पाद २ - खण्ड ४८
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - ७ - ओः अञ्विधेः नद्याम् मतुपा- विप्रतिषिद्धम् ।
२ - ७ - ओः अञ्विधेः नद्याम् मतुप् भवति विप्रतिषेधेन ।
३ - ७ - ओः अञः अवकाशह्ः कन्नतु कान्नवतम् ।
४ - ७ - मतुपः अवकाशः उदुम्बरावती मशकावती ।
५ - ७ - इह उभयम् प्राप्नोति ।
६ - ७ - इक्षुमती द्रुमती ।
७ - ७ - मतुप् भवति विप्रतिषेधेन ।
१ - १० - अङ्गग्रहणम् किमर्थम् ।
२ - १० - यथा बह्वज्ग्रहणम् अङ्गविशेषणम् विज्ञायेत ।
३ - १० - बह्वचः अङ्गात् इति ।
४ - १० - अथ अक्रियमाणे अङ्गग्रहणे बह्वज्ग्रहणम् कस्य विशेषणम् स्यात् ।
५ - १० - मत्वन्तविशेषणम् ।
६ - १० - तत्र कः दोषः ।
७ - १० - इह अपि प्रसज्येत ।
८ - १० - मालावताम् अयम् निवासः मालावतम् ।
९ - १० - अस्ति च इदानीम् अबह्वच् मत्वन्तः यदर्थः विधिः स्यात् ।
१० - १० - अस्ति इति आह स्ववान् , श्ववान् ।
१ - ८ - किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् ।
२ - ८ - नद्याम् मतुब्वचनम् मत्वर्थे अण्विधानात् ।
३ - ८ - नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् ।
४ - ८ - अयम् मत्वर्थे अण् विधीयते ।
५ - ८ - सः विशेषविहितः सामान्यविहितम् मतुपम् बाधेत ।
६ - ८ - निर्वृत्ताद्यर्थम् च ।
७ - ८ - निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते ।
८ - ८ - निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् ।
१ - २ - महिषात् च इति वक्तव्यम् ।
२ - २ - महिष्मान् ।
१ - ४० - यदि पुनः अयम् कुट् परादिः क्रियेत ।
२ - ४० - कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् ।
३ - ४० - कुटि सति प्रत्ययादेः इति आदेशस्य अनुपपत्तिः ।
४ - ४० - कुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।
५ - ४० - एवम् तर्हि पूर्वान्तः करिष्यते ।
६ - ४० - पूर्वान्ते ह्रस्वत्वम् ।
७ - ४० - यदि पूर्वान्तः ह्रस्वत्वम् वक्तव्यम् ।
८ - ४० - कुञ्चकीयाः ।
९ - ४० - परादौ पुनः सति के अणः इति ह्रस्वत्वम् सिद्धम् भवति ।
१० - ४० - अस्तु तर्हि परादिः ।
११ - ४० - ननु च उक्तम् कुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।
१२ - ४० - सिद्धम् तु आदिष्टस्य कुड्वचनात् ।
१३ - ४० - सिद्धम् एतत् ।
१४ - ४० - कथम् ।
१५ - ४० - कुट् आदिष्टस्य इति वक्तव्यम् ।
१६ - ४० - तत् तर्हि वक्तव्यम् ।
१७ - ४० - न वक्तव्यम् ।
१८ - ४० - सन्नियोगात् सिद्धम् ।
१९ - ४० - सन्नियोग्ः करिष्यते ।
२० - ४० - कः एषः यत्नः चोद्यते सन्नियोगः नाम ।
२१ - ४० - चकारः कर्तव्यः ।
२२ - ४० - कुट् च ।
२३ - ४० - यत् च अन्यत् प्राप्नोति ।
२४ - ४० - किम् च अन्यत् प्राप्नोति ।
२५ - ४० - आदेशः ।
२६ - ४० - सिध्यति ।
२७ - ४० - सूत्रम् तर्हि भिद्यते ।
२८ - ४० - यथान्यासम् एव अस्तु ।
२९ - ४० - ननु च उक्तम् ।
३० - ४० - पूर्वान्ते ह्रस्वत्वम् इति ।
३१ - ४० - निपातनात् एतत् सिद्धम् ।
३२ - ४० - किम् निपातनम् ।
३३ - ४० - क्रुञ्चाः ह्रस्वत्वम् च इति ।
३४ - ४० - तत् तर्हि पूर्वान्ते सति निपातनम् कर्तव्यम् ।
३५ - ४० - परादौ अपि एषः दोषः ।
३६ - ४० - यत् हि तत् के अणः इति ह्रस्वत्वम् न तत् कादिमात्रे शख्यम् विज्ञातुम् ।
३७ - ४० - इह अपि प्रसज्येत ।
३८ - ४० - नदीकल्पः परीवाहः कुमारीकाम्यति इति ।
३९ - ४० - तस्मात् उभाभ्याम् एतत् वक्तव्यम् ।
४० - ४० - क्रुञ्चाः ह्रस्वत्वम् च इति ।
१ - ५३ - शेषे इति उच्यते ।
२ - ५३ - कः शेषः नाम ।
३ - ५३ - अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः शेषः ।
४ - ५३ - किमर्थम् पुनः शेषग्रहणम् ।
५ - ५३ - शेषे घादयः यथा स्युः ।
६ - ५३ - स्वार्थे मा भूवन् इति ।
७ - ५३ - न एतत् अस्ति प्रयोजनम् ।
८ - ५३ - इदम् तावत् अयम् प्रष्टव्यः ।
९ - ५३ - अणादयः स्वार्थे कस्मात् न भवन्ति इति ।
१० - ५३ - अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।
११ - ५३ - तेन स्वार्थे न भविष्यन्ति ।
१२ - ५३ - इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते ।
१३ - ५३ - तेन स्वार्थे न भविष्यन्ति ।
१४ - ५३ - कथम् पुनः इह उच्यमानाः घादयः जातादिषु शक्याः विज्ञातुम् ।
१५ - ५३ - अनुवर्तिष्यन्ते तत्र घादयः ।
१६ - ५३ - यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति ।
१७ - ५३ - एवम् तर्हि जातादिषु अर्थेषु घादीन् अपेक्षिष्यामहे ।
१८ - ५३ - अयुक्ता एवम् बहुनः अपेक्षा ।
१९ - ५३ - अपेक्षमाणः अयम् अनन्तरम् योगम् अपेक्षेत ।
२० - ५३ - बहुनः अपि अपेक्षा भवति ।
२१ - ५३ - तत् यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकम् सविशेषकम् सर्वम् अपेक्ष्यते ।
२२ - ५३ - अथ वा पुनः अस्तु अनुवृत्तिः ।
२३ - ५३ - ननु च उक्तम् या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति ।
२४ - ५३ - न एषः दोषः ।
२५ - ५३ - सम्बन्धम् अनुवर्तिष्यते ।
२६ - ५३ - राष्ट्रावारपारात् घखौ ।
२७ - ५३ - ग्रामात् यखञौ राष्ट्रावारपारात् घखौ ।
२८ - ५३ - कत्त्र्यादिभ्यः ढकञ् राष्ट्रावारपारात् घखौ ग्रामात् यखञौ इति ।
२९ - ५३ - अतः उत्तरम् पठति ।
३० - ५३ - शेषवचनम् घादीनाम् अपत्यादिषु अप्रसङ्गार्थम् ।
३१ - ५३ - शेषवचनम् क्रियते शेषे घादयः यथा स्युः ।
३२ - ५३ - अपत्यादिषु मा भूवन् इति इति ।
३३ - ५३ - कथम् च प्राप्नुवन्ति ।
३४ - ५३ - तस्येदंवचनात् प्रसङ्गः ।
३५ - ५३ - तस्येदंविशेषाः हि एते अपत्यम् समूहः निवासः विकारः इति ।
३६ - ५३ - विप्रतिषेधात् सिद्धम् ।
३७ - ५३ - अणादयः क्रियन्ताम् घातयः इति अणादयः भवन्ति विप्रतिषेधेन ।
३८ - ५३ - न वा परत्वात् घादीनाम् ।
३९ - ५३ - न एषः युक्तः विप्रतिषेधः ।
४० - ५३ - किम् कारणम् ।
४१ - ५३ - परत्वात् घादीनाम् ।
४२ - ५३ - विप्रतिषेधे परम् इति उच्यते ।
४३ - ५३ - पूर्वे च अणादयः परे घादयः ।
४४ - ५३ - परे अणादयः करिष्यन्ते ।
४५ - ५३ - सूत्रविपर्यासः च एवम् कृतः भवति ।
४६ - ५३ - अणपवादत्वात् च अण्विषये घादिप्रसङ्गः ।
४७ - ५३ - अणपवादत्वात् च घादीनाम् अण्विषये घादयः प्राप्नुवन्ति ।
४८ - ५३ - न एषः दोषः ।
४९ - ५३ - आचार्यप्रवृत्तिः ज्ञापयति न अण्विषये घादयः भवन्ति इति यत् अयम् फेः छ च इति फ्यन्तम् छम् शास्ति ।
५० - ५३ - न एतत् अस्ति ज्ञापकम् ।
५१ - ५३ - फिनर्थम् एतत् स्यात् ।
५२ - ५३ - सौवीरेषु इति वर्तते न च फिनन्तम् सौवीरगोत्रम् अस्ति ।
५३ - ५३ - गोत्रग्रहणम् सामुहिकेषु ज्ञापकम् दैवयातवग्रहणम् वैषयिकेषु भास्त्रायणग्रहणम् नैवासिकेषु ।
१ - ६ - अवारपारात् विगृहीतात् अपि ।
२ - ६ - अवारपारात् विगृहीतात् अपि इति वक्तव्यम् ।
३ - ६ - अवरीणः पारीणः अवारपारीणः ।
४ - ६ - विपरीतात् च ।
५ - ६ - विपरीतात् च इति वक्तव्यम् ।
६ - ६ - पारावारीणः ।
१ - ५ - ग्रामात् च इति वक्तव्यम् ।
२ - ५ - ग्रामेयकः ।
३ - ५ - तत् तर्हि वक्तव्यम् ।
४ - ५ - न वक्तव्यम् ।
५ - ५ - कत्त्र्यादिभ्यः ढकञ् इति अत्र ग्रामात् इति अनुवर्तिष्यते ।
१ - ६ - अयम् योगः शक्यः अवक्तुम् ।
२ - ६ - कथम् कौलेयकः ।
३ - ६ - कुलस्य अपत्यम् ।
४ - ६ - कुक्षिग्रीवात् तु कन् ढञः ।
५ - ६ - कुलस्य अपत्यम् कौलेयकः इति भविष्यति ।
६ - ६ - कुक्षिग्रीवात् अपि ढञन्तात् कन् भविष्यति ।
१ - २ - बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यम् ।
२ - २ - बाह्लायनी और्दायनी पार्दायनी ।
१ - २१ - अमनुष्ये इति किमर्थम् ।
२ - २१ - राङ्कवकः मनुष्यः ।
३ - २१ - रङ्कोः अमनुष्यग्रहणानर्थक्यम् मनुष्यतत्स्थयोः वुञ्विधानात् ।
४ - २१ - रङ्कोः अमनुष्यग्रहणम् अनर्थकम् ।
५ - २१ - किम् कारणम् ।
६ - २१ - मनुष्यतत्स्थयोः वुञ्विधानात् ।
७ - २१ - अयम् मनुष्ये मनुष्यतत्स्थे च वुञ् विधीयते ।
८ - २१ - सः बाधकः भविष्यति ।
९ - २१ - एवम् तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति ।
१० - २१ - अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् न अनिष्टत्वात् ।
११ - २१ - अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् तत् न ।
१२ - २१ - किम् कारणम् ।
१३ - २१ - अनिष्टत्वात् ।
१४ - २१ - न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते ।
१५ - २१ - किम् तर्हि ।
१६ - २१ - वुञ् एव इष्यते ।
१७ - २१ - अण्ग्रहनम् च कच्छादिभ्यः अण्वचनात् ।
१८ - २१ - अण्ग्रहनम् च अनर्थकम् ।
१९ - २१ - किम् कारणम् ।
२० - २१ - कच्छादिभ्यः अण्वचनात् ।
२१ - २१ - कच्छादिपाठात् अत्र अण् भविष्यति ।
१ - २६ - परिगणनम् कर्तव्यम् ।
२ - २६ - अमेहक्वतसित्रेभ्यः त्यब्विधिः यो अव्ययात् स्मृतः ।
३ - २६ - अमा अमात्यः अमा ।
४ - २६ - इह इहत्यः इह ।
५ - २६ - क्व क्वत्यः क्व ।
६ - २६ - तसि ततस्त्यः यतस्त्यः ।
७ - २६ - त्र तत्रत्र्यः यत्रत्यः ।
८ - २६ - इतरथा हि औत्तराहौपरिष्टपारतानाम् प्रतिषेधः वक्तव्यः स्यात् ।
९ - २६ - औत्तराहः औपरिष्टः पारतः ।
१० - २६ - त्यप् नेः ध्रुवे ।
११ - २६ - त्यप् नेः ध्रुवे वक्तव्यः ।
१२ - २६ - नित्यः ।
१३ - २६ - निसः गते ।
१४ - २६ - त्यप् वक्तव्यः इति ।
१५ - २६ - निष्ट्यः ।
१६ - २६ - अरण्यात् णः ।
१७ - २६ - अरण्यात् णः वक्तव्यः ।
१८ - २६ - आरण्याः सुमनसः ।
१९ - २६ - दूरात् एत्यः डूरात् एत्यः वक्तव्यः ।
२० - २६ - दूरेत्यः ।
२१ - २६ - उत्तरात् आहञ् ।
२२ - २६ - उत्तरात् आहञ् वक्तव्यः ।
२३ - २६ - औत्तराहः ।
२४ - २६ - अव्ययात् त्यपि आविष्टस्य उपसङ्ख्यानम् छन्दसि ।
२५ - २६ - अव्ययात् त्यप् इति अत्र आविष्टस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।
२६ - २६ - आविष्ट्यः वर्धते चारुः [आसु (ऋ)].
१ - २६९ - अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः विप्रतिषेधेन ।
२ - २६९ - अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः भवति विप्रतिषेधेन ।
३ - २६९ - अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।
४ - २६९ - छस्य अवकाशः शालीयः मालीयः ।
५ - २६९ - आरात् उभयम् प्राप्नोति ।
६ - २६९ - आरातीयः ।
७ - २६९ - तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।
८ - २६९ - छस्य सः एव ।
९ - २६९ - वायस्तीरात् उभयम् प्राप्नोति ।
१० - २६९ - वायसतीरीयः ।
११ - २६९ - रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।
१२ - २६९ - छस्य सः एव ।
१३ - २६९ - माणिरूप्यात् उभयम् प्राप्नोति ।
१४ - २६९ - तम् च अपि छम् परत्वात् योपधलक्षणः वुञ् बाधते ।
१५ - २६९ - माणिरूप्यकः ।
१६ - २६९ - उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।
१७ - २६९ - छस्य सः एव ।
१८ - २६९ - वाडवकर्षात् उभयम् प्राप्नोति ।
१९ - २६९ - वाडवकर्षीयः ।
२० - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।
२१ - २६९ - छस्य सः एव ।
२२ - २६९ - औलूकात् उभयम् प्राप्नोति ।
२३ - २६९ - औलूकीयः ।
२४ - २६९ - तेभ्यः ठञ्ञिठौ ।
२५ - २६९ - तेभ्यः त्यबादिभ्यः ठञ्ञिठौ भवतः विप्रतिषेधेन ।
२६ - २६९ - अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।
२७ - २६९ - ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋकारतन्तविकी कारतन्तविका] ।
२८ - २६९ - आरात् नाम वाहीकग्रामः ।
२९ - २६९ - तस्मात् उभयम् प्राप्नोति ।
३० - २६९ - आरात्की आरात्का ।
३१ - २६९ - तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।
३२ - २६९ - ठञ्ञिठयोः सः एव ।
३३ - २६९ - कास्तीरः [ऋकास्तीरम्] नाम वाहीकग्रामः ।
३४ - २६९ - तस्मात् उभयम् प्राप्नोति ।
३५ - २६९ - कास्तीरिकी कास्तिरिका ।
३६ - २६९ - रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।
३७ - २६९ - ठञ्ञिठयोः सः एव ।
३८ - २६९ - दासरूपम् नाम वाहीकग्रामः ।
३९ - २६९ - तस्मात् उभयम् प्राप्नोति ।
४० - २६९ - तौ च अपि ठञ्ञिठौ परत्वात् योपधलक्षणः वुञ् बाधते ।
४१ - २६९ - दासरूप्यकः ।
४२ - २६९ - उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।
४३ - २६९ - ठञ्ञिठयोः सः एव ।
४४ - २६९ - शाकलम् नाम वाहीकग्रामः ।
४५ - २६९ - तस्मात् उभयम् प्राप्नोति ।
४६ - २६९ - शाकलिकी शाकलिका ।
४७ - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।
४८ - २६९ - ठञ्ञिठयोः सः एव ।
४९ - २६९ - सौसुकम् नाम वाहीकग्रामः ।
५० - २६९ - तस्मात् उभयम् प्राप्नोति ।
५१ - २६९ - तौ च अपि ठञ्ञिठौ परत्वात् कोपधलक्षणः छः बाधते ।
५२ - २६९ - सौसुकीयः ।
५३ - २६९ - न वा ठञादीनाम् छापवादत्वात् तद्विषये च अभावात् इतरेषाम् ।
५४ - २६९ - न वा अर्थः विप्रतिषेधेन ।
५५ - २६९ - किम् कारणम् ।
५६ - २६९ - ठञादीनाम् छापवादत्वात् ।
५७ - २६९ - ठञादयः छापवादाः ।
५८ - २६९ - तद्विषये च अभावात् इतरेषाम् ।
५९ - २६९ - तद्विषये छविषये त्यबादीनाम् अभावः ।
६० - २६९ - कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।
६१ - २६९ - अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् कोपधात् अणः छस्य च ।
६२ - २६९ - किम् कारणम् ।
६३ - २६९ - कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।
६४ - २६९ - सिद्धः अत्र अण् उत्सर्गेण एव ।
६५ - २६९ - तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।
६६ - २६९ - सः यथा एव तदपवादम् अञम् बाधते एवम् छम् अपि बाधेत ।
६७ - २६९ - तस्मात् अन्तोदात्ते कोपधप्रतिषेधः ।
६८ - २६९ - तस्मात् अन्तोदात्ते कोपधात् अञः प्रतिषेधः वक्तव्यः ।
६९ - २६९ - न वक्तव्यः ।
७० - २६९ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् कोपधात् अण् अञम् एव बाधिष्यते ।
७१ - २६९ - छम् न बाधिष्यते ।
७२ - २६९ - छात् ओः देशे कालात् ठञ् ।
७३ - २६९ - छात् ओः देशे ठञ् कालात् ठञ् इति एतत् भवति विप्रतिषेधेन ।
७४ - २६९ - छस्य अवकाशः शालीयः मालीयः ।
७५ - २६९ - ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋनिषादकर्षूः नाम देशः नैषादकर्षुकः ] ।
७६ - २६९ - इह उभयम् प्राप्नोति ।
७७ - २६९ - दाक्षिकर्षुकः ।
७८ - २६९ - कालात् ठञ् भवति इति अस्य अवकाशः आर्धमासिकम् सांवत्सरिकम् ।
७९ - २६९ - छस्य सः एव. मासात् उभयम् प्राप्नोति ।
८० - २६९ - मासिकम् ।
८१ - २६९ - नक्षत्रात् अण् ।
८२ - २६९ - नक्षत्रात् अण् छात् भवति विप्रतिषेधेन ।
८३ - २६९ - अणः अवकाशः तैषः पौषः ।
८४ - २६९ - छस्य सः एव ।
८५ - २६९ - स्वातेः उभयम् प्राप्नोति ।
८६ - २६९ - सौवातः ।
८७ - २६९ - अव्ययात् ट्युट्युलौ ।
८८ - २६९ - अव्ययात् ट्युट्युलौ छात् भवतः विप्रतिषेधेन ।
८९ - २६९ - ट्युट्युलयोः अवकाशः दोषान्तनम् दिवातनम् ।
९० - २६९ - छस्य सः एव. प्रातःशब्दात् उभयम् प्राप्नोति ।
९१ - २६९ - प्रातस्तनम् ।
९२ - २६९ - शरीरावयवात् यत् ।
९३ - २६९ - शरीरावयवात् यत् छात् भवति विप्रतिषेधेन ।
९४ - २६९ - यतः अवकाशः दन्त्यम् ओष्ठ्यम् ।
९५ - २६९ - छस्य सः एव ।
९६ - २६९ - पादशब्दात् उभयम् प्राप्नोति ।
९७ - २६९ - पद्यम् ।
९८ - २६९ - वर्गान्तात् च अशब्दे यत्खौ ।
९९ - २६९ - वर्गान्तात् च अशब्दे यत्खौ छात् भवतः विप्रतिषेधेन ।
१०० - २६९ - यत्खयोः अवकाशः अक्रूरवग्यः अक्रूरवर्गीणः ।
१०१ - २६९ - छस्य सः एव ।
१०२ - २६९ - वासुदेववर्गात् उभयम् प्राप्नोति ।
१०३ - २६९ - वासुदेवावर्ग्यः वासुदेववर्गीणः ।
१०४ - २६९ - बह्वचः अन्तोदात्तात् वुञ् ।
१०५ - २६९ - बह्वचः अन्तोदात्तात् ठञ् छात् भवति विप्रतिषेधेन ।
१०६ - २६९ - ठञः अवकाशः नतानन नातानतिकः ।
१०७ - २६९ - छस्य सः एव ।
१०८ - २६९ - सामस्तात् उभयम् प्राप्नोति ।
१०९ - २६९ - सामस्तिकः ।
११० - २६९ - आयस्थानेभ्यः ठक् ।
१११ - २६९ - आयस्थानेभ्यः ठक् छात् भवति विप्रतिषेधेन ।
११२ - २६९ - ठकः अवकाशः शौल्किकम् गौल्किकम् ।
११३ - २६९ - छस्य सः एव ।
११४ - २६९ - आपणात् उभयम् प्राप्नोति ।
११५ - २६९ - आपणिकम् ।
११६ - २६९ - विद्यायोनिसम्बन्धेभ्यः वुञ् ।
११७ - २६९ - विद्यायोनिसम्बन्धेभ्यः वुञ् छात् भवति विप्रतिषेधेन ।
११८ - २६९ - वुञः अवकाशः औपाध्यायकम् पैतामहकम् ।
११९ - २६९ - छस्य सः एव ।
१२० - २६९ - इह उभयम् प्राप्नोति ।
१२१ - २६९ - आचार्यकम् मातुलकम् ।
१२२ - २६९ - ऋतः ठञ् ।
१२३ - २६९ - ऋतः ठञ् छात् भवति विप्रतिषेधेन ।
१२४ - २६९ - ठञः अवकाशः हौतृकम् स्वासृकम् ।
१२५ - २६९ - छस्य सः एव ।
१२६ - २६९ - इह उभयम् प्राप्नोति ।
१२७ - २६९ - शास्तृकम् भ्रातृकम् ।
१२८ - २६९ - रूप्यमयटौ ।
१२९ - २६९ - रूप्यमयटौ छात् भवतः विप्रतिषेधेन ।
१३० - २६९ - रूप्यमयटोः अवकाशः देवदत्तरूप्यम् देवदत्तमयम् ।
१३१ - २६९ - छस्य सः एव ।
१३२ - २६९ - वायुदत्तात् उभयम् प्राप्नोति ।
१३३ - २६९ - वायुदत्तरूपम् वायुदत्तमयम् ।
१३४ - २६९ - अचित्तात् ठक् ।
१३५ - २६९ - अचित्तात् ठक् छात् भवति विप्रतिषेधेन ।
१३६ - २६९ - ठकः अवकाशः आपूपिकः शाष्कुलिकः मौदकिकः ।
१३७ - २६९ - छस्य सः एव ।
१३८ - २६९ - पायसात् उभयम् प्राप्नोति ।
१३९ - २६९ - पायसिकः ।
१४० - २६९ - गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् ।
१४१ - २६९ - गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् छात् भवति विप्रतिषेधेन ।
१४२ - २६९ - वुञः अवकाशः ग्लौचुकायनः त्रैगर्तकः ।
१४३ - २६९ - छस्य सः एव ।
१४४ - २६९ - इह उभयम् प्राप्नोति ।
१४५ - २६९ - गार्गिकः वात्सकः मालवकः ।
१४६ - २६९ - णिनिः अन्तेवासिब्राह्मणेभ्यः ।
१४७ - २६९ - णिनिः अन्तेवासिब्राह्मणेभ्यः छात् भवति विप्रतिषेधेन ।
१४८ - २६९ - णिनेः अवकाशः हारिद्रविणः तौम्बुरविणः भाल्लविनः ।
१४९ - २६९ - छस्य सः एव ।
१५० - २६९ - इह उभयम् प्राप्नोति ।
१५१ - २६९ - आरुणिनः शाट्यायनिनः ।
१५२ - २६९ - पत्त्रपूर्वात् अञ् ।
१५३ - २६९ - पत्त्रपूर्वात् अञ् छात् भवति विप्रतिषेधेन ।
१५४ - २६९ - अञः अवकाशः उष्ट्र औष्ट्रम् औष्ट्ररथम् ।
१५५ - २६९ - छस्य सः एव ।
१५६ - २६९ - इह उभयम् प्राप्नोति ।
१५७ - २६९ - वामी वामम् वामीरथम् ।
१५८ - २६९ - द्वन्द्वात् वुन् वैरमैथुनिकयोः ।
१५९ - २६९ - द्वन्द्वात् वुन् वैरमैथुनिकयोः छात् भवति विप्रतिषेधेन ।
१६० - २६९ - वुनः अवकाशः अहिनकुलिका ।
१६१ - २६९ - छस्य सः एव ।
१६२ - २६९ - इह उभयम् प्राप्नोति ।
१६३ - २६९ - काकोलूकिक श्वावराहिका ।
१६४ - २६९ - गोत्रचरणात् वुञ् ।
१६५ - २६९ - गोत्रचरणात् वुञ् छात् भवति विप्रतिषेधेन ।
१६६ - २६९ - वुञः अवकाशः ग्लौचुकायनकम् म्लौचुकायनकम् काठकम् कालापकम् ।
१६७ - २६९ - छस्य सः एव ।
१६८ - २६९ - इह उभयम् प्राप्नोति ।
१६९ - २६९ - गार्गकम् वात्सकम् मौदकम् पैप्पलादकम् ।
१७० - २६९ - कण्वादीञः अण्विधेः ।
१७१ - २६९ - कण्वादिभ्यः अण् भवति ईञः अण् भवति इति एतस्मात् वुञ् भवति विप्रतिषेधेन ।
१७२ - २६९ - कण्वादिभ्यः अण् भवति ईञः अण् भवति इति अस्य अवकाशः काण्वाः दण्डमाणवाः दाक्षाः दण्डमाणवाः ।
१७३ - २६९ - वुञः सः एव ।
१७४ - २६९ - इह उभयम् प्राप्नोति ।
१७५ - २६९ - काण्वकम् दाक्षकम् ।
१७६ - २६९ - ठञ्ञिठाभ्याम् ओः देशे ठञ् ।
१७७ - २६९ - ठञ्ञिठाभ्याम् ओः देशे ठञ् इति एतत् भवति विप्रतिषेधेन ।
१७८ - २६९ - ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋकारतन्तविकी कारतन्तविका] ।
१७९ - २६९ - ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋनिषादकर्षूः नाम देशः नैषादकर्षुकः ] ।
१८० - २६९ - इह उभयम् प्राप्नोति ।
१८१ - २६९ - नापितवास्तुकः ।
१८२ - २६९ - ठञ् भवति विप्रतिषेधेन ।
१८३ - २६९ - न वा ठञः अनवकाशत्वात् ।
१८४ - २६९ - न वा अर्थः विप्रतिषेधेन ।
१८५ - २६९ - किम् कारणम् ।
१८६ - २६९ - ठञः अनवकाशत्वात् ।
१८७ - २६९ - अनवकाशः ठञ् ठञ्ञिठौ बाधिष्यते ।
१८८ - २६९ - ननु च इदानीम् एव अवकाशः प्रक्ल्̥प्तः ।
१८९ - २६९ - यत् वृद्धम् अनुवर्णान्तम् वाहीकग्रामः सः ठञ्ञिठयोः अवकाशः ।
१९० - २६९ - यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।
१९१ - २६९ - यत् वृद्धम् उवर्णान्तम् वाहीकग्रामः तस्मात् उभयम् प्राप्नोति ।
१९२ - २६९ - एवम् तर्हि न अयम् अस्य विप्रतिषेधस्य उपालम्भः ।
१९३ - २६९ - कस्य तर्हि ।
१९४ - २६९ - छात् ओः देशे कालात् ठञ् इति एतस्य ।
१९५ - २६९ - ननु च तत्र अपि अवकाशः प्रक्ल्̥प्तः ।
१९६ - २६९ - यत् वृद्धम् उवर्णान्तम् सः छस्य अवकाशः ।
१९७ - २६९ - यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।
१९८ - २६९ - यत् वृद्धम् उवर्णान्तम् देशः च तस्मात् उभयम् प्राप्नोति ।
१९९ - २६९ - एवम् तर्हि वृद्धात् प्राचाम् इति अनेन वृद्धग्रहणेन किम् क्रियते ।
२०० - २६९ - यावत् ब्रूयात् पूर्वस्मिन् योगे वृद्धात् च अवृद्धात् च इति ।
२०१ - २६९ - यत् एतस्मिन् योगे वृद्धग्रहणम् तत् अनवकाशम् ।
२०२ - २६९ - तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।
२०३ - २६९ - योपधप्रस्थादीनाम् वुञ् ।
२०४ - २६९ - योपधप्रस्थादीनाम् वुञ् ठञ्ञिठाभ्याम् भवति विप्रतिषेधेन ।
२०५ - २६९ - योपधात् वुञ् भवति इति अस्य अवकाशः साङ्काश्य साङ्कास्यकः ।
२०६ - २६९ - ठञ्ञिठयोः सः एव ।
२०७ - २६९ - दासरूप्यम् नाम वाहीकग्रामः ।
२०८ - २६९ - तस्मात् उभयम् प्राप्नोति ।
२०९ - २६९ - दासरूप्यकः ।
२१० - २६९ - प्रस्थानान्तात् वुञ् भवति इति अस्य अवकाशः मालाप्रस्थ पालाप्रस्थकः ।
२११ - २६९ - ठञ्ञिठयोः सः एव ।
२१२ - २६९ - पातानप्रस्थम् नाम वाहीकग्रामः ।
२१३ - २६९ - तस्मात् उभयम् प्राप्नोति ।
२१४ - २६९ - पातानप्रस्थकः ।
२१५ - २६९ - पुरान्तात् वुञ् भवति इति अस्य अवकाशः काञ्चीपुर काञ्चीपुरकः ।
२१६ - २६९ - ठञ्ञिठयोः सः एव ।
२१७ - २६९ - नान्दीपुरम् नाम वाहीकग्रामः ।
२१८ - २६९ - तस्मात् उभयम् प्राप्नोति ।
२१९ - २६९ - नान्दीपुरकः ।
२२० - २६९ - वहान्तात् वुञ् भवति इति अस्य अवकाशः वातवह वातवहकः ।
२२१ - २६९ - ठञ्ञिठयोः सः एव ।
२२२ - २६९ - कौक्कुडीवहम् नाम वाहीकग्रामः ।
२२३ - २६९ - तस्मात् उभयम् प्राप्नोति ।
२२४ - २६९ - कौक्कुडीवहकः ।
२२५ - २६९ - ओः च ठञः ।
२२६ - २६९ - ओः च ठञः वुञ् भवति विप्रतिषेधेन ।
२२७ - २६९ - ओः ठञः अवकाशः नैषाहकर्षुकः [ऋनैषादकर्षुकः ] ।
२२८ - २६९ - वुञः सः एव ।
२२९ - २६९ - आप्रीतमायोः उभयम् प्राप्नोति ।
२३० - २६९ - आप्रीतमायवकः ।
२३१ - २६९ - जनपदानाम् अकाणौ ।
२३२ - २६९ - जनपदानाम् अकाणौ ओः ठञः भवतः विप्रतिषेधेन ।
२३३ - २६९ - अकस्य अवकाशः अङ्गाः आङ्गकः ।
२३४ - २६९ - ओः ठञः सः एव ।
२३५ - २६९ - जिह्नवः नाम जनपदः ।
२३६ - २६९ - तस्मात् उभयम् प्राप्नोति ।
२३७ - २६९ - जैह्नवकः ।
२३८ - २६९ - अणः अवकाशः ।
२३९ - २६९ - ऋषिक आर्षिकः ।
२४० - २६९ - ओः ठञः सः एव ।
२४१ - २६९ - इक्ष्वाकवः नाम जनपदः ।
२४२ - २६९ - तस्मात् उभयम् प्राप्नोति ।
२४३ - २६९ - इक्ष्वाकः ।
२४४ - २६९ - न वा वुञपवादत्वात् अणः ।
२४५ - २६९ - न वा अर्थः विप्रतिषेधेन ।
२४६ - २६९ - किम् कारणम् ।
२४७ - २६९ - वुञपवादत्वात् अणः ।
२४८ - २६९ - वुञपवादः अण् ।
२४९ - २६९ - वुञ् च ओः ठञम् बाधिष्यते ।
२५० - २६९ - कोपधात् अणः अकान्तात् छः ।
२५१ - २६९ - कोपधात् अण् भवति इति एतस्मात् अकान्तात् छः भवति विप्रतिषेधेन ।
२५२ - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनक नैलीनकः ।
२५३ - २६९ - अकान्तात् छः भवति इति अस्य अवकाशः आरीहणक आरीहणकीयः ।
२५४ - २६९ - ब्राह्मणकः नाम जनपदः तस्मात् उभयम् प्राप्नोति ।
२५५ - २६९ - ब्राह्मणकीयः ।
२५६ - २६९ - धन्ववुञः च ।
२५७ - २६९ - धन्ववुञः च छः भवति विप्रतिषेधेन ।
२५८ - २६९ - धन्वनः वुञ् भवति इति अस्य अवकाशः पारेधन्व पारेधन्वकः ।
२५९ - २६९ - छस्य सः एव ।
२६० - २६९ - आष्टकम् नाम धन्व ।
२६१ - २६९ - तस्मात् उभयम् प्राप्नोति ।
२६२ - २६९ - आष्टकीयः ।
२६३ - २६९ - न वा छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।
२६४ - २६९ - न वा अर्थः विप्रतिषेधेन ।
२६५ - २६९ - किम् कारणम् ।
२६६ - २६९ - छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।
२६७ - २६९ - सिद्धः अत्र छः वृद्धात् छः इति एव ।
२६८ - २६९ - तस्य पुनर्वचने एतत्प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।
२६९ - २६९ - सः यथा एव अन्यान् तदपवादान् बाधते एवम् इमम् अपि बाधिष्यते ।
१ - १५ - जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्रसङ्गः ।
२ - १५ - जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्राप्नोति ।
३ - १५ - मौञ्जः नाम वाहीकेषु ग्रामः ।
४ - १५ - तस्मिन् भवः मौञ्जीयः ।
५ - १५ - एवम् तर्हि जनपदात् एव जनपदावधेः ।
६ - १५ - जनपदात् इति चेत् वचनानर्थक्यम् ।
७ - १५ - जनपदात् इति चेत् अवधिग्रहणम् अनर्थकम् ।
८ - १५ - सिद्धम् जनपदात् इति एव ।
९ - १५ - इदम् तर्हि प्रयोजनम् ।
१० - १५ - जनपदात् जनपदावदेः वुञ् यथा स्यात् ।
११ - १५ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
१२ - १५ - किम् च अन्यत् प्राप्नोति ।
१३ - १५ - छः ।
१४ - १५ - गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् वक्ष्यति ।
१५ - १५ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।
१ - ४ - अत्यल्पम् इदम् उच्यते मनुष्ये इति ।
२ - ४ - पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यम् आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती ।
३ - ४ - वा गोमयेषु इति वक्तव्यम् ।
४ - ४ - आरण्यकाः गोमयाः आरण्याः गोमयाः ।
१ - १४ - कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ्विधानम् ।
२ - १४ - कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ् इति एतत् भवति विप्रतिषेधेन ।
३ - १४ - कुरुयुगन्धरेभ्यः वावचनस्य अवकाशः कौरवः कौरवकः यौगन्धरः यौगन्धरकः ।
४ - १४ - मनुष्यतत्स्थयोः वुञ् भवति इति अस्य अवकाशः अन्ये कच्छादयः ।
५ - १४ - काच्छकः मनुष्यः काच्छकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।
६ - १४ - इह उभयम् प्राप्नोति ।
७ - १४ - कौरव्कः मनुष्यः कौरवकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।
८ - १४ - वुञ् भवति विप्रतिषेधेन ।
९ - १४ - न एषः युक्तः विप्रतिषेधः ।
१० - १४ - न हि कुरुशब्दस्य अन्ये कच्छादयः अवकाशः ।
११ - १४ - कुरुशब्दस्य यः कच्चादिषु पाठः सः अनवकाशः ।
१२ - १४ - न खलु अपि कुरुशब्दः विभाषाम् प्रयोजयति ।
१३ - १४ - अनेन वुञ् कच्छादिपाठात् अण् भविष्यति ।
१४ - १४ - सा एषा युगन्धरार्था विभाषा ।
१ - ११ - किमर्थम् साल्वानाम् कच्छादिषु पाठः क्रियते ।
२ - ११ - साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः ।
३ - ११ - साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः क्रियते ।
४ - ११ - अण् यथा स्यात् ।
५ - ११ - वुञ् मा भूत् इति ।
६ - ११ - न वा अपदातियोगवाग्रहणम् अवधारणार्थम् ।
७ - ११ - न वा एतत् प्रयोजनम् ।
८ - ११ - किम् कारणम् ।
९ - ११ - अपदातियोगवाग्रहणम् अवधारणार्थम् भविष्यति ।
१० - ११ - अपदातौ एव साल्वात् ।
११ - ११ - गोयवाग्वोः एव च साल्वात् इति ।
१ - ११ - गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् ।
२ - ११ - गर्त्तोत्तरपदात् छविधेः जनपदात् वुञ् भवति पूर्वविप्रतिषेधेन ।
३ - ११ - गर्त्तोत्तरपदात् छः भवति इति अस्य अवकाशः श्वाविद्गर्त श्वाविद्गर्तीयः ।
४ - ११ - वुञः अवकाशः अङ्गाः आङ्गकः ।
५ - ११ - इह उभयम् प्राप्नोति ।
६ - ११ - त्रैगर्तकः ।
७ - ११ - वुञ् भवति पूर्वविप्रतिषेधेन ।
८ - ११ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।
९ - ११ - न वक्तव्यः ।
१० - ११ - उक्तम् एव अवधिग्रहणस्य प्रयोजनम् जनपदात् जनपदावदेः वुञ् यथा स्यात् ।
११ - ११ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति
१ - ७ - गहादिषु पृथिवीमध्यस्य मध्यमभावः ।
२ - ७ - गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः ।
३ - ७ - पृथिवीमध्ये भवः मध्यमीयः ।
४ - ७ - चरणसम्बन्धेन निवासलक्षणः अण् ।
५ - ७ - चरणसम्बन्धेन निवासलक्षणः अण् वक्तव्यः ।
६ - ७ - त्रयः प्राच्याः त्रयः माध्यमाः ।
७ - ७ - सर्वे निवासलक्षणाः ।
१ - १ - ईकान्तात् अपि इति वक्तव्यम् इह यथा स्यात् । ऐणीकीयः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अकेकान्तग्रहणे कोपधग्रहणम् सौसुकाद्यर्थम् । अकेकान्तग्रहणे कोपधग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । सौसुकाद्यर्थम् । सौसुकीयः ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP