिकशतवर्षः इति ।
८८ - ११० - इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति ।
८९ - ११० - डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् इति ।
९० - ११० - न एषः दोषः ।
९१ - ११० - अव्ययादेः इति एवम् तत् ।
९२ - ११० - किम् पुनः कारणम् अव्ययादेः इति एवम् तत् ।
९३ - ११० - इह मा भूत् गोत्रिंशत् गोचत्वारिंशत् इति ।
९४ - ११० - बहुव्रीहिसञ्ज्ञा तर्हि प्राप्नोति. सङ्ख्यया अव्ययासन्नादूराधिकसङ्ह्याः सङ्ख्येये इति ।
९५ - ११० - न सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।
९६ - ११० - कथम् ।
९७ - ११० - एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति ।
९८ - ११० - यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति ।
९९ - ११० - कथम् च सः योगः प्रत्याख्यायते ।
१०० - ११० - अशिष्यः सङ्ख्योत्तरपदः सङ्ख्या इव अभिधायित्वात् इति ।
१०१ - ११० - प्रत्याख्याते तस्मिन् योगे सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।
१०२ - ११० - तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति ।
१०३ - ११० - सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे ।
१०४ - ११० - कथम् ।
१०५ - ११० - यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति ।
१०६ - ११० - यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति ।
१०७ - ११० - कथम् ।
१०८ - ११० - यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति ।
१०९ - ११० - अधिकशतवर्षः तु न सिध्यति ।
११० - ११० - कर्तव्यः अत्र यत्नः
१ - ८० - सुप् इति किमर्थम् ।
२ - ८० - करोषि अटन् ।
३ - ८० - न एतत् अस्ति ।
४ - ८० - असामर्थ्यात् अत्र न भविष्यति ।
५ - ८० - कथम् असामर्थ्यम् ।
६ - ८० - समानाधिकरणम् असमर्थवत् भवति इति ।
७ - ८० - इदम् तर्हि ।
८ - ८० - पीड्ये पीड्यमान ।
९ - ८० - इदम् च अपि उदाहरणम् करोषि अटन् ।
१० - ८० - ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति ।
११ - ८० - कथम् असामर्थ्यम् ।
१२ - ८० - समानाधिकरणम् असमर्थवत् भवति इति ।
१३ - ८० - न एषः दोषः ।
१४ - ८० - अधात्वभिहितम् इति एवम् तत् ।
१५ - ८० - आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम् ।
१६ - ८० - आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य अङ्गवत् भवति इति वक्तव्यम् ।
१७ - ८० - षष्थ्यन्तम् तावत् ।
१८ - ८० - मद्राणाम् राजन् मगधानाम् राजन् ।
१९ - ८० - आमन्त्रितकारकम् ।
२० - ८० - कुण्डेन अटन् ।
२१ - ८० - न अस्ति अत्र विशेषः पराङ्गवद्भावे सति असति वा ।
२२ - ८० - इदम् तर्हि ।
२३ - ८० - परशुना वृश्चन् ।
२४ - ८० - तन्निमित्तग्रहणम् वा ।
२५ - ८० - तन्निमित्तग्रहणम् वा कर्तव्यम्. आमन्त्रितनिमित्तम् परस्य अङ्गवत् भवति इति वक्तव्यम् ।
२६ - ८० - तत् च अवश्यम् अन्यतरत् वक्तव्यम् ।
२७ - ८० - अवचने हि सुबन्तमात्रप्रसङ्गः ।
२८ - ८० - अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य पराङ्गवद्भावः प्राप्नोति ।
२९ - ८० - अस्य अपि प्रसज्येत ।
३० - ८० - क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व ।
३१ - ८० - किम् पुनः अत्र ज्यायः ।
३२ - ८० - तन्निमित्तग्रहणम् एव ज्यायः ।
३३ - ८० - इदम् अपि सिद्धम् भवति ।
३४ - ८० - गोषु स्वामिन् अश्वेषु स्वामिन् ।
३५ - ८० - एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् ।
३६ - ८० - सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् अननन्तरत्वात् ।
३७ - ८० - सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् कर्तव्यम् ।
३८ - ८० - तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् ।
३९ - ८० - किम् पुनः कारणम् न सिध्यति ।
४० - ८० - अननन्तरत्वात् ।
४१ - ८० - ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्य अपि भविष्यति ।
४२ - ८० - स्वरे अवधारणात् च ।
४३ - ८० - स्वरे अवधारणात् च न सिध्यति ।
४४ - ८० - स्वरे अवधारणम् क्रियते न आनन्तर्ये ।
४५ - ८० - परम् अपि छन्दसि ।
४६ - ८० - परम् अपि छन्दसि पूर्वस्य अङ्गवत् भवति इति वक्तव्यम् ।
४७ - ८० - आ ते पितः मरुताम् सुम्नम् एतु ।
४८ - ८० - प्रति त्वा दुहितः दिवः ।
४९ - ८० - वृणीष्व दुहितः दिवः ।
५० - ८० - अव्ययप्रतिषेधः च ।
५१ - ८० - अव्ययानाम् च प्रतिषेधः वक्तव्यः ।
५२ - ८० - उच्चैः अधीयान नीचैः अधीयान ।
५३ - ८० - अनव्ययीभावस्य ।
५४ - ८० - अनव्ययीभावस्य इति वक्तव्यम् ।
५५ - ८० - इह मा भूत् ।
५६ - ८० - उपाग्नि अधीयान प्रत्यग्नि अधीयान ।
५७ - ८० - अथ किमर्थम् स्वरे अवधारणम् क्रियते ।
५८ - ८० - स्वरे अवधारणम् सुबलोपार्थम् ।
५९ - ८० - स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति ।
६० - ८० - परशुना वृश्चन् ।
६१ - ८० - न वा सुबन्तैकान्तत्वात् ।
६२ - ८० - न वा कर्तव्यम् ।
६३ - ८० - किम् कारणम् ।
६४ - ८० - सुबन्तैकान्तत्वात् ।
६५ - ८० - सुबन्तैकान्तः पराङ्गवद्भावः भवति ।
६६ - ८० - प्रातिपदिकैकान्तः तु सुब्लोपे ।
६७ - ८० - प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते ।
६८ - ८० - प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् ।
६९ - ८० - तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् ।
७० - ८० - प्रातिपदिकस्थायाः सुपः लुक् उच्यते ।
७१ - ८० - तस्मात् स्वरग्रहणेन न अर्थः ।
७२ - ८० - इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति ।
७३ - ८० - कूपे सिञ्चन् चर्म नमन् इति ।
७४ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।
७५ - ८० - इह तावत् कूपे सिञ्चन् इति स्वाश्रयम् पदादित्वम् भविष्यति ।
७६ - ८० - चर्म नमन् इति पूर्वपदात् सञ्ज्ञायाम् अगः इति एतस्मात् नियमात् न भविष्यति ।
७७ - ८० - ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति ।
७८ - ८० - न इति आह ।
७९ - ८० - अविशेषेण एतत् भवति ।
८० - ८० - पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP